SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ रङ्गुलप्रमाणः समतिरिक्तो वा दैर्येण तु स्त्रीकटीप्रमाणः, स च देहप्रमाणेन भजनीयः, पृथुलकटीभागाया दीर्घः कृशकटीभागायाश्च इख इत्यर्थः, अवग्रहानन्तकस्य पुरतः पृष्ठतश्च द्वावपि पर्यन्तभागावाच्छादयन् वर्धावत्कट्यां बध्यते, तस्मिंश्च बद्धे मल्लकच्छावद्भवति ॥ ५३३ ॥ अध ऊरुकाध भजतीति निरुक्तवशादोरुकः, तौ द्वावपि-अवग्रहानन्तकपट्टी गृहीत्वा अवष्टभ्य सर्व कटीभागमाच्छादयति, स च मल्लचलनाकृतिः, केवलं ऊर्वोरन्तरे ऊरूद्वये च कसाबद्धा, चलनकाऽपीदृश्येव, केवलमधो जानुप्रमाणा अस्यूता कसानिबद्धा ललिका-वंशोपरिनर्तकी तत्परिधानवत् ।। ५३४ ॥ अन्तर्निवसनी पुनरुपरि कटीभागादारभ्य अधः अर्धजवं यावद्भवति, सा च परिधानकाले लीनतरा परिधीयते, आकुलतया जनहासो मा भूदिति, बहिर्निवसनी या उपरि कटीत आरभ्य अधो यावत् खलुगोगुल्फः (घुटी) कट्यां च दवरकेण प्रतिबद्धा भवति ॥ ५३५ ॥ इदमधः शरीरस्य षइविधमुपकरणमुक्तं, अथ ऊर्ध्वकायस्य कथ्यते, तत्र-छाएई'त्यादि, दैर्यमाश्रित्य स्वहस्तेनार्धतृतीयहस्तप्रमाणः पृथुत्वेन तु हस्तमानः यद्वा निजनिजशरीरप्रमाणनिष्पन्नः, अस्यूतः पार्श्वद्वयेऽपि कसाबद्धः कापालिककञ्चुकवत्कञ्चुकः क्रियते, स च उरोरुहौ-स्तनौ छादयति, किम्भूतौ ?, तत्राह-'अणुकुइए'त्ति अणु-खल्पं यथा भवति एवं कुचितौ-कचुकाभ्यन्तरे ससंचारौ न गाढं सम्पृक्तावित्यर्थः गाढपरिधाने हि अतिविविक्तविभागतया जननयनमन:स्पृहणीयरूपौ भवतः तस्मात्कञ्चुकस्य शिथिलमेव परिधानं विधेयमिति, कक्षायाः समीपमुपकक्षं तदाच्छादिका ओपकक्षिका 'एवमेव' कञ्चुकवद्भवति, सा च अस्यूता समचतुरस्रा स्वहस्तेन सार्धहस्तप्रमाणा उरोभागं दक्षिणपार्श्व पृष्ठं च प्रच्छादयन्ती वामस्कन्धे-वामपार्थे च बीटकप्रतिबद्धा परिधीयते ॥ ५३६ ॥ वेगच्छियत्ति पूर्वाध, उपकक्षिकाविपरीतो वैकक्षिकालक्षणः पट्टो भवति, तुशब्द उपकक्षिकासादृश्यावधारणे वामपार्थपरिधानविशेषे वा द्रष्टव्यः, सच कञ्चुकमुपकक्षिका चाच्छादयन् वामपार्धे परिधीयते 'संघाडीओ इत्यादिसार्धा गाथा उपरि परिभोगाय चतस्रः सवाट्यो भवन्ति, एका द्विहस्ता पृथुत्वेन ॥ ५३७ ॥ द्वे त्रिहस्ते, एका च चतुर्हस्ता दैर्येण तु, चतस्रोऽपि सार्धहस्तत्रयप्रमाणाश्चतुर्हस्ता वा द्रष्टव्याः, तत्र 'द्विहस्ता' द्विहस्तविस्तृता उपाश्रये भवति, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति भावः, ये च द्वे 'त्रिहस्तायामे त्रिहस्तविस्तृते भवतस्तयोर्मध्ये एका मिक्षार्थ एका उच्चारे भवति, भेदग्रहणं गोचर्याधुपलब्धतुल्यवेपादिपरिहारार्थ, तथा अवसरणे-समवसरणे व्याख्याने सात्रादौ 'चतुर्हस्ता' चतुर्हस्तविस्तृता सङ्घाटिर्भवति, सा च अनिषण्णप्रच्छादनायो. पयुज्यते, यतो न तत्र संयतीमिरुपवेष्टव्यं किन्तु ऊर्ध्वामिरेव स्थातव्यं, ततस्तया स्कन्धादारभ्य पादौ यावद् तिन्यो वपुः प्रच्छादयन्तीति, एताश्च पूर्वप्रावृतवेषप्रच्छादनार्थ श्लाघादीत्यर्थ च मसृणाः क्रियन्ते, चतस्रोऽपि च गणनाप्रमाणेन एकमेव रूपं, युगपत्परिभोगाभावात् ॥ ५३८ ॥ 'खंधे' त्यादि स्कन्धकरणी'चतुर्हस्तविस्तृता'चतुर्हस्तदीर्घाच समचतुरस्रा प्रावरणस्य वातविधुतरक्षणार्थ चतुष्पुटीकृत्य स्कन्धे ध्रियते, सैव च स्कन्धकरणी रूपवत्याः संयत्याः कुडुभनिमित्तं कुब्जकरण्यपि क्रियते, पृष्ठप्रदेशे स्कन्धाधः संवृततया मसृणवत्रपट्टकेन उपकक्षिकावैकक्षिकानिबद्धया तया विरूपतापादनाय कुडुभं विधीयते इति भावः ॥५३९ ॥ ६२ ।। सम्प्रति 'जिणकप्पियाण संखा उक्किट्ठा एगवसहीए'त्ति त्रिषष्टं द्वारमाह जिणकप्पिया य साहू उक्कोसेणं तु एगवसहीए । सत्त य हवंति कहमवि अहिया कइयावि नो हुति ॥५४०॥ । इह च विनेयजनानुग्रहार्थ किश्चिदप्रतीतार्थत्वादुत्तरत्र यथालन्दकल्पादौ सप्रयोजनत्वाच्च प्रथमं जिनकल्पिकस्वरूपमेव निरूप्यतेतत्र जिनकल्पं प्रतिपित्सुना प्रथममेव पूर्वापररात्रकाले तावदिदं चिन्तनीयं-विशुद्धचारित्रानुष्ठानेन कृतं मयाऽऽत्महितं शिष्यादिनिष्पादनतः परहितं च, जाताश्चेदानी मम गच्छपरिपालनसमर्थाः शिष्याः, ततो विशेषतः साम्प्रतमात्महितं ममानुष्ठानमुचितं इति, विचिन्त्य चेदं सति परिज्ञाने निजमायुःशेष स्वयमेव पर्यालोचयति, परिज्ञानाभावे पुनरन्यमतिशायिनमाचार्यादिकं पृच्छति, तत्र स्वल्पे वायुषि भक्तपरिज्ञानादीनामन्यतमन्मरणमङ्गीकरोति, अथ दीर्घमायुः केवलं जबाबलपरिक्षीणस्तदा वृद्धवासं स्वीकुरुते, पुष्टायां तु शक्तौ जिनकल्पं प्रतिपद्यते, तं च प्रतिपत्तुकामः पूर्वमेव पञ्चमिस्तुलनाभिरात्मानं तोलयति, तद्यथा-"तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता जिणकप्पं पडिवज्जओ ॥ १ ॥" [ तपसा सत्त्वेन सूत्रेण एकत्वेन बलेन च । तुलना पञ्चधोक्ता जिनकल्पं प्रतिपद्यमानस्य ॥ १॥] तुलना भावना परिकर्म चेत्येकार्थानि, तत्राचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकस्वरूपाः प्रायः पञ्चैव जनाः प्रशस्तामिरेताभिः पञ्चभिर्भावनामिर्जिनकल्पं प्रतिपित्सवः प्रथममेवात्मानं भावयन्ति, अप्रशस्तास्तु कन्दर्पदेवकिल्बिषामियोगिकाऽऽसुरसम्मोहस्वरूपाः पञ्च भावना वक्ष्यमाणाः सर्वथा दूरतः परिहरन्ति, तत्र तपसाऽऽत्मानं भावयंस्तथा क्षुधां पराजयति यथा देवाघुपसर्गादि. नाऽनेषणीयादिकरणतो यदि षण्मासान यावदाहारं न लभते तथापि न बाध्यते, सत्त्वभावनया तु भयं निद्रां च पराजयते, तत्र भयनिद्राजयार्थ रात्रौ सुप्तेषु सर्वसाधुषूपाश्रय एव कायोत्सर्ग कुर्वतः प्रथमा सत्त्वभावना भवति, द्वितीयाद्यास्तूपाश्रयबाह्यादिप्रदेशेषु, आह च-पढमा उवस्सयंमि य बीया बाहिं तइया चउकमि । सुन्नघरंमि चउत्थी अह पंचमिया मसाणंमि ॥ १॥" [प्रथमोपाश्रये च द्वितीया बहिः तृतीया चतुष्के । शून्यगृहे चतुर्थी अथ पञ्चमी श्मशाने ॥१॥ सूत्रभावनया तु निजनामवत्तथा परिचितं सूत्रं करोति यथा दिवा रात्री वा शरीरच्छायाद्यभावेऽप्युच्छ्वासप्राणस्तोकलवमुहूर्तादिकं कालं सूत्रपरावर्तनानुसारेणैव सर्व सम्यगवगच्छति, एकत्वभावनया चात्मानं भावयन् सङ्काटकसंघाटकसाध्वादिना सह पूर्वप्रवृत्तानालापसूत्रार्थसुखदुःखादिप्रथमिथःकथादिव्यतिकरा 84
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy