SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तिरिक्तैरधिकारः, तत्र स्वयम्बुद्धप्रत्येकबुद्धानां बोध्युपधिश्रुतलिङ्गकृतो विशेषः ।। ५२० ॥ तत्र स्वयम्बुद्धानां बोध्यादीन्याह- 'तिरथे' त्यादि गाथाचतुष्टयं, तीर्थकरवर्जितानां स्वयम्बुद्धानां बोधिः- धर्मप्राप्तिरुपधिः - उपकरणानि श्रुतं ज्ञानं लिङ्गं चेति ज्ञेयानि प्रत्येकबुद्धेभ्यो भेदप्रतिपादुकानि चत्वारि स्थानानि, तान्येव क्रमेणाह - तेषां बोधिर्बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना भवति, तथा मुखपोत्तिका रजोहरणं कल्पत्रिकं सप्तविधश्च पात्रनिर्योग इति द्वादशधा उपधिर्भवति स्वयम्बुद्धसाधूनां तथा एषां - स्वयम्बुद्धसाधूनां पूर्वजन्मन्यधीतं - पठितं श्रुतं भवति अथवा नैव भवति पूर्वाधीतं श्रुतं किन्तु नवतरपठितमेव, ततो यदि पूर्वाधीतं श्रुतं तेषामुपतिष्ठते तदा 'से' त्ति तस्य स्वयम्बुद्धस्य देवता ‘लिङ्गं' रजोहरणादिकमर्पयति, उपलक्षणमेतत्, गुरुसन्निधौ वा गत्वा लिङ्गं प्रतिपद्यते, अथ न पूर्वाधीतं श्रुतमुपनिष्ठते तदा गुरव एव लिङ्गमर्पयन्ति, अयं च यद्येकाक्यपि विहरणक्षमो - विहारं कर्तुं समर्थस्तादृशी वा तस्य इच्छा-एकाकि विहारकरणेऽभिलाषस्ततः करोति तं–एकाकिविहारं, 'अन्यथा' एकाकिविहाराक्षमतायामिच्छाया अभावे च गच्छवासमनुसरति - गच्छ एवास्ते 'नियमेन' निश्चयेन, इदं च पूर्वाधीतश्रुतसद्भाव एव द्रष्टव्यं, पूर्वाधीतश्रुताभावे तु गच्छवास एवावश्यं व्यवतिष्ठते इति, तथा चोक्तं- "पुव्बाहीयं सुयं से हवइ वा न वा, जइ से नत्थि तो लिंगं नियमा गुरुसंनिहे पडिवज्जइ गच्छे य विहरइत्ति, अह पुव्वाहीयसुयसंभवो अत्थि तो से लिंगं देवया पयच्छइ, गुरुसन्निहे वा पडिवज्जइ, जइ एगविहारविहरणे समत्थो इच्छा व से तो एक्को चैव विहरह, अन्नहा गच्छे विहरइन्ति, " इदानीं प्रत्येकबुद्धानां बोध्यादीनि चत्वारि स्थानान्याह - 'पत्ते इत्यादिगाथाचतुष्टयं प्रत्येकबुद्धसाधूनां बाह्यवृषभादिकारणदर्शने बोधिर्नियमतो भवति, तथा तेषामुपधिर्द्विविधो - जघन्य उत्कृष्टश्च तत्र जघन्यो मुखपोतिकारजोहरणाभ्यां द्विधा, उत्कृष्टोऽपि मुखपोतिकारजोहरणसप्तविधपात्रनिर्योगरूपो नवविधः, तथा श्रुतं पुनः पूर्वभवपठितमेव तेषां नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि - आचारादीनि, तथोत्कृष्टं श्रुतं देशेन - एकदेशेनोनानि - असम्पूर्णानि भवन्ति पूर्वाणि दश 'तस्य' प्रत्येकबुद्धस्य, लिङ्गं तु-रजोहरणादिकं देवतैव तस्य ददाति कदाचित्र लिङ्गरहितोऽपि भवति तथा एकाक्येव विहरति वसुन्धरायां, न पुनरागच्छति गच्छवासे स इति ॥ ५२१-२८ ॥ इदानीं 'साहुणीणोवगरणाई'ति द्वाषष्टं द्वारंमाह उवगरणाई चउद्दस अचोलपट्टाई कमढयजुयाई । अज्जाणवि भणियाइं अहियाणिवि हुंति ताणेवं ।। ५२९ ।। उग्गहणंतग १ पट्टो २ अहोरुय ३ चलणिया ४ य बोद्धव्वा । अभितर ५ बाहि नियंसणी ६ य तह कंचुए ७ चेव ॥ ५३० ।। उक्कच्छिय ८ वेगच्छिय ९ संघाडी १० चेव खंघगरणी ११ य । ओहोवहिंमि एए अजाणं पनवीसं तु ॥ ५३१ ॥ अह उग्गहणंतगं नावसंठियं गुज्झदेस रक्खट्ठा। तं तु पमाणेणेकं घणमसिणं देहमासज्ज ॥ ५३२ ।। पहोवि होइ एगो देहपमाणेण सो उ भइयव्वो । छायंतोग्गहणंतं कडियद्धो मल्लकच्छा व ॥ ५३३ ॥ अद्धोरुगोषि ते दोषि गिoिहउं छाए कडीभागं । जाणुपमाणा चलणी असीविया लंखियाए व ॥ ५३४ ॥ अंतोनिसणी पुण लीणतरी जाव अद्धजंघाओ । बाहिरगा जा खलुगा कडीइ दोरेण परिबद्धा ॥ ५३५ ॥ छाएइ अणुकुइए उरोरुहे कंचुओ असिव्वियओ । एमेव य ओकच्छय सा नवरं दाहिणे पासे ॥ ५३६ ॥ वेगच्छिया उ पट्टो कंचुगमुक्कच्छिगं च छायंतो । संघाडीओ चउरो तत्थ दुहत्था उवसयंमि ॥ ५३७ ॥ दोन्नि तिहत्थायामा भिक्खट्ठा एग एगमुबारे । ओसरणे चहस्थाऽनिसtooryoछायणा मसिणा ॥ ५३८ ॥ खंघगरणी उ चउहत्थवित्थडा वायविहुयरक्खट्ठा | खुज्जकरणी उकीर रूववईणं कुडहहेऊ ॥ ५३९ ॥ 'उवेत्यादिगाथैकादशकं, पूर्वोक्तानि 'पत्तं पत्ताबंधों' इत्यादीनि उपकरणादीनि चतुर्दश अबोलपट्टानि - चोलपट्टकरहितानि कमढगयुतानि आर्यिकाणामपि भणितानि, पात्रादीनां च प्रमाणं गणनया स्वरूपेण च स्थविराणामिव द्रष्टव्यं, कमढकं च-लेपिततुम्बकभाजनरूपं कांस्यमयबृहत्तरकरोटिकाकारमेकैकं संयतीनां निजोदरप्रमाणेन विज्ञेयं, संयतीनां च मण्डलीमध्ये पतद्ग्रहको न भ्रमति एकस्याः संयत्या अपरस्याः कार्ये न समायाति तुच्छस्वभावात् किन्तु कमढक एवार्थिका भोजनक्रियां कुर्वन्तीत्यतः कमढकग्रहणं, 'अहियाणिवि होंति ताणेवं' ति अधिकान्यपि - पूर्वोक्तचतुर्दशोपकरणव्यतिरिक्तान्यप्युपकरणान्यार्यिकाणां भवन्ति, तानि चैवं ॥ ५२९ ॥ यथा - अवमहानन्तकं १ पट्टकः २ अर्धोरुकं ३ चलनिका ४ च बोद्धव्या, अभ्यन्तरनिवसनी ५ बहिर्निवसनी ६ च तथा कञ्चुकचैव ७ उपकक्षिका ८ वैकक्षिका ९ सङ्घाटी १० चैव स्कन्धकरणी ११ च एते आर्यिकाणां सम्बन्धिनि ओघोपधौ पञ्चविंशतिर्भेदाः ॥ ५३० - ३१ ॥ एतान् स्वयमेव व्याचष्टे-'अथे'त्यानन्तर्ये, अवग्रह इति योनिद्वारस्य सामयिकी संज्ञा तस्यानन्तकं- वस्त्रं अवग्रहानन्तकं, तब नौसंस्थानं - बेडिकाकारं मध्यभागे विशाल पर्यंतभागयोस्तु तनुकमित्यर्थः, गुह्यदेशरक्षार्थ - ब्रह्मचर्यसंरक्षणार्थं गृह्यते, तत्पुनर्गणनाप्रमाणेनैकं भवति, तथा आर्तवबीजपातसंरक्षणार्थं घनं - घनवत्रेण क्रियते, पुरुषसमानकर्कशस्पर्शपरिहरणार्थं च मसृणं-मसृणवस्त्रेण क्रियते, मसृणे हि वस्त्रे खीयोनिस्पर्शसदृशः स्पर्शो भवति, सजातीयश्च सजातीये न प्रभवतीति मसृणग्रहणं, तथा 'देहमाश्रित्य' देहानुमानेन प्रमाणं तस्य करणीयं देही हि कस्याश्चित्तनुः कस्याश्चित्स्थूलः ततस्तदनुसारेण विधेयमित्यर्थः ॥ ५३२ ॥ पट्टोऽपि गणनाप्रमाणेन भवत्येकः पर्यन्तभागवर्तिबीटकबन्धः पृथुत्वेन चतु 83
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy