________________
गुणानुमोदनाद्वारे सनत्कुमारकथा ]
पृष्टोऽथ निखिलैर्देवैर्देवेन्द्रः सान्द्रविस्मयैः । कथं सङ्गमदेवस्य स्वामिस्तेजोऽतिदुस्सहम् ? ॥१७५॥ शक्रोऽभ्यधत्त विदधे तपोऽनेनातिदुस्तपम् । आचाम्लवर्धमानाख्यं तेजस्तेनौजसायते ॥ १७६ ।। तथेति पुनरुचुस्ते कोऽप्यन्योऽपि क्वचिद् विभो ! | विद्यते हृद्यतेजोभिर्भासुरोऽयं सुरो यथा ? ॥ १७७৷৷ ततः शक्रोऽब्रवीदस्ति हस्तिनाग्रपुरेश्वरः । क्षितौ सनत्कुमारोऽस्मादपि रूपमहो महान् ॥१७८॥ जयश्च विजयश्चाथ देवौ शक्रस्य तद्वचः । अश्रद्दधानो तं द्रष्टुं स्वर्लोकादवतेरतुः ॥१७९॥ विप्रवेषधरावेतौ प्रतीहारनिवेदितौ । प्रविष्टौ स्नानशालायं तदोर्वीशमपश्यताम् ॥१८०॥ अथो मिथोऽपि तौ तस्य रूपातिशयरञ्जितौ । रोमाञ्चषितौ मौलि धुन्वानाविदमूचतुः || १८१ ॥ अहो ! तैलाभिषक्तस्याप्यभूषणभूतोऽपि हि । वराशिपरिधानस्याप्यस्य रूपं निरूप्यते ॥ १८२॥ रूपं सनत्कुमारे यत् तद् न वैमानिकेष्वपि । इति शक्रवचो नूनमृषोद्यमजायत ॥ १८३॥ अथाह चक्री हे विप्रौ ! किमागमनकारणम् ? । तावुचतुर्नृपान्यद् न तव रूपनिरूपणात् ॥१८४॥ तद् भूप ! रूपयुक्तस्योत्तार्य वेधास्तवोपरि । अक्षिपल्लवणं दिक्षु तेन क्षारपयोधयः ॥ १८५ ॥ रूपगर्वादथोर्वीशः स्मित्वा वोचद् द्विजोत्तमौ ! युवामसमये रूपं निरूपितुमुपागतौ ॥ १८६॥
[ ८१
5
10
15
20