________________
5
10
15
20
८४]
असौ कोद्रवकूरेण च्छगीतक्रेण पारणम् । चतुर्थतपसो लेभे ततः षष्ठतपोऽकरोत् ॥२११॥ ततः प्रभृति वेलातिक्रमैः कदशनैरपि । रोगास्तस्याभवन् काशकच्छूश्लेष्मज्वरादयः ॥२१२॥ शिरोऽक्षिकर्णहृत्कुक्षिनखपृष्ठेषु जज्ञिरे । तस्य शूलानि सप्तेति पूर्वकर्मविपाकतः ॥२१३॥ सप्तवर्षशतीमस्य सहतः शूलवेदनाः । कफविप्रुण्मलामर्शादयोऽजायन्त लब्धयः ॥२१४|| स योगी निःस्पृहो देहे विषे रोगविप्लवम् । लब्धिमानपि दुष्कर्मविजयध्यानतन्मनाः ॥२१५॥ $$ अस्मिनन्नवसरे शक्रः सुधर्मायामवस्थितः । प्राशंसत् तं शिरो धुन्वन् पुरंतः स्वर्गिणामिति ॥२१६॥ सनत्कुमारयोगीन्दोरहो ! साहसामद्भुतम् । चिकित्सयति नो रोगान् प्रार्थितस्त्रिदशैरपि ॥२१७॥ जयश्च विजयश्चेति श्रुत्वा तावेन नाकिन सत्त्वं सनत्कुमारस्य द्रष्टुमुत्तेरतुर्दिवः ॥२१८॥ वैद्यवेषधरौ गत्वा नत्वा तमिदमूचतुः । त्वामुल्लाघं मुने! कुर्वोऽनुजानीहि चिकित्सितुम् ॥ २१९ ॥ एवं पुनः पुनस्ताभ्यामर्थितः स महामुनिः । समाधिं पारयित्वाह भाषासमितिसमितः ॥ २२०॥ धर्मशीलौ ! युवां वैद्यौ मम रोगांश्चिकित्सथः । पुनः कथयतं पूर्वं द्रव्यतो भावतोऽथवा ? ॥२२१॥ काशकुष्ठादयश्चैते द्रव्यात्, कर्माणि भावतः । तद् द्रव्यरोगानहमप्यलम्भूष्णुश्चिकित्सितुम् ॥२२२॥
I
[ विवेकमञ्जरी