SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ८२] [विवेकमञ्जरी अतः क्षणं प्रतीक्षेथां स्नात्वा यावदहं तनूम् । अलङ्कर्वे सभां चापि प्रतिहारादिनोद्भटाम् ॥१८७॥ ततस्तौ पट्टशालैकदेशे राज्ञोदितौ स्थितौ । स्नात्वा भूमानपि स्फारं चक्रे श्रृङ्गारमादरात् ॥१८८॥ चामरैर्वीज्यमानश्च स्तूयमानश्च बन्दिभिः । वन्द्यमानश्च भूपाद्यैरथासावासदत् सदः ॥१८९।। कनकस्थालमारोप्य कणिकादीपिकास्ततः । चक्रे वारवधूमुख्यास्तस्य नीराजनाविधिम् ॥१९०।। अथाहताविमौ विप्रौ चक्रिण वीक्ष्य तत्क्षणात् । जातौ दुःखाग्निधूम्याभिरिव कृष्णामुखच्छवी ॥१९१।। अथाह विस्मितश्चक्री युवां किं विमुखाविव? । तावूचतुरनित्यत्वं दृष्ट्वा रूपश्रियस्तव ॥१९२।। यतो देव ! यदाऽभ्यङ्ग्यमानोऽभूस्त्वं तदा तव। आसीदप्रतिरूपस्य रूपलक्ष्मीरनश्वरी ॥१९३|| अधुना तु धुनात्येषा मनसो मुदमावयोः । कुष्ठेनोत्तिष्ठमानेन लुप्यमाना शनैः शनैः ॥१९४॥ नृपोऽब्रवीद् युवां विप्रौ ! जानीथः कथमप्यहो ! । तावूचतुः सुरावावां जानीवो दिव्यचक्षुषा ॥१९५।। तव रूपश्रियं शक्रादाकणर्यावां समागतौ । विप्रवेषधरावेतौ कौतुकेन विलोकितुम् ॥१९६॥ दृष्टा चेयं विनष्टा च धिग् नृणामस्थिरं वपुः । इत्युक्त्वा तौ सुरीभूय मङ्ख्दपततां दिवि ॥१९७।। $8 ततो नरपतिः पश्यन् विस्मयेन निजं वपुः । ददर्शायं गतच्छायं भूषितं भूषणैरपि ॥१९८॥ 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy