________________
[८३
10
गुणानुमोदनाद्वारे सनत्कुमारकथा]
"अथैष जातवैराग्यश्चिन्तयामासिवानिति । खलमैत्रीव देहोऽयमहो ! क्षणविनश्वरः ॥१९९॥ यत् प्रातः सिद्धमझायापराह्नेऽन्नं विनश्यति । तदाधारं वपुर्नृणां किल स्थैर्यकुतोऽश्नुताम् ? ॥२००॥ नवश्रोत्रविलेऽमुष्मिन् कलेवरगृहे किल। जीवस्य वसतः कालव्यालतः कुशलं कियत् ? ॥२०१॥ यद्भोगादनमुच्छिष्टं विनष्टं द्रव्यमुच्यते । मलिनं च पयोऽप्यस्य वपुषः केव शोचना ? ॥२०२॥ यो देव-साधु-बन्धुभ्योऽप्यधिकं वीक्ष्यते जनैः। दृष्टः पत्तिरिवानिष्टे स देहो नात्मनः सखा ॥२०३॥ तदस्य नश्यतो लाभं ग्रहीष्ये धर्मकर्मणा । अवक्रयकुटीवायं दह्यतां किमनेन मे ?" ॥२०४॥ इत्थमुल्लसितस्वान्तबोधशान्तमना नृपः । सद्यो विहाय साम्राज्यं पटप्रान्तपरागवत् ॥२०५॥ सत्वरं व्रतमादाय सुस्थिताचार्यसंनिधौ । मृगराज इवैकाकी विजहार वनाद् वनम् ॥२०६।। युग्मम् ॥ चतुःषष्टिसहस्रान्तःपुरस्त्रीपरिवारिता । निरानन्दा सुनन्दा स्त्रीरत्नं चाटूनि तन्वती ॥२०७॥ स्तुवन्तो दिव्यरूपेण पद्माद्या निधयो नव । द्वात्रिंशच्च सहस्राणि भूपा मुकुटवर्धनाः ॥२०८॥ रत्नान्यपि चिरत्नानि चक्रादीनि चतुर्दश । आषण्मासीं वशिनं तमन्वगुः प्रतिकाननम् ॥२०९॥ विशेषकम् ॥ पुण्यकर्मणि तं राज्यमिति प्राज्यमनुव्रजत् । सिंहावलोकितेनालुलोके स्तोकं स तु प्रभुः ॥२१०॥
20