________________
धिहजओ अणासंसी । अविकत्थणो अमायी थिरपरिवाडी गहियवको ॥१॥ जियपरिसो जियनिदो मझत्यो देसकालभावन्नू । आसबलद्धपइभो नाणाविहदेसभासनू ॥ २॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरणहेउवनयनयनिउणोगाहणाकुसलो ॥३॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ एसो पवयणसारं परिकहेउं ॥४॥ इति गाथाचतुष्टयभणिताः सुरिगुणाः पत्रिंशदर्श्यन्ते तत्र युतशब्दः प्रत्येकममिसम्बध्यते, देशयुतः कुलयुत इत्यादि, तत्र यो मध्यदेशे जातो यो वाऽर्धषडविंशतिषु जनपदेषु स देशयुतः, स ह्यार्यदेशभणितं जानाति ततः सुखेन तस्य समीपे शिष्याः सर्वेऽप्यधीयन्ते इति तदुपादानं १ कुलं-पैतृक तथा च लोकव्यवहारः-ईक्ष्वाकुकुलजोऽयमित्यादि तेन युतः प्रतिपन्नार्थनिर्वाहको भवति २ जातिः-मातृकी तया युतो विनयादिगुणवान् भवति ३ रूपयुतो लोकानां गुणविषयबहुमानभाग जायते, 'यत्राकृतिस्तत्र गुणा वसन्तीतिप्रवादात्, कुरूपस्य अनादेयत्वादिप्रसङ्गाश्च ४ संहननेन-विशिष्टशारीरसामर्थ्यरूपेण युतो व्याख्यायां न श्राम्यति ५ धृतिः-विशिष्टमानसावष्टम्भलक्षणा तया युतो नातिगहनेष्वप्यर्थेषु भ्रममुपयाति ६ अनाशंसी-श्रोतृभ्यो वखाद्यनाकाङ्की ७ अविकत्थनो-नातिबहुभाषी, यद्वा स्वल्पेऽपि केनचिदपराद्धे पुनः पुनस्तदुत्कीर्तनं विकत्थनं तद्रहितः ८ अमायी-शाठ्यरहितः ९ स्थिरा-अतिशयेन निरन्तराभ्यासतः स्थैर्यमापन्ना अनुप्रयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थो वा न मनागपि गलति १० गृहीतवाक्यः-उपादेयवचनः, तस्य हि स्वल्पमपि वचनं महार्थमिव प्रतिभाति ११ जितपर्षत् न महत्यामपि पर्षदि क्षोभमुपयाति १२ जितनिद्रः-अल्पनिद्रः, स हि रात्रौ सूत्रमर्थ वा परिभावयन् न निद्रया बाध्यते १३ मध्यस्थ:-सर्वेषु शिष्येषु समचित्तः १४ देशं कालं च भावं च जानातीति देशकालभावः, स हि देशं कालं भावं च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां वाऽभिप्रायान् ज्ञात्वा तान सुखेनानुवर्तयति १५-१६-१७ आसन्ना-तत्क्षणादेव लब्धा कर्मक्षयोपशमेनाविर्भूता प्रतिभा-परतीथिकादीनामुत्तरप्रदानशक्तिर्यस्य स आसन्नलब्धप्रतिभः १८ नानाविधानां देशानां भाषां जानातीति नानाविधदेशभाषाज्ञः, स हि नानादेशीयान् शिष्यान् सुखेन शास्त्राणि ग्राहयति, तत्तद्देशजांश्च जनान् तत्तद्भाषया धर्ममार्गेऽवतारयति १९ पञ्चविध आचारो-ज्ञानाचारादिरूपस्तस्मिन् युक्तः-उद्युक्तः स्वयमाचारेष्वनवस्थितस्यान्यानाचारेषु प्रवर्तयितुमशक्यत्वात् २४ सूत्रार्थग्रहणेन चतुर्भङ्गी सूचिता, एकस्य सूत्रं नार्थः द्वितीयस्यार्थो न सूत्रं तृतीयस्य सूत्रमप्यर्थोऽपि चतुर्थस्य न सूत्रं नाप्यर्थः, तत्र तृतीयभङ्गाहणार्थ तदुभयग्रहणं, ततः सूत्रार्थतदुभयविधीन जानातीति सूत्रार्थतदुभयविधिज्ञः २५ आहरणं-दृष्टान्तः हेतुविविध:-कारको ज्ञापकश्च, तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनाममिव्याकः प्रदीपः, उपनय:उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः 'कारण'त्ति पाठे तु कारणं-निमित्तं नया-नैगमादयः एतेषु निपुणः आहरणहेतुपनयनयनिपुणः, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः कचिद् दृष्टान्तोपन्यासं २६ कचिद्धेतूपन्यासं करोति २७ उपसंहारनिपुणतया सम्यगधिकृतमर्थमुपसंहरति २८ नयनिपुणतया स सम्यगधिकृतनयवक्तव्यताऽवसरे सम्यक् सप्रपञ्चवैविक्त्येन नयानमिघत्ते २९ पाहणाकुशल:-प्रतिपादनशक्तियुक्तः ३० स्वसमयं ३१ परसमयं ३२ च वेत्तीति स्वसमयपरसमयवित्, स हि परेणाक्षिप्तः सुखेन खपक्षं परपक्षं च निर्वाहयति, गम्भीर:-अतुच्छखभावः ३३ दीप्तिमान्-परवादिनामनुद्धर्षणीयः ३४ शिव:-अकोपनो यदिवा यत्र तत्र वा विहरन् कल्याणकरः ३५ सोमः-शान्तदृष्टिः ३६ इति षट्त्रिंशद्गुणोपेतो गुरुर्विज्ञेयः, उपलक्षणत्वाचामीषां गुणानामपरैरपि गुणैरौदार्यस्थैर्यादिमिः शशधरकरनिकरकमनीयैरलकृतः प्रवचनोपदेशको गुरुर्भवति, तथा चाह-"गुणसयकलिओ जुत्तो पवयणसारं परिकहे"ति, यद्वा गुणा-मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितोगुणशतकलितः युक्तः-समीचीनःप्रवचनस्य-द्वादशांगस्य सारंअर्थ कथयितुं, यदुक्तं-"गुणसुढियस्स क्यणं घयपरिसित्तो व्व पावओ भाइ । गुणहीणस्स न सोहइ नेहविहूणो जह पईवो ॥१॥ [गुणसुस्थितस्य वचनं घृतपरिषिक्त इव पावको भाति । गुणहीनस्य न शोभते स्नेहविहीनो यथा प्रदीपः॥१॥] इति गाथाचतुष्टयाः ।। ५४९ ॥ ६४ ॥ इदानीं 'विणओ बावन्नंभेयपडिभिन्नो'त्ति पञ्चषष्टं द्वारमाह
तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिय ६ धम्म ७ णाण ८ णाणीणं ९ । आयरिय १० थेरु ११ वज्झाय १२ गणीणं १३ तेरस पयाई ॥५५०॥ अणसायणा १ य भत्ती २ बहु
माणो ३ तह य वण्णसंजलणा ४ । तित्थयराई तेरस चउग्गुणा हुंति बावण्णा ॥५५१॥ 'तित्थे'त्यादिगाथाद्वयं, तीर्थकरादिस्वरूपाणि तावत् त्रयोदश पदानि, तत्र तीर्थकरसिद्धौ प्रसिद्धौ कुलं-नागेन्द्रकुलादि गणः-कोटिकादिः सबः-प्रतीतः क्रिया-अस्तिवादरूपा धर्म:-श्रमणश्रावकधर्मादिः ज्ञानं-मत्यादि ज्ञानिन:-तद्वन्तः आचार्यः प्रतीतः स्थविरः-सीदतां स्थिरीकरणहेतुः उपाध्यायः-प्रसिद्धः कियतोऽपि साधुसमुदायस्याधिपतिर्गणी ॥ यदि नामैतानि च त्रयोदश पदानि ततः किमित्याह-आशावना-जात्यादिहीलना तदभावोऽनाशातना तीर्थकरादीनां सदैव कर्तव्या, तथा भक्तिः-तेष्वेवोचितोपचाररूपा तथा बहुमान:-तेष्वे'वान्तरङ्गप्रतिबन्धविशेषः तथा तेषामेव 'वर्णसवलना' वर्ण:-कीर्तिस्तस्य सवलना-प्रकाशनं, अनेन प्रकारेण तीर्थकरादयत्रयोदश चतुर्गुणा अनाशातनायुपाधिभेदेन द्विपञ्चाशद्विनयभेदा भवन्तीति ॥ ५५०-५५१ ॥६५॥ सम्प्रति 'चरणं ति षट्पष्टं द्वारमाह
वय ५ समणधम्म १० संजम १७ वेयावचं १० च बंभगुत्तीओ ९ । नाणाइतियं ३ तव १२ कोहनिग्गहा ४ इइ चरणमेयं ७०॥५५२॥ पाणिवह मुसावाए अदत्त मेहुण परिग्गहे चेव । एयाई
88