________________
होति पंच उ महव्वयाइं जईणं तु ॥५५३॥ खंती य मद्दवऽजव मुत्ती तव संजमे य षोडव्वे । सचं सोयं आकिंचणं च बंभंच जइधम्मो॥ ५५४॥ पंचासवा विरमणं पंचिंदियनिग्गहो कसायजओ। दंडत्तयस्स विरई सतरसहा संजमो होइ ॥ ५५५ ॥ पुढवि १ दग २ अगणि ३ मारुय ४ वणस्सइ ५ बि ६ ति ७ चउ ८ पणिदि ९ अज्जीवा १० । पेहु ११ प्पेह १२ पमजण १३ परिठवण१४ मणो १५ वई १६ काए १७ ॥५५६ ॥ आयरिय १ उवज्झाए २ तवस्सि ३ सेहे ४ गिलाण५ साहूसुं ६ । समणोन्न ७ संघ ८ कुल ९गण १० वेयावच्चं हवइ दसहा ॥ ५५७ ॥ वसहि १ कह २ निसिग्निं ३ दिय ४ कुडुंतर ५ पुव्वकीलिय ६ पणीए ७। अइमायाहार ८ विभूसणाई ९ नव बंभगुत्तीओ ॥ ५५८ ॥ बारस अंगाईयं नाणं तत्तत्थसदहाणं तु । दसणमेयं चरणं विरई देसे य सव्वे य ॥ ५५९ ॥ अणसणमूणोयरिया वित्तिसंखेवणं रसचाओ । कायकिलेसो संलीणया य बज्झो तवो होइ॥५६०॥पायच्छित्तं विणओ वेयावचं तहेव सज्झाओ ।शाणं उस्सग्गोवि य अभितरओ तवो होइ ॥ ५६१ ॥ कोहो माणो माया लोभो चउरो हवंति हु कसाया।
एएसिं निग्गहणं चरणस्स हवंतिमे भेया॥५६२॥ 'वयेत्यादिगाथादशकं, व्रतानि-प्राणातिपातविरमणादीनि परिग्रहविरमणान्तानि तथा श्रमणानां-साधूनां धर्मः श्रमणधर्म:-श्रान्तिमार्दवादिको दशभेदः तथा सम्-एकीभावेन यमः-उपरमः संयमः सप्तदशभेदः तथा व्यापिपर्ति स्मेति व्यापृतस्तस्य भावो वैयावृत्त्यं आचार्यादिभेदादशप्रकार तथा ब्रह्म-ब्रह्मचर्य तस्य गुप्तयो ब्रह्मचर्यगुप्तयः ताश्च वसत्यादिका नव तथा ज्ञायतेऽनेनेति ज्ञानं-आमिनिबोधिकादि तत् आविर्यस्य तद्-झानादि आदिशब्दात्सम्यग्दर्शनचारित्रपरिग्रहः ज्ञानादि च तत् त्रिकं च ज्ञानादित्रिकं तथा तपो-द्वादशप्रकारमनशनादि तथा क्रोधस्य निप्रहः क्रोधनिग्रहः बहुवचनं माननिग्रहादिपरिप्रहार्थ, इति-एवम्प्रकारं एतच्चरणं भवतीति, 'कोहनिग्गहाई चरणं' इति तु पाठे क्रोधनिग्रह आदिर्यस्य माननिग्रहादिकदम्बकस्य तत्क्रोधनिग्रहादि, एतच्चरणमवसेयमिति । इह सहृदयंमन्यः प्राह-ननु चतुर्थव्रतान्तर्गतत्वाद् गुप्तयो न पृथग्भणनीयाः, अथ परिकरभूताश्चतुर्थव्रतस्य ब्रह्मचर्यगुप्तयोऽभिधीयन्ते एवं तर्हि प्राणातिपातविरमणादेरेकैकस्य व्रतस्य परिकरभूता भावना अपि वाच्याः , गुप्तेर्भणने वा चतुर्थ व्रतं न भणनीयं, तथा ज्ञानादित्रिकस्य ग्रहणं न करणीयं, किन्तु ज्ञानसम्यग्दर्शनयोरेवोपन्यासः कार्यः, चारित्रस्य व्रतग्रहणेनैव ग्रहणात् , तथा श्रमणधर्मग्रहणे संयमग्रहणं तपोग्रहणं चातिरिच्यते, संयमतपसी वोद्धृत्य श्रमणधर्मोपन्यासः करणीयः, तथा तपोग्रहणे सति वैयावृत्त्यस्योपन्यासो निरर्थकः, वैयावृत्त्यस्य तपोऽन्तर्गतत्वात् , तथा क्षान्त्यादिधर्मप्रहणे सति क्रोधादिनिप्रग्रहणमनर्थकमेव, तदियं गाथा परिभाव्यमाना आलूनविशीर्णेति, तत्रोच्यते, चतुरचक्रवर्तिमिर्यदेतदुच्यते-व्रतमहणे सति गुप्तयो न पृथग्वाच्या इति, तद्युक्तं, चतुर्थव्रतस्य हि निरपवादत्वं दर्शयितुमेता ब्रह्मचर्यगुप्तयः पृथगुपात्ताः, यदुक्तमागमे"नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मुत्तुं मेहुणभावं न विणा तं रागदोसेहिं ॥१॥" इति [नैव किश्चिदनुज्ञातं प्रतिषिद्धं वापि जिनवरेन्द्रः । मुक्त्वा मैथुनभावं न स विना रागद्वेषौ ॥१॥] अथवा प्रथमचरमतीर्थकरयोः परिग्रहवतात् मिन्नमेतन्महाव्रतं भवतीत्येतस्यार्थस्य ज्ञापनार्थ भेदेनोपन्यास इति, यच्चाभ्यधीयत-व्रतग्रहणे ज्ञानादित्रिकं न वक्तव्यं, किन्तु ज्ञानदर्शनद्वयमेव चारित्रस्य व्रतग्रहणेनैव गतत्वादिति, तदयुक्तं, यतो यदेतद् व्रतचारित्रं स एकांशः सामायिकादेः पञ्चविधस्य चारित्रस्य, चतुर्विधं चारित्रमद्याप्यगृहीतमस्ति, तदर्थ ज्ञानादित्रयमुपन्यस्तं इति, यच्चोक्तं श्रमणधर्मग्रहणे संयमतपसोरुपादानं न विधेयं, श्रमणधर्मग्रहणेनैव तयोगृहीतत्वात् , तदप्यसाधु, संयमतपसोः प्रधानमोक्षाङ्गत्वेन पृथगुपादानात्, कथं मोक्षं प्रति प्रधानाङ्गत्वं इति चेत्, तत्र ब्रूमः-अपूर्वकर्माश्रवसंवरहेतुः संयमः, पूर्वोपार्जितकर्मक्षयहेतुश्च तपः, ततः प्रधानत्वमनयोः, अतः श्रमणधर्मगृहीतयोरप्यनयोः प्रधानतया भेदेनोपन्यासः कृतः, दृष्टश्वायं न्यायो यथा ब्राह्मणा आयाता वशिष्टोऽप्यायातः, अत्र हि ब्राह्मणग्रहणेन वशिष्टस्यापि ग्रहणं कृतमेव तथापि प्रधानतया तस्य भेदेनोपन्यासः क्रियत इति, यच्चोक्तं-तपोग्रहणेन वैयावृत्त्यस्यापि ग्रहणाद्भेदेन तदुपादानं न विधेयमिति, तदप्यचारु, वैयावृत्त्यस्य यथा स्वपरोपकारकारित्वेन प्राधान्यं न तथाऽनशनादीनां शेषतपोभेदानामिति ख्यापनार्थ तस्य भेदेनोपादानं, यञ्चामिहितं-श्रमणधर्मग्रहणेनैव गृहीतत्वात्क्रोधादिनिग्रहः पृथग न वक्तव्य इति, तदप्यसाधीयः, यतो द्विविधाः क्रोधादयः-उदीर्णा अनुदीर्णाश्व, तत्रोदीर्णानां क्रोधादीनां निग्रहणं क्रोधादिनिग्रहः अनुदीर्णानां तु तेषामुदयनिरोधनं क्षान्त्यादय इति ज्ञापनार्थ पृथगुपादानं, अथवा वस्तु त्रिविधं-माझं हेयमुपेक्षणीयं च, तत्र क्षान्त्यादयो प्रायाः क्रोधादयो हेयाः अतो निग्रहीतव्यास्ते इत्येवमर्थमित्थमुपन्यासः, ततः सर्वमनवद्यामिति ॥ एनां च गाथां स्वयमेव सूत्रकारः प्रत्यवयवं व्याख्यानयति-'एकदेशेन समुदायोपचारात् 'पाणिवह'त्ति प्राणिवधविरतिरिति द्रष्टव्यं, एवं मृषावादादिष्वपि, तत्र प्राणिनां-त्रसस्थावरजीवानां अज्ञान १ संशय २ विपर्यय ३ राग ४ द्वेष ५स्मृतिभ्रंश ६ योगदुष्पणिधान धर्मानादर ८ रूपाष्टविधप्रमादयोगाद्वधो-हिंसनं प्राणिवधस्तस्माद्विरतिः-सम्यग्ज्ञानश्रद्धानपूर्विका निवृत्तिः प्रथमव्रतं, मृषा-अलीकं वदनं-प्रियपथ्यतथ्यवचनपरिहारेण भाषणं मृषावादस्तस्माद्विरतिद्धितीयं व्रतं, तत्र प्रियं वचनं यत् श्रुतमात्रं प्रीणयति पथ्यं-यदुत्तरकाले हितं तध्यं-सत्यं, तध्यमपि व्यवहारापेक्षया यदप्रियं यथा चौरं प्रति चौरस्त्वं कुष्ठिनं प्रति कुष्ठी त्वमिति
89