SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ न्निराकरोति, ततो बाह्यममत्वे मूलत एव व्यवच्छेदिते पञ्चाद्देहोपध्यादिभ्योऽपि मिन्नमात्मानमवलोकयन् सर्वथा तेष्वपि निरमिष्वङ्गो भवति, बलभावनायां बलं द्विविधं शारीरं मनोधृतिबलं च तत्र शारीरमपि बलं जिनकल्पाईस्य शेषजनातिशायिकमेष्टव्यं तपःप्रभृतिमिस्तु अपकृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न भवति तथापि धृतिबलेनात्मा तथा भावयितव्यो यथा महद्भिरपि परीषहोपसर्गैर्न बाध्यते एताभिः पञ्चभिर्भावनाभिर्भावितात्मा जिनकल्पिकप्रतिरूपो गच्छेऽपि प्रतिवसन्नुपध्याहारविषये द्विविधे परिकर्मणि प्रवर्तते, तत्र यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते, अथ पाणिपात्रलब्धिर्नास्ति ततः पतद्मधारित्वपरिकर्मणि यथायोगं प्रवर्तते, आहारपरिकर्मणि तु तृतीयपौरुष्यामवगाढायां वल्लचणकादिकमन्तं प्रान्तं रूक्षं च - " संसद्वमसंसट्टा उद्घड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ १ ॥” [ असंसृष्टा संसृष्टा उद्धृता तथा अल्पलेपिका । अवगृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ।। १ ।। ] एतासां सप्तानां पिण्डैषणानां मध्ये आद्यद्वयव शेषाणां पञ्चानां मध्यादन्यतरैषणाद्वयामिप्रहेणाहारं गृह्णाति, तत्राप्येकया भक्तमपरयाऽन्वेषणया पानकमिति । एवमाद्यागमोक्तविधिना गच्छान्तर्गतः पूर्वमेवात्मानं परिकर्मयित्वा ततो जिनकल्पं प्रतिपित्सुः समग्रमपि सङ्घ मीलयति, तदभावे स्वगणं तावदवश्यमाह्वयते, ततस्तीर्थकरसमीपे तदभावे गणधर सन्निधाने तदसत्त्वे च चतुर्दशपूर्वधरसविधे तदसम्भवे दशपूर्वधरान्तिके तदलाभे तु वटाश्वत्थाशोकपादपादीनामासत्तौ महत्या विभूत्या जिनकल्पमभ्युपगच्छति, निजपदव्यवस्थापितं सूरिं सबालवृद्धं गच्छं विशेषतः पूर्वविरुद्धांश्च क्षमयति, तद्यथा - " जइ किंचि पमाएणं न सुहु भे वट्टियं मए पुवि । तं भे खामेमि अहं निस्सल्लो निक्कसाओ य ॥ १ ॥ आणंदमंसुपायं कुणमाणा तेऽवि भूमिगयसीसा । खामिंति तं जहरिहं जहारिहं खामिया तेणं ॥ २ ॥” [ यदि किञ्चित् प्रमादेन न सुष्ठु भवतां वृत्तं मया पूर्वं । तत् भवतां क्षमयाम्यहं विश्शल्यो निष्कषायश्च ॥ १ ॥ आनन्दानुप्रातं कुर्वाणास्तेऽपि भूमिगतशीर्षाः । क्षमयन्ति यथार्ह यथाई क्षमितास्तेन ॥ २ ॥ ] निजपदस्थापितसूरेः शेषसाधूनां चानुशास्तिं प्रयच्छति, यथा – “पालेज्जसु गणमेयं अप्पडिबद्धो य होज्ज सव्वत्थ । एसो य परंपरओ तुमंपि अंते कुण एवं ॥ १ ॥ पुव्वपवण्णं विणयं मा हु पमाएहि विणयजोग्गेसुं । जो जेण पगारेण उवजुज्जइ तं च जाणेहि ॥ २ ॥" तथा "ओमो समराइणिओ अप्पतरसुओ य मा य णं तुग्भे । परिभवह एस तुम्हवि विसेसओ संप्रयं पुज्जो ॥ ३ ॥” [ पालयेर्गणमेनमप्रतिबद्धश्च भवेः सर्वत्र । एष च परम्परकः त्वमप्यन्ते कुर्याः ॥ १ ॥ पूर्वप्रपन्ने विनये मा प्रमादीर्विनययोग्येषु यो येन प्रकारेणोपयुज्यते तं च जानीयाः ॥ २ ॥ ] [ अवमः समरानिकः अल्पतरश्रुत इति मैनं परिभूत युष्माकमेष संप्रति विशेषतः पूज्यः ॥ ३ ॥ ] इत्यादिशिक्षां दत्त्वा गच्छाद्विनिर्गते चक्षुर्गोचरातीते तस्मिन्नानन्दिताः साधवः प्रतिनिवर्तन्ते, एवं च प्रतिपन्नजिनकल्पो यत्र प्रामादौ मासकल्पं चतुर्मासकं वा करिष्यति तत्र षट् भागान् ग्रामादेः कल्पयति, ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, मिक्षाचर्या ग्रामान्तरगमनं च तृतीयपौरुष्यामेव करोति, चतुर्थपौरुषी तु यत्रावगाहते तत्र नियमादवतिष्ठते, भक्तं पानकं च पूर्वोक्तैषणाद्वयाभिग्रहेणालेपकृदेव गृह्णाति, एषणादिविषयं मुक्त्वा न केनापि सार्धं जल्पति, उपसर्गपरीषदान् सर्वानपि सहत एव, रोगेऽपि चिकित्सां न कारयत्येव, तद्वेदनां तु सम्यगेव विषहते, एकाक्येव च भवति, अनापातासंलोकादिदशगुणोपेत एव स्थण्डिले उच्चारादि करोति, जीर्णवस्त्राणि च तत्रैव त्यजति, प्रमार्जनादिपरिकर्मविरहितायां वसतौ तिष्ठति, यद्युपविशति तदा नियमादुकटुक एव न तु निषद्यायामौपग्रहिकोपकरणस्यैवाभावात्, मासकल्पेनैव चायं विहरति, मत्तमतङ्गजव्याघ्रसिंहादिके च संमुखे समापतत्युन्मार्गगमनादिना ईर्ष्यासमितिं न भिनत्ति, श्रुतसम्पदपि चास्य जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, तत्र हि न्यक्षेण कालपरिज्ञानं, उत्कर्षतस्तु असम्पूर्णानि दश पूर्वाणि प्रथमसंहननो वज्रकुड्यसमानावष्टम्भश्चायं भवति, लोचं चासौ नित्यमेव विधत्ते, आवश्यकीनैषेधिकी मिध्यादुष्कृतगृहि विषयपृच्छोपसंपल्लक्षणाः पञ्च सामाचार्योऽस्य भवन्ति, अन्ये त्वाहुः - आवश्यकीनैषेधिकीगृहस्थोपसम्पलक्षणास्तिस्र एव, आरामादिनिवासिन ओघतः पृच्छादीनामपि असम्भवादित्याद्यन्याऽपि जिनकल्पिकानां सामाचारी कल्पग्रन्थादेरवगन्तव्या ॥ तथा जिनकल्पिकस्थितिप्रतिपादनार्थ सोपयोगत्वात् कानिचिद् द्वाराणि दर्श्यन्ते, तद्यथा— क्षेत्रद्वारं १ कालद्वारं २ चारित्रद्वारं ३ तीर्थद्वारं ४ पर्यायद्वारं ५ आगमद्वारं ६ वेदद्वारं ७ कल्पद्वारं ८ लिङ्गद्वारं ९ ध्यानद्वारं १० गणनाद्वारं ११ अभिप्रहद्वारं १२ प्रवाजनाद्वारं १३ निष्प्रतिकर्मताद्वारं १४ भिक्षाद्वारं १५ पथद्वारं १६ चेति, तत्र तीर्थपर्यायागमवेदद्ध्यानाभिग्रहप्रव्रज्यानिष्प्रतिकर्मतामिक्षापथद्वाराण्ये कोनसप्ततितमे परिहारविशुद्धिद्वारे यथा वक्ष्यन्ते तथैवात्रापि ज्ञेयानि, क्षेत्रद्वारे जन्मना सद्भावेनं च पथ्यदशस्वपि कर्मभूमिषु संहरणेन त्वकर्मभूमिष्वपि भवति, कालद्वारे अवसर्पिण्यां जन्मना तृतीयचतुर्थारकयोरेव व्रतस्थस्तु पवार, उत्सर्पिण्यां तु व्रतस्थस्तृतीयचतुर्थारकयोरेव, जन्मना तु द्वितीयारकेऽपि, प्रतिभागकाले तु दुष्षमसुषमारूपे जन्मतः सद्भावतश्च प्राप्यते, विदेहेष्वपि जिनकल्पिकानां सद्भावात् संहरणेन पुनः सर्वस्मिन्नपि काले प्राप्यते, चारित्रद्वारे प्रतिपद्यमानकः सामायिकच्छेदोपस्थापनीययोरेव, मध्यमविदेहतीर्थकृतां सामायिके प्रथम पश्चिमजिनयोस्तु छेदोपस्थापनीये, पूर्वप्रतिपन्नस्तु सूक्ष्मसम्पराययथाख्यातचारित्रयोपि, स चोपशमश्रेण्यामेव, न तु क्षपकश्रेण्यां 'तज्जम्मे केवलपडिसेहभावाओं' [ तज्जन्मनि केवलप्रतिषेधभावात् ] इतिवचनात्, कल्पद्वारे स्थितकल्पेऽस्थितकल्पे च भवति, लिङ्गद्वारे प्रतिपद्यमानको द्विविधेऽपि द्रव्यभावरूपे लिने भवति, पूर्वप्रतिपन्नस्तु भावलिङ्गेऽवश्यमेव, द्रव्यलिङ्गे तु भाज्यो हृतजीर्णतादिभिः कदाचिद् द्रव्यलिङ्गस्याभावात्, गणनाद्वारे प्रतिपद्यमानका जघन्यत एकादय उत्कर्षतः 85
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy