SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ [९३ गुणानुमोदनाद्वारे स्थूलभद्रकथा] प्रगे गङ्गामयं स्तुत्वा यन्त्रमाक्रमदंहिणा । दीनारास्ते च तस्यास्मादुत्पत्य न्यपतन् करे ।।१२।। एवं स विदधेऽकस्माद् विस्मापितजनोऽन्वहम् । राजा तच्च समाकर्ण्य कथयामास मन्त्रिणे ॥१३॥ इदं यद्यस्ति सत्यं तत् प्रात:क्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तथेपि प्रत्यपद्यत ॥१४॥ दत्त्वा शिक्षां चरः सायं प्रेषितस्तत्र मन्त्रिणा । शरस्तम्बनिलीनोऽस्थात् पक्षीवानुपलक्षितः ॥१५॥ तदा वररुचिर्गत्वा मन्दं मन्दाकिनीजले । दीनाराष्टोत्तरशतप्रन्थि न्यस्य ययौ गृहे ॥१६॥ दीनारग्रन्थिमादाय तज्जीवितमिवैष तु । चरः समर्पयामास गत्वा तां लघु मन्त्रिणे ॥१७॥ स्वयं गुप्तात्तदीनारस्ततोऽमात्यो निशात्यये । ययौ राज्ञा समं गङ्गामागाद् वररुचिश्च सः ॥१८॥ द्रष्टुकामं नृपं दृष्ट्वोत्कृष्टमानो विकृष्टवाक् । गङ्गामढौकत स्तोतुं मूढो वररुचिस्ततः ॥१९॥ स्तोत्रान्तेऽचालयद् यन्त्रमंहिणासौ परन्तु न । दीनारग्रन्थिरुत्पत्य पपात करकोटरे ॥२०॥ तत्ततोऽन्वेषयन्नेष मन्त्रिणाऽभाषि किं न ते । दत्ते न्यस्तमपि द्रव्यं गङ्गा यन्मुहुरीक्षसे ? ॥२१॥ उपलक्ष्य गृहाणेदं निजद्रव्यमिति ब्रुवन् । तस्मै दीनाय दीनारग्रन्थिमर्पयति स्म सः ॥२२॥ निशि विन्यस्य विप्रोऽयं विप्रतारयितुं प्रजाः । द्रव्यं प्रातरसौ गृह्णातीति च प्राह भूपतिम् ॥२३॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy