SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ [७९ . गुणानुमोदनाद्वारे सनत्कुमारकथा] तातावपि समायान्तौ तिष्ठतस्त्वामुपासितुम् । त्वदर्थं प्रहिते ताभ्यामेते च रथवर्मणी ॥१५१॥ यस्मादशनिवेगाख्यः खेचरेन्द्रस्तवोपरि । आगच्छन् सबलोऽस्त्यात्मसुतं श्रुत्वा त्वया हतम् ॥१५२॥ इति यावत् कुमाराग्रे शुद्धिमावेद्य तौ स्थितौ । चन्द्रवेग-भानुवेगौ तावत् तावप्युपागतौ ॥१५३।। प्रज्ञप्तिमार्यपुत्राय तदा सन्ध्यावली त्वदात् । वेगादशनिवेगश्च परिपन्थी समागमत् ॥१५४।। चन्द्रवेग-भानुवेगौ ससैन्यावतिदुर्धरौ । बलेनाशनिवेगस्य सह योद्धमढौकताम् ॥१५५।। सैन्ययोरुभयोः शस्त्राशस्त्रिवह्निकणाच्छलात् । तदा सङ्ग्रामभीत्येव तत्रसुस्तारका दिवि ॥१५६।। मसृणा घुसृणेनेवास्त्रेण विस्रेण युद्धताम् । पाणिपादाननैः पौरिव रेजे तदाजिभूः ॥१५७॥ कुमारोऽशनिवेगेनाङ्गाङ्गिशस्त्रास्त्रदारुणम् । रणं चकार परितो वीक्ष्यमाणः सुरासुरैः ॥१५८॥ अत्रान्तरे कुमारस्य पूर्वपुण्यमिवाङ्गवत् । चक्रमागात् करे तेन लूनं वैरिशिरोऽमुना ॥१५९॥ चक्री सनत्कुमारोऽयं चतुर्थो जयतादिह । इति देवाः स्तुवन्तोऽस्मिन् पुष्पवृष्टिं व्यधुस्तदा ॥१६०॥ ततः कुमारमशनिवेगविद्याधरेशितुः । राज्यलक्ष्मीरुपेयाय बालादित्यमिव द्युतिः ॥१६१॥ ततो वैताढ्यमगमच्चक्री विद्याधरैः सह । तत्र विद्याधराधीशपदे तैरभ्यषिच्यत ॥१६२।। 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy