SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ [८५ गुणानुमोदनाद्वारे सनत्कुमारकथा ] तथाहि पश्यतमिति ब्रुवाणः स्वाङ्गुलीमथ । श्लेष्मणा मर्दयित्वाऽयं चक्रे दीपशिखासखीम् ॥२२३।। ततश्चमत्कृतावेतौ चलत्कुण्डलधारिणौ । प्रत्यक्षीभूय तं योगिनाथमस्तुवतामिति ॥२२४॥ "यथाऽसि द्रव्यरोगाणमतिशायी चिकित्सकः । तथैव भावरोगाणामपि त्वं योगिनां वर ! ॥२२५॥ धन्यस्त्वं सुकृती सत्त्वश्लाधां यस्य पुरन्दरः । चक्रे, त्वां द्रष्टुमायावस्तेनावामपि कौतुकात् ॥२२६॥ लौकिका योगिनः कायस्थैर्योपायशिलोञ्छिनः । रङ्का इव न कर्मारिमारिमाधातुमीशते ॥२२७॥ भवांस्तु लब्धिमानेवमपि देहानुपेक्षया । समितावुद्यमन् कर्मानीकमर्माणि भेत्स्यति ॥२२८॥ तदुग्रमतिशीर्यन्ती तनूं स्वामपि योऽन्वहम् । उपेक्षतेऽन्तरङ्गारीजेतुं तस्मै नमोऽस्तु ते" ॥२२९॥ . तौ स्तुत्वेति सनत्कुमारममरौ नत्वा च सत्त्वात्मतां, तत्वा चास्य तथा यथागतमगच्छतां सुधर्मामभि । सोऽपि स्वं शमिराट् समाप्य शरदां लक्षैस्त्रिभिः संभृतं, सर्वायुः समये विपद्य च सुरः कल्पे तृतीयेऽभवत् ॥२३०॥३०॥ 10 15 ॥ इति सनत्कुमारकथा ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy