________________
८०]
[विवेकमञ्जरी
10
नन्दिनीश्चन्द्रवेगस्य शतमन्याः सहस्रशः । पर्यणैषीदसौ विद्याभृतां हृद्याः कुमारिकाः ॥१६३।। वैताढ्यगिरिकूटेषु जिनायतनकोटिषु । कुमारः कारयामास ततोऽष्टाहीमहोत्सवान् ॥१६४|| स्वैरं क्रीडन् कुमारोऽयमिहायातोऽद्य विद्यते ।
भवांश्च दत्तसंकेत इवास्य मिलितः पुनः ॥१६५।। $$ उक्ते बकुलमत्येति स्वचरित्रेऽखिलेऽपि हि । मुक्तनिद्र इवोदस्थात् कुमारस्तल्पतस्तदा ॥१६६।। ततश्चमूसमूहेन वैताढ्यं गतवानयम् । प्रस्तावे क्वापि विज्ञप्तः शौरिणेति ससौष्ठवम् ॥१६७।। तव देव ! वियोगेन पितरावतिदुःखितौ । तत् तयोर्दर्शनं कर्तुं प्रसादः क्रियतां मयि ॥१६८॥ श्रुत्वेति तत्क्षणादेव विमानैश्छादयन् नभः । प्राप्तः सनत्कुमारोऽथ हस्तिनाग्रपुरं पुरम् ॥१६९।। प्रजाः पुरप्रवेशेऽस्य मुदा स्थूलं भविष्णवः । असमान्त्य इवामीषु वेश्मनामारुहन् शिखाः ॥१७०।। कुमारं पितरौ दृष्ट्वाऽभजतां परमां मुदम् । ऋद्धिमस्य विलोक्यतो तद् न विद्मो यदूहतुः ॥१७१॥ अथासौ साधयामास द्विस्त्रिखण्डामपि क्षितिम् ।
अखण्डितप्रतापश्च साम्राज्यं समपालयत् ॥१७२॥ $$ अथास्य चक्रिणो भोगान् भुञ्जानस्यान्यदा भुवि ।
सौधर्मेन्द्रसभां प्रापेशानतः सङ्गमः सुरः ॥१७३।। सौधर्मवासिनो देवाः प्रभया तस्य निष्प्रभाः । जज्ञिरे भास्वतो भासा भत्सितास्ततारका इव ॥१७४॥
15