SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ९४] छद्मेदं साधु विज्ञातमिति मन्त्रिणमालपन् । आययौ विस्मयस्मेरः स्ववेश्म वसुधाधवः ॥२४॥ अमर्षणो वररुचिः प्रतिकाराय मन्त्रिणः । पृच्छन् गृहकथामित्थमज्ञासीच्चेटिकामुखात् ॥ २५॥ श्री श्रीयकविवाहेऽथ नृपामन्त्रणतत्परः । मन्त्री प्रगुणयन्नस्ति शस्त्रादि प्राभृताय च ॥२६॥' छलज्ञस्तच्छलं प्राप्य वरं वररुचिस्ततः । चणकादि प्रदायेति डिम्भरूपाण्यपाठयत् ॥२७॥ न वेत्ति राजा यदसौ शकटालः करिष्यति । नन्दं व्यापाद्य राज्येऽस्य श्रीयकं स्थापयिष्यति ॥ २८ ॥ एवं दिने दिने डिम्भान् पठतः प्रतिचत्वरम् । जनश्रुत्या ततोऽश्रौषीदिति चाचिन्तयद् नृपः ॥२९॥ बालका यच्च भाषन्ते भाषन्ते यच्च योषितः । औत्पातिकी च या भाषा मृषा भवति सा न हि ॥३०॥ तत्प्रत्ययाय राज्ञाथ मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत् ॥३१॥ नमतो मन्त्रिणोऽथाभूद् भूपः कोपात् पराङ्मुखः । तद्भाववेदी वेश्मैत्याऽमात्यः श्रीयकमब्रबीत् ॥३२॥ राज्ञेऽस्मि कथितः केनाप्यभक्तोऽहं द्विषन्निव । असावकस्मादस्माकमुद्ययौ तत्कुलक्षयः ॥३३॥ रक्षस्तं नमतो राज्ञे शिरश्छिद्या ममासिना । अभक्तः स्वामिनो वध्यः पितापीति वदेस्ततः ॥३४॥ जरसापि यियासौ मय्येवं याते परासुताम् । त्वं मत्कुलगृहस्तम्भो नन्दिष्यसि चिरं ततः ॥३५॥ [विवेकमञ्जरी १. क. ख. यन्नृपः श्रीयकोद्वाहे भोक्ष्यते मन्त्रिवेश्मनि । तड्ढौकनाय शस्त्रादि सज्ज्यमानमिहास्ति च ॥२६॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy