________________
विभासति सणे स्थूले च चोलपट्टे 'विभाषा' विविधा भाषा, अयं भेदो-यदुत स्थविराणां लक्ष्णः करणीयस्तदिन्द्रियस्पर्शेन चोलपट्टस्योपघाताभावात, यूनां तु स्थूल इति ॥ ५१३ ॥ इदानीं पूर्वमनुद्दिष्टयोरप्युपकरणप्रस्तावादोपप्रहिकोपधिरूपयोः संस्तारकोत्तरपट्टरूपयोर्मानमाह-संथेत्यादि,संस्तारक उत्तरपट्टश्चेति द्वयमपि प्रत्येकमर्धतृतीयौ हस्तौ आयतं भवति, द्वयोरपि संस्तारकोत्तरपट्टयोर्विस्तार:-पृथुत्वमेको हस्तगतलं-चत्वार्यकलानि, प्रयोजनं च संस्तारकस्य प्राणिरेणुसंरक्षणं, तदभावे हि शुद्धभूमौ शयानस्य साधोः पृथिव्यादीनां प्राणिनामुपमर्दो भवति रेणुश्च शरीरे लगति, तथा उत्तरपट्टोऽपि क्षौमिकः षट्पदिकासंरक्षणार्थ संस्तारकस्योपरि आस्तीर्यते, अन्यथा कम्बलमयसंस्तारकशरीरयोः संघर्षेण षट्पदिकाविराधना स्यादिति ॥ ५१४ ॥ अथ सूत्रकृदेव केषाश्चिदुपकरणानां प्रयोजन प्रतिपिपादयिषः पर्व तावद्वजोहरणस्य प्रयोजनमाह-'आये'त्यादि, आदाने-पणे निक्षेपे-मोचने स्थाने-ऊर्ध्वस्थाने निषदने-उपवेशने त्वग्वर्तने-शयने सोचने च-पादादीनां पश्चात्करणे सम्पातिमादिसूक्ष्मजीवसंरक्षणाय पूर्व-आदौ भूम्यादेः प्रमार्जनार्थ रजोहरणं तीर्थकरैः कथितं, पूर्वमप्रमार्जिते हि पात्रादौ तदादाने क्रियमाणेऽवश्यं मशककुंवादीनामुपघातो भवति, रजोहरणेन तु प्रमार्जने कृते तेषां रक्षा कृता भवति, तथाऽईदीक्षायां लिङ्ग-चिह्नमेतत् प्रथममिति ॥५१५॥ अथ मुखवत्रिकायाः प्रयोजनमाह-संपे'त्यादि, सम्पातिमा जीवा मक्षिकामशकादयस्तेषां रक्षणार्थ भाषमाणैर्मुखे मुखवत्रिका दीयते, तथा रजः-सचित्तः पृथिवीकायस्तत्प्रमार्जनार्थ रेणुप्रमार्जनार्थ च मुखपोतिका वदन्तिप्रतिपादयन्ति तीर्थकरादयः, तथा वसतिं प्रमार्जयन् साधुर्नासां मुखं च बध्नाति-आच्छादयति 'तया' मुखपोतिकया यथा मुखादौ रेणुन प्रविशतीति ॥५१६॥ इदानीं पात्रग्रहणस्य प्रयोजनमाह-'छक्काये'त्यादि, षटकायरक्षणार्थ पात्रग्रहणं जिनः प्रशतं, पात्रकरहितो हि साधुढेजनार्थी षडपि जीवनिकायान् परिशाटनादिदोषेण विनाशयतीति, ये च गुणाः-गुरुग्लानवृद्धबालमिक्षाभ्रमणासहिष्णुराजपुत्रप्रापूर्णकालब्धिमत्सावादेर्भिक्षादानादयः सम्भोगे-एकमण्डलीरूपे व्यावर्णिताः सिद्धान्ते त एव गुणाः पात्रग्रहणेऽपि भवन्ति, पात्रग्रहणमन्तरेण कथमेतमिमित्तं मिक्षा समानीयत इति भावः ॥५१७॥ इदानीं कल्पानां प्रयोजनमाह-तणेत्यादि, तृणानां-बीहिपलालादीनां ग्रहणं तृणप्रहणं अनल:-अग्निस्तस्य सेवा तयोर्निवारणार्थ कल्पग्रहणं, असति कल्पे शीतादौ सति गाढे पलालामिसेवामवश्यं करोति तत्करणे च जीववधः, तथा धर्मशुक्लध्याननिमित्तं दृष्ट-अनुज्ञातं कल्पप्रणं तीर्थकद्भिः, शीवाद्युपद्रवे हि कल्पप्रावृत्तः सुखेन धर्मशुक्लध्याने अभ्यामे करोतीति, अन्यथा शीतादौ कम्पमानकायो दन्तवीणामनवरतं वादयन् कथवारं ते ध्याने विधास्यतीति?, तथा ग्लानसंरक्षणार्थ दृष्टं कल्पग्रहणं, अन्यथा शीतवातादिना बाध्यमानो ग्लानो गाढतरं ग्लानो भवति, तथा मरणार्थ कल्पग्रहणं, मृतस्य सुपरि प्रच्छादनार्थ कल्पः क्रियते, इतरथा लोकव्यवहारादिबाधा कृता भवति ॥ ५१८ ॥ इदानी चोलपट्टस्य प्रयोजनमाह-वेउव्वे'त्यादि, यस्य साधोः प्रजननं-साधनं वैक्रिय-विकृतं भवति यथा दाक्षिणात्यपुरुषाणामप्रभागे विध्यते प्रजननं तच्च तथाविधं दृष्टं विकृतं भवति ततस्तत्प्रच्छादनार्थ चोलपट्टकोऽनुजज्ञे, 'अवाउडे'त्ति पदं सर्वत्र सम्बध्यते ततोऽप्रावृते-अपरिहिते चोलपट्टके एते दोषा भवन्ति, यथा-कश्चित्साधुरप्रावृतसाधनो भवति अप्रभागे चर्मणा अनाच्छादितलिङ्गो दुश्चर्मा इत्यर्थः, ततस्तदनुग्रहार्थ चोलपट्टोऽनुज्ञातः, तथा कश्चित् साधुर्वातिको भवतिवातेन च तदीयसाधनमुच्छूनं भवति ततस्तदनुग्रहाय चोलपट्टोऽनुमतः, तथा प्रकृत्यैव कश्चित् हीमान्-लज्जालुर्भवति ततस्तत्प्रावरणाय चोलपट्टः तथा स्वभावेनैव कश्चित् 'खद्धपजणण'त्ति बृहत्साधनो भवति लोकश्च तथाविधं तं दृष्ट्वा हसति ततस्तथाविधानुपहाय चोलपट्टा, तथा लिङ्गोदयार्थ चोलपट्टः कदाचिन्मनोहररूपामनुपमयौवनां वनितां विलोक्य लिङ्गस्योदयो भवति अथवा तदीयं लिङ्गं मनोरम चोलपट्टानाच्छादितं दृष्ट्वा स्त्रिया एव लिङ्गोदयो भवति ततस्ताच्छादनाय पट्टः-चोलपट्टोऽनुज्ञात इति ॥ ५१९ ॥ इदनीमिहैव द्वारे उपकरणादिव्यवस्थार्थ साधुभेदानाह। अवरेवि सयंबुद्धा हवंति पत्तेपबुद्धमुणिणोऽवि । पढमा दुविहा एगे तित्थयरा तदियरा अवरे । ॥५२० ॥ तित्थयरवज्जियाणं वोही उवही सुयं च लिंगं च । नेयाइँ तेसि बोही जाइस्सरणाइणा
होइ ॥ २१ ॥ मुहपत्ती रयहरणं कप्पतिगं सत्त पायनिजोगो । इय बारसहा उवही होइ सयंबुद्धसाहूणं ॥५२२॥ हवइ इमेसि मुणीणं पुन्वाहीयं सुअं अहव नत्थि । जहं होइ देवया से लिंग अप्पइ अहव गुरुणो ॥ ५२३ ॥ जइ एगागीविहु विहरणक्खमो तारिसी व से इच्छा । तो कुणइ तमन्नहा गच्छवासमणुसरह निअमेणं ॥ ५२४ ॥ पत्तेयबुद्धसाहूण होइ वसहाइदंसणे बोही । पोत्तियरयहरणेहिं तेसि जहण्णो दुहा उवही ॥५२५ ॥ मुहपोती रयहरणं तह सत्त य पत्तयाइनिजोगो । उक्कोसोऽवि नवविहो सुयं पुणो पुव्वभवपढियं ॥५२६ ॥ एक्कारस अंगाइं जहन्नओ होइ तं तहुकोसं । देसेण असंपुन्नाई हुंति पुवाइं दस तस्स ॥ ५२७ ॥ लिंगं तु देवया देह होइ
कइयावि लिंगरहिओवि । एगागी चिय विहरइ नागच्छइ गच्छवासे सो ॥५२८॥ 'अवरेऽवी'त्यादिगाथानवकं, 'अपरेऽपि' जिनकल्पिकस्थविरकल्पिकेभ्यः पूर्वभणितेभ्योऽन्येऽपि मुनयो भवन्ति स्वयम्बुद्धाः प्रत्येकबुद्धाच, अपिः चार्थे, तत्र प्रथमाः-खयम्बुद्धा द्विविधाः-एके तीर्थकरास्तदितरे-तीर्थकरव्यतिरिक्ताः 'अपरें द्वितीयाः, इहच तीर्थकरव्य
82