________________
परधनुःशतप्रमाणेति न कश्चिदोषः, अपि च-हस्तिनः स्कन्धारूढा सङ्कचिताङ्गी मरुदेवी सिद्धा ततः शरीरसोचभावानाधिकावगाहनासम्भव इत्यविरोधः, अथवा यदिदमागमे पञ्चधनुःशतान्युत्कृष्टं तनुमानमुक्तं तद्बाहुल्यापेक्षया, अन्यथा पञ्चविंशत्यधिकपञ्चधनु:शतप्रमाणा उत्कृष्टाऽवगाहना, सा च मरुदेवीकालवर्तिनामेवावसेया, मरुदेव्या आदेशान्तरेण नामिकुलकरतुल्यत्वात् , तदुक्तं सिद्धप्राभृतटीकायां-'मरुदेवीवि आएसंतरेण नामितुल्लत्ति सिद्धप्राभृतसूत्रेऽप्युकं-"ओगाहणा जहन्ना रयणीदुगं अह पुणाइ उच्छोसा । पंचेव धणुसयाई धणुहपुहुत्तेण अहियाइं ॥१॥" [अवगाहना जघन्या रनिद्विकमथ पुनरुत्कृष्टा पश्चैव धनुःशतानि धनुष्पृथक्त्वेनाघिकानि ॥१॥] एतट्टीकाव्याख्या च "पृथक्त्वशब्दो बहुत्ववाची बहुत्वं चेह पञ्चविंशतिरूपं द्रष्टव्य"मिति ॥४७५॥५०॥ इदानीं गिहिलिंग अन्नलिंगस्सलिंगसिद्धाण संखा उत्ति एकपचाशत्तमं द्वारमाह
इह चउरो गिहिलिंगे दसऽन्नलिंगे सयं च अट्ठहियं । विन्नेयं च सलिंगे समएणं सिज्झमा
णाणं॥ ४७६ ॥ 'इह' मनुष्यलोके गृहिलिङ्गे वर्तमाना एकस्मिन् समये उत्कर्षतश्चत्वारः सिद्ध्यन्ति, तथा तापसाद्यन्यलिङ्गे वर्तमाना उत्कर्षत एकसमये दश सिद्ध्यन्ति, तथा शतं चैकमष्टाधिकं विज्ञेयमेकस्मिन् समये युगपदुत्कर्षतः 'स्वलिङ्गे यतिलिङ्गे सिद्ध्यतामिति ॥ ५७६ ॥ ॥५१ ।। साम्प्रतं 'बत्तीसाई सिझंति अविरय'मिति द्विपञ्चाशत्तमं द्वारमाह
बत्तीसाई सिझंति अविरयं जाव अट्ठअहियसयं । अट्ठसमएहिं एकेकूणं जावेकसमयंमि ॥ ४७७॥
बत्तीसा अडयाला सही बावत्तरी य योव्वा । चुलसीई छनउई दुरहियमहोत्तरसयं च ॥ ४७८ ॥ - 'बत्तीस'मित्यादिगाथाद्वयं, एकादयो द्वात्रिंशत्पर्यताः सिद्ध्यन्तो निरन्तरमष्टौ समयान् यावत् प्राप्यन्ते, अयमत्र परमार्थ:-प्रथमे समये अधम्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् सिद्ध्यन्ति, द्वितीयेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् , एवं तृतीयेऽपि चतुर्थेऽपि यावदष्टमेऽपि समये जघन्यत एको द्वौ वा सिद्ध्यतः उत्कर्षतो द्वात्रिंशत् सिद्ध्वन्ति, परतोऽवश्यमन्तरं समयादिकं, न कोऽपि सिद्ध्यतीत्यर्थः, तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतः सप्त समयान् यावत्प्राप्यन्ते, परतो नियमादन्तरं समयादिकं, तथा एकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतः षट् समयान यावत् प्राप्यन्ते, ततः परमवश्यमन्तरं, तथा एकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतः पञ्च समयान् यावत्प्राप्यन्ते, ततः ऊर्ध्व नियमादन्तरं, तथा त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतश्चतुरः समयान यावत्प्राप्यन्ते, परतोऽवश्यमन्तरं, तथा पञ्चाशीत्यादयः षण्णवतिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतस्त्रीन समयान् यावदासाद्यन्ते, परतो नियमादन्तरं, तथा सप्तनवत्यादयो ब्युत्तरशतपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतो द्वौ समयौ यावत्प्राप्यन्ते, परतो नियमादन्तरं, तथा घ्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिद्ध्यन्तो नियमादेकमेव समयं यावत्प्राप्यन्ते, परतोऽवश्यमन्तरं समयादिकमिति जघन्यतः, उत्कर्षतश्च षण्मासान्तरं षण्मासान यावत् न कोऽपि सिद्ध्यतीत्यत्र सर्वत्र भावना ॥ ४७८ ॥ ५२ ।। 'थीवेए पुंवेए नपुंसए सिज्झमाणपरिसंखं' इति त्रिपञ्चाशत्तमं द्वारं विवरीतुमाह
वीसित्थीगाउ पुरिसाण अहसयं एगसमयओ सिझे । दस चेव नपुंसा तह उवरि समएण पडि. सेहो ॥४८०॥ वीस नरकप्पजोइस पंच य भवणवण दस य तिरियाणं । इत्थीओ पुरिसा पुण दस दस सव्वेऽवि कप्पविणा ॥ ४८१ ॥ कप्पट्ठसयं पुहवी आऊ पंकप्पभाउ चत्तारि । रयणाइसु तिसु दस दस छ तरूणमणंतरं सिज्झे ॥ ४८२॥ 'वीसी'त्यादिगाथाः, एकस्मिन् समये उत्कर्षतः स्त्रियो विंशतिः सिद्ध्यन्ति, तथा पुरुषाणामष्टोत्तरं शतं एकसमये सिद्ध्यति, तथा दशैव नपुंसका एकसमयेन सिद्ध्यन्ति, उक्तसङ्ख्याया उपरि सर्वत्राप्येकसमयेन सिद्ध्यतां प्रतिषेधः । अथास्मिन्नेव द्वारे कस्या गतेरागताः कियन्त उत्कर्षत एकसमयेन सिद्ध्यन्तीति विशेषतः प्रतिपादयन्नाह-अप्रतः स्थितस्य 'इत्थीउत्ति पदस्य सर्वत्रामिसम्बन्धात् मनुष्याणां स्त्रियः स्त्रीत्वादुध्धृत्य अनन्तरभवे मनुष्यगतावागताः सत्यो यद्येकस्मिन् समये सिद्ध्यन्ति तदा उत्कर्षतो विंशतिरेव, तथा कल्पयोः-सौधमशानयोः स्त्रियः स्वभवादुध्धृता अनन्तरभवे मनुष्यगति प्राप्य विंशतिः सिद्ध्यन्ति, द्वयोरेव कल्पयोः त्रिय उत्पद्यन्ते अतः कप्पत्ति सामान्योक्तावपि सौधर्मेशानयोरित्युक्तं, एवं ज्योतिषिकाणामपि खियः स्त्रीत्वादुम्धृता विंशतिः सिद्ध्यन्ति, तथा भवनपतीनां असुरकुमारादीनां दशानामपि निकायानां व्यन्तराणां द्वात्रिंशज्जातीनां च खियः स्त्रीत्वादुध्धृताः प्रत्येकं पञ्च पञ्च सिद्ध्यन्ति, तथा पञ्चेद्रियतिरश्चां स्त्रियः स्त्रीत्वादुष्कृत्य दशैव सिद्ध्यन्ति, पुरुषाः पुनः सर्वेऽपि कल्पव्यतिरिक्ता मनुष्यज्योतिष्कभवनपतिव्यन्तरतिर्यग्गतिलक्षणस्थानपश्चकसम्बन्धिनः पुरुषत्वादुम्धृत्य अनन्तरं मनुष्यभवमागता एकसमयेनोत्कर्षतः प्रत्येकं दश दश सिध्यन्ति, इह 'कल्पं विने'त्युक्तं ततः कल्पादुधृताः कियन्तः सिद्ध्यन्ति ?, तत्राह-कल्पा' कल्पस्था विमानवासिनो देवा अनन्तरभवे पुरुषत्वं प्राप्य एकसमयेनोत्कर्षतोऽष्टोत्तरं शतं सिद्ध्यन्ति, तथा 'पृथिव्या' पृथिवीकायिकेभ्योऽष्कायिकेभ्यश्च तथा पङ्कप्रभाया उद्धृताः सन्तः प्रत्येकं चत्वारश्चत्वारः तथा 'रयणाइसुत्ति सप्तम्याः पञ्चम्यर्थत्वेन रत्नादिभ्यो-रत्नप्रभाशर्कराप्रभावालुकाप्रमाभ्य स्तिसभ्यः पृथिवीभ्यः उद्धृताः प्रत्येक दश दश, धूमप्रभा.
76