________________
शतपृथक्त्वं, पूर्वप्रतिपन्नाः पुनर्जघन्यत उत्कर्षतश्च सहस्रपृथक्त्वं, केवलमुत्कृष्टाज्जघन्यं लघुतरं, इत्याद्यन्यदपि जिनकल्पिकस्वरूपं समयसमुद्रादवसेयमिति । सम्प्रति सूत्रमनुश्रियते, जिना - गच्छनिर्गतसाधुविशेषाः तेषां कल्पः - समाचारस्तेन चरन्तीति जिनकल्पिकाः ते च जिनकल्पिकसाधवः उत्कर्षत एकस्यां वसतौ सप्त भवन्ति, अधिका-अष्टादयः कथमपि कदाचनापि न भवन्ति, यद्यपि चैकस्यां वसतावुत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति तथापि परस्परं न भाषन्ते धर्मवार्त्तामपि न कुर्वन्ति वीथ्यामपि चैकस्यामेक एव जिनकल्पिकः प्रतिदिनमटति, न पुनरपर इति, उक्तं च " एकाए वसहीए उक्कोसेणं वसंति सत्त जिणा । अवरोप्परसंभासं चइंति अन्नान्नवीहिं च ॥ १ ॥ [ एकस्यां वसतौ उत्कर्षतो वसन्ति सप्त जिनाः । परस्परं संभाषं त्यजन्ति अन्याऽन्यवीथिं च ( व्रजन्ति ) ॥ १ ॥ ] ॥५४०॥ 'छत्तीसं सूरिणगुण' त्ति चतुःषष्टं द्वारमाह
अट्ठविहा गणिसंपय चउग्गुणा नवरि हुति बत्तीसं । विणओ य चउन्भेओ छत्तीस गुणा इमे गुरुणो ॥ ५४१ ॥ आयार १ सुय २ सरीरे ३ वयणे ४ वायण ५ मई ६ पओगमई ७ । एएस संपया खलु अट्ठमिया संगहपरिण्णा ८ (१) ॥ ५४२ ॥ चरणजुओ मयरहिओ अनिययवित्ती अर्चचलो व (४) । जुग परिचिय उस्सग्गी उदत्तघोसाह विन्नेओ (८) । ५४३ ॥ चउरंसोऽकुंटाई बहिरणवजिओ तवे सत्तो (१२) । वाई महुरत्त निस्सिय फुडवयणो संपया वयणेति (१६) || ५४४ ॥ जोगो परिणयवायण निज्जविया बायणाएँ निव्वहणे ( २० ) । ओग्गह ईहावाया धारण महसंपया चउरोति (२४)॥ ५४५ ॥ सतीं पुरिसं खेतं वत्थं नाउं पओजए वायं ( २८ ) । गणजोग्गं संसतं सझाए सिक्खणं जाणे (३२) ॥ ५४६ ॥ आयारे सुयविणए विक्खिवणे चेव होइ बोधव्या । दोसस्स परीघाए विणए चउस पडिवन्ती ( ३६ ) ॥ ५४७ ॥ सम्मत्तनाणचरणा पत्तेयं अट्ठअट्टभेइल्ला । बारसभेओ य तवो सूरिगुणा हुंति छत्तीसं ( २ ) ॥ ५४८ ॥ आयाराई अट्ठ उ तह चैव य दसविहो य ठियकप्पो । बारस तव छावस्सग सूरिगुणा हुंति छत्तीसं ( ३ ) ॥ ५४९ ॥
'अट्ठविहे 'त्यादिगाथानवकं, गुणानां साधूनां वा गणः- समुदायो भूयानतिशयवान् वा यस्यास्ति स गणी - आचार्यस्तस्य सम्पत्-समृ द्धिर्भावरूपा गणिसम्पत्, सा आचारादिभेदादष्टविधा, केवलमेकैकस्याश्चतुर्भेदत्वेन चतुर्भिर्गुणने द्वात्रिंशद्भेदाः, विनयश्चतुर्भेदस्तत्र प्रक्षिप्यते तत एते गुरोः - आचार्यस्य षटूत्रिंशद् गुणा भवन्ति ॥ ५४१ ॥ तत्राष्टौ सम्पद इमाः - ' आयारे'त्यादि, आचारश्च श्रुतं च शरीरं चेत्येकव द्भावादाचारश्रुतशरीरं, तथा वचनं, प्राकृतत्वादेकारः, वाचना मतिः प्रयोगमतिः, एतेषु विषये सम्पत्, तथाहि - आचारसम्पत् १ श्रुतसम्पत् २ शरीरसम्पत् ३ वचनसम्पत् ४ वाचनासम्पत् ५ मतिसम्पत् ६ प्रयोगमतिसंपत् ७ अष्टमी च संग्रहपरिज्ञासंपत् ८, तत्र आचरणमाचारः–अनुष्ठानं तद्विषया स एव वा सम्पद् - विभूतिस्तस्य वा सम्पत्-सम्पत्तिः प्राप्तिराचारसम्पत्, एवमग्रेऽपि व्युत्पत्त्यर्थो भावनीयः ॥ ५४२ ॥ सा चतुर्धा, यथा-चरणयुतो मदरहितोऽनियतवृत्तिरचश्चलश्वेति, तत्र चरणं - चारित्रं व्रतश्रमणधर्मेत्यादिसप्ततिस्थानस्वरूपं तेन युतो - युक्तश्चरणयुतः, अन्यत्र तु 'संयमधुवयोगयुक्तते' त्येवमिदं पठ्यते, तत्राप्ययमेव परमार्थः, यतः संयमः - चारित्रं तस्मिन् ध्रुवः - नित्यो योगः -समाधिस्तेन युक्तता, तत्र सततोपयुक्ततेत्यर्थः, तथा मदैः -- जातिकुलतपः श्रुताद्युद्भवै रहितो मदरहितः, प्रन्थान्तरे तु 'असंपग्गह' इति पठ्यते, तत्रापि स एवार्थः, यतः समन्तात्प्रकर्षेण - जातिंश्रुततपोरूपादिप्रकृष्टतालक्षणेनात्मनो ग्रहणं - अहमेव जातिमानित्यादिरूपेणावधारणं सम्प्रप्रहः न तथा असम्प्रग्रहो जात्यायनुत्सिक्तत्वमित्यर्थः, अनियतवृत्तिः - प्रामादिष्वनियतविहारस्वरूपता, तथाऽचभ्वलो-वशीकृतेन्द्रियः, अन्यंत्र तु 'वृद्धशीलता' इत्येवं पठ्यते, तत्र वृद्धशीलता - वपुषि मनसि च कामिनीमनोमोहने वयसि वर्तमानस्यापि निभृतस्वभावता निर्विकारतेतियावत्, यतः - " मनसि जरसाऽभिभूता जायन्ते यौवनेऽपि विद्वांसः । मूढधियः पुनरितरे भवन्ति वृद्धत्वभावेऽपि ॥ १ ॥ ॥ तथा श्रुतसम्पचतुर्धा, यथा-तत्र 'सूचनात्सूत्र' मिति युगो - युगप्रधानागमः परिचितसूत्र:क्रमोत्क्रमवाचनादिभिः स्थिरसूत्रः उत्सर्गी - उत्सर्गापवादस्वसमयपरसमयादिवेदी उदात्तघोषादि - उदात्तानुदात्तादिस्वरविशुद्धिविधायी, अन्यत्र बहुश्रुतता १ परिचितसूत्रता २ विचित्रसूत्रता ३ घोषविशुद्धिकरणता ४ चेति पठ्यते, अर्थस्तु स एव ॥ ५४३ ॥ शरीरसम्पदं चतुर्विधामाह - 'च' इत्यादि, तत्र चतुरस्रः - आरोहपरिणाहयुक्तो दैर्घ्यविस्ताराभ्यां लक्षणप्रमाणसहिताभ्यां युक्त इतियावत् तथा अकुण्टावि:सम्पूर्णपाण्यादिः तथा बधिरत्वादिवर्जितः - अविकलसकलेन्द्रियः, तथा दृढसंहननत्वेन बाह्याभ्यन्तरभेदमिन्ने तपसि शक्तः समर्थः, अन्यत्र तु आरोहपरिणाहयुक्तता १ अनवत्राप्यता २ परिपूर्णेन्द्रियता ३ स्थिरसंहननता ४ चेति पठ्यते, तत्रापि स एवार्थः, केवलमविद्यमानमवत्राप्यं—अवत्रपणं लज्जनं यस्य सोऽयमनवत्राप्यो यद्वा अवत्रापयितुं - लज्जयितुमर्हः शक्यो वा अवत्राप्यो—लज्जनीयो न तथाऽनवत्राप्योSहीन सर्वाङ्गत्वेनालज्जाकर इत्यर्थः वचनसम्पञ्चतुर्धा, तद्यथा - 'वाई'त्यादि, वादी मधुरवचन: अनिश्रितवचनः स्फुटवचनश्चेत्येषा 'वचने' वचनविषये सम्पत्, तत्र वदनं - वादः स प्रशस्तोऽतिशायी वा विद्यते यस्य स वादी आदेयवचन इत्यर्थः तथा प्रकृष्टार्थप्रतिपादकमपरुषं सुखरतागम्भीरतादिगुणोपेतमत एव श्रोतृजनमनः प्रीणकं वचनं यस्य स मधुरवचनः, तथा रागद्वेषादिभिरनिश्रितं - अकलुषं वचनं यस्य सोऽनिश्रितवचनः, स्फुटं - सर्वजनसुबोधं वचनं यस्य स स्फुटवचनः, अन्यत्र तु आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता ३
86