SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ असन्दिग्धवचनता ४ चेति पठ्यते, अर्थः प्राग्वदेव ॥ ५४४ ॥ अथ वाचनासम्पचतुर्धा, तद्यथा - ' जोगो' इत्यादि, तत्र परिणामिकत्वादिगुणोपेतान् शिष्यान् विज्ञाय यस्य यद्योग्यं सूत्रं तत्तस्यैवोद्दिशन् समुद्दिशन् वा योग्यवाचनः, अपरिणामिकादावप कघटनि हितजलोदाहरणतो दोषसम्भवात्, तथा पूर्वप्रदत्तसूत्रालापकान् शिष्यस्य सम्यक्परिणमय्य ततोऽपरापरालापकानां वाचनां पुनः पुनः प्रयच्छन् परिणतवाचनः, तथा वाचनायाःव्याख्यानस्य निर्यापयिता - निर्वाहकः, शिष्यसमुत्साहनेन झटित्येव प्रन्थं समर्थयते न पुनरपान्तराले एवमेव मुभातीत्यर्थः, तथा निर्वाहणो - निर्वाहकोऽर्थस्येति शेषः, पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां च कथनतः सम्यगर्थे निर्गमयतीति भावः, प्रन्यान्तरे त्वेवं दृश्यते - विदित्वोद्देशनं १ विदित्वा समुद्देशनं- परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः २ परिनिर्वाप्य वाचना - पूर्वदत्ताकापकानघिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः ३ अर्थनिर्यापणा अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः ४ ॥ अथ मतिसम्पचतुर्धा, तद्यथा - ' उग्गहे 'त्यादि, अवग्रहः ईहा अवायः धारणा च, अवग्रहादीनां च स्वरूपं षोडशोत्तरद्विशततमद्वारे वक्ष्यते || ५४५|| तथा प्रयोगः-अत्र वादादिप्रयोजनसिद्धये व्यापारः तत्काले मतिः - वस्तुपरिच्छित्तिः प्रयोगमतिः, तत्सम्पचतुर्धा, तद्यथा - 'सत्तिं' इत्यादि, शक्तिं पुरुषं क्षेत्रं वस्तु च ज्ञात्वा वादं प्रयुञ्जीत, तत्र शक्तेर्ज्ञानं वादादिव्यापारकाले किममुं वावदूकं वादिनं जेतुं मम शक्तिरस्ति न वेत्यात्मीयस्वरूपपर्यालोचनं, पुरुषज्ञानं किमयं प्रतिवादी पुरुषः सौगतः साङ्ख्यो वैशेषिकोऽन्यो वा तथा प्रतिभादिमानितरो वेत्यादिपरिभावनं, क्षेत्रज्ञानं किमिदं क्षेत्रं मायाबहुलमन्यथा वा तथा साधुभिर्भावितमभावितं वेत्यादिविमर्शनं, वस्तुज्ञानं किमिदं राजामात्यादि सभासदादि वा वस्तु दारुणमदारुणं वा भद्रकमभद्रकं वेत्यादिनिरूपणं । तथा सङ्ग्रहः-स्वीकरणं तत्र परिज्ञानं नाम - अभिधानं सङ्ग्रहपरिज्ञा, तत्सम्पञ्चतुर्धा, तद्यथा - 'गणे' त्यादि, तत्र गणस्य गच्छस्य बालदुर्बलग्लानबहुयतिजनादिलक्षणस्य निर्वाहयोग्यक्षेत्रग्रहणं गणयोग्योपसङ्ग्रहसम्पत् प्रथमा १, तथा भद्रकादिपुरुषं प्रति... तदनुरूपदेशनादिकरणेन संसक्तसम्पद् द्वितीया २, प्रन्थान्तरे तु निषद्यादिमालिन्यपरिहाराय पीठफलकोपादानात्मिका द्वितीया सम्पदुक्ता, न चैतानि पीठादीनि न गृह्यन्ते, समये प्राहितत्वान्, तथा च जीतकल्पे - " पीढफलगाइगहणे न उ मइलिंती निसिज्वाई । वासासु विसेसेणं अन्नकालं तु गम्मएत्थ ॥ १ ॥ पाणा सीयल कुंथाइया य तो गहण वासासु ।” [ पीठफलकादिग्रहणे नैव मलिन्यन्ते निषद्यादीनि वर्षासु विशेषेण अन्यकाले तु गम्यतेऽन्यत्र ॥ १ ॥ प्राणाः शीतलं कुन्ध्वाविकाश्च ततो महणं वर्षासु ] तथा यथासमयमेव स्वाध्यायप्रत्युपेक्षणामिक्षाटनोपधिसमुत्पादनात्मिका स्वाध्यायसम्पत्तृतीया, तथा गुरुप्रव्राज काध्यापक रत्नाघिकप्रभृतीनामुपधिवद्दनविश्रामणाभ्युत्थानदण्डकोपादानादिशिक्षणात्मिका शिक्षोपसङ्ग्रहसम्पञ्चतुर्थी, इत्येवं चतुर्विधां संग्रहपरिज्ञासम्पदं जानीयात्, दर्शिता अष्टापि प्रत्येकं चतुर्विधा गणिसम्पदः ॥ ५४६ ॥ इदानीं चतुर्विधं विनयमाह - ' आये' त्यादि, आचारविनयः श्रुतविनयो विक्षेपणविनयो दोषपरिघातविनयश्चेति विनयविषये एषा चतुर्धा प्रतिपत्तिर्भवति, तत्र आचारो - प्रतिनां समाचारः स एव विनीयते- अपनीयते कर्मानेनेति विनयः आचारविनयः, स चतुर्धा, यथा-संयमसामाचारी तपःसमाचारी गणसामाचारी एका किविहारसामाचारी च तत्र संयमं स्वयमाचरति परं च प्राहयति तत्र च सीदन्तं स्थिरीकरोति तत्रोद्यतं चोपबृंहतीति संयम सामाचारी १, पाक्षिकादिषु तपःकर्म स्वयं करोति परं च कारयति मिक्षाचर्या स्वयमनुतिष्ठति परं च तस्यां नियुङ्क्ते इति तपः सामाचारी २, प्रत्युपेक्षणाबालवृद्धादिवैयावृत्त्यादिकार्येषु स्वयमुद्यतोऽग्लान्या गणं प्रेरयतीति गणसामाचारी ३, एकाकि विहारप्रतिमां स्वयं प्रतिपद्यते परं च प्राहयतीति एकाकि बिहार सामाचारी ४ । श्रुतविनयोऽपि चतुर्धा, सूत्रवाचनां ददाति १ अर्थ व्याख्यानयति २ हितं वाचयति, हितवाचना च तदैव भवति यदा सूत्रमर्थं तदुभयं च पारिणामिकादिगुणोपेतं शिष्यं परिभाव्य यद्यस्य योग्यं तत्तस्यैव ददाति ३, सूत्रमर्थ वा निःशेषं परिसमाप्तिं यावद्वाचयति नानवस्थिततयाऽपान्तरालेऽपि मुध्यतीत ४ । विक्षिप्यते इति विक्षेपणं तदेव विनयो विक्षेपणविनयः, स चतुर्धा, तत्र मिथ्यादृष्टिं मिथ्यामार्गाद्विक्षिप्य सम्यक्त्वमार्ग प्राहयतीत्येकः १, सम्यग्दृष्टिं तु गृहस्थं गृहस्थभावाद्विक्षिप्य प्रवाजयतीति द्वितीयः २, सम्यक्त्वाचारित्राद्वा च्युतं तद्भावाद्विक्षिप्य पुनस्तत्रैव व्यवस्थापयतीति तृतीयः ३, स्वयं च चारित्रधर्मस्य यथैवाभिवृद्धिस्तथैव प्रवर्तते अनेषणीय परिभोगादित्यागेन एषणीयपरिभोगादिस्वीकारेण चेति चतुर्थः ४ । दोषाः - क्रोधादयस्तेषां परिघातो-निर्घातना स एवं विनयो दोषपरिघातविनयः, स चतुर्धा क्रुद्धस्य देशनादिभिः क्रोधनिर्घातनमित्येकः १, कषायविषयादिभिर्दुष्टस्य तद्भावविनिवर्तनमिति द्वितीयः २, भक्तपानादिविषयायाः परसमयविषयाया वा काङ्क्षाया निवर्तनमिति तृतीयः ३, स्वयं च क्रोधदोषकाङ्गारहितस्य सुप्रणिहितस्य प्रवर्तनमिति चतुर्थः ४ । तदेवमेते सर्वेऽपि षट्त्रिंशद्गुणा गुरोर्भवन्ति ॥ ५४७ ॥ अथवा इत्थं षट्त्रिंशद्गुणा गुरोर्भवन्ति, तत्राह - ' सम्मत्ते 'त्यादि, सम्यक्त्वस्य – दर्शनाचारस्य निःशङ्कितादयः ज्ञानस्य-ज्ञानाचारस्य कालविनयादयः चरणस्य - चारित्राचारस्य ईर्यासमित्यादयः प्रत्येकमष्टावष्टौ भेदा मिलिताश्चतुर्विंशतिः, तपसश्च बाह्याभ्यन्तरभेदमिन्नस्य प्रत्येकं षड्विधत्वेन अनशनादयो द्वादश भेदाः, सर्वमीलने च षट्त्रिंशद्भवन्ति ।। ५४८ ॥ अथ भङ्गयन्तरेणापि गुरोः षट्त्रिंशद्गुणानाह - ' आयाराई' त्यादि, आचाराः - श्रुतादयः प्राग्व्यावर्णितस्वरूपा अविवक्षितस्वस्वभेदा अष्टौ गणितम्पदः, तथा “आचेलकु १ देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जेट्ठ ७ पडिकमणे ८ मासं ९ पज्जोसवणकप्पो १० ॥ १ ॥।” इत्येवं वक्ष्यमाणस्वरूपो दशविधः स्थितकल्पः, तथा द्वादशविधं तपः प्रागुक्तस्वरूपं, तथा षडावश्यकानि - सामायिकचतुवैिशतिस्तववन्दनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यानलक्षणानि, एतानि सर्वाण्यपि मिलितानि षट्त्रिंशत्सूरिगुणा भवन्ति । इह चैवमन्या अपि षत्रिशिकाः सम्भवन्ति, तास्तु विस्तरभयान्नामिधीयन्ते, केवलं किश्वित्सोपयोगत्वात् सुप्रतीतत्वाच - 'देसकुलजाइरूवे संघवणी 87
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy