SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ दिभ्यस्तु तिसृभ्यः पृथिवीभ्य आगता न सिद्ध्यन्ति तथास्वाभाव्यात्, तथा 'तरुण'त्ति षष्ठी पञ्चम्यर्थे, ततस्तरुभ्यो - वनस्पतिकायिकेभ्य उद्धृत्य अनन्तरं मनुष्यभवमागता उत्कर्षत एकस्मिन् समये षडेव सिद्ध्यन्ति, तेजोवायूनां पुनरनन्तरभवेन मनुष्यत्वस्यैवाप्राप्तेः द्वित्रिचतुरिन्द्रियाणां तु तथाभवस्वाभाव्यादेवानन्तरभवेन सिद्ध्यभाव इति, तथा चोतं प्रज्ञापनायाम् - "अणंतरागया णं भंते! नेरइया एगसमएणं केवइया अंतकिरियं पकरिंति ?, गोयमा ! जहन्नेणं एगो वा दो वा तिन्नि वा उक्कोसेणं दस, रयणप्पभापुढविनेरइयावि एवं चैव जाव वालुयप्पभापुढवीनेरइया, पंकप्पभापुंढवीनेरइया उक्कोसेणं चत्तारि, असुरकुमारा दस, असुरकुमारीओ पञ्च, एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा, पुढवीकाइया चत्तारि, एवं आउकाइयावि, वणस्सइकाइया छ, पंचिंदियतिरिक्खजोणिया दस, पंचिदियतिरिक्खजोणिणीओवि दस, मणुस्सा दस, मणुस्सीओ वीसं, वाणमंतरा दस, वाणमंतरीओ पञ्च, जोइसिया दस, जोइसिणीओ वीसं, वेमाणिया अट्ठसयं, वेमाणिणीओ वीस" मिति, सिद्धप्राभृते च देवगतेरन्यत्र गतित्रयेऽपि दशेत्युक्तं 'सेसाण गईण दसदसगं ति वचनात्, तत्त्वं तु श्रुतविदो विदन्ति, इह च पुंवेदेभ्यो देवादिभ्यो ऽनन्तरोद्धृता जीवाः केचित्पुरुषाः जायन्ते केचित् स्त्रियः केचिन्नपुंसकाः, एवं स्त्रीवेदेभ्योऽपि देवीप्रभृतिभ्य उद्धृतानां भङ्गत्रयं, एवं नपुंसकेभ्योऽपि नारकादिभ्यो भङ्गत्रयं, सर्वसंख्यया भङ्गा नव, तत्र ये पुंवेदेभ्य उद्धृत्य पुरुषा भूत्वा सिद्ध्यन्ति तेषामेवैकस्मिन् समयेऽष्टोत्तरं शतं सिद्ध्यति, शेषेषु पुनरष्टसु भङ्गकेषु प्रत्येकं दश दशैव, इदमुक्तं भवति - देवेभ्य आगताः पुरुषा भूत्वा एकसमयेनाष्टोत्तरं शतं सिद्ध्यन्ति, स्त्रियो नपुंसकाश्च भूत्वा प्रत्येकं दशैव, देवीभ्यश्चागताः पुरुषा अपि भूत्वा दशैव एवं स्त्रियो नपुंसकाच, यत्तु वैमानिकदेवीभ्यो ज्योतिष्कदेवीभ्यो मानुषीभ्यश्चागता विंशतिः सिद्ध्यन्तीत्युक्तं तत्र पुंखीनपुंसकात् द्विकसंयोगतस्त्रिकसंयोगतो वा मिलिताः सन्तो विंशतिः सिद्ध्यन्ति, न पुनः केवलाः पुरुषाः स्त्रियो नपुंसका वा, यदपि विंशतिः स्त्रिय एक्समयेन सिद्ध्यन्तीत्युक्तं तत्रापि काचित्पुरुषेभ्यः काश्चित् स्त्रीभ्यः काश्चिनपुंसकेभ्य आगताः सत्यो मिलिताः विंशतिः सिद्ध्यन्ति, न पुनः केवलेभ्यः पुरुषेभ्यः केवलाभ्यः स्त्रीभ्यः केवलेभ्यश्च नपुंसकेभ्यः एवमनया दिशा सर्वेऽपि भङ्गा भावनीयाः, तदुक्तं सिद्धप्राभृतसूत्रे —“सेसा उ अट्ठ भंगा दुसगं दसगं तु होइ इक्केको ॥” इति, अपरश्चात्र विशेषो दर्श्यते, यथा नन्दनवने चत्वार एकसमये सिद्ध्यन्ति, 'नंदनवणे चत्तारि' इति सिद्धप्राभृतटीकावचनात्, एकतरस्मिन् विजये विंशतिः, 'वीसा एगयरे विजये' इति वचनात्, संहरणतः पुनः कर्मभूम्यकर्मभूमिकूटशैलादिषु सर्वेष्वपि स्थानेष्वेकसमयेनोत्कर्षतो दश दश, पण्डकवने तु संहरणतो द्वौ, पञ्चदशस्वपि कर्मभूमिषु प्रत्येकं जन्मतोऽष्टोत्तरं शतं यदुक्तं सिद्धप्राभृतसूत्रे - "संकमणाए दसगं दो चेव हवन्ति पंडगवणंमि । समएण य अट्ठसयं पन्नरससु कम्मभूमी ॥ १ ॥” तथोत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीये चतुर्थे चारकेऽष्टशतं, अवसर्पिण्यां पञ्चमारके विंशतिः शेषेष्वरकेषु प्रत्येकमुत्सर्पिण्यामवसर्पिण्यां च संहरणतो दश, उक्तं च सिद्धप्राभृतसूत्रे – “ओसप्पिणिउस्सप्पिणि तइयचउत्थयसमासु अट्ठसयं । पथ्यमियाए वीसं दसगं दसगं तु सेसासु ॥ १ ॥" तत्र पञ्चम्यां समायामवसर्पिण्या: सम्बन्धिन्यां नोत्सर्पिण्याः तत्र तीर्थाभावादिति ॥ ४८२ ॥ ५३ ॥ इदानीं 'सिद्धाणं संठाणं' ति चतुष्पञ्चाशत्तमं द्वारमाह दीहं वा इस्सं वा जं संठाणं तु आसि पुव्वभवे । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया ॥ ४८३ ॥ जं संठाणं तु इहं भवं चयंतस्स चरिमसमयंमि । आसीय पएसघणं तं संठाणं तहिं तस्स ॥ ४८४ ॥ उत्ताणओ य पासिल्लओ य ठियओ निसन्नओ चेव । जो जह करेइ कालं सो तह उववज्जए सिद्धो ॥ ४८५ ॥ 'दी हे 'त्यादिगाथात्रयं दीर्घ वा - पभ्वधनुः शतप्रमाणं ह्रस्वं वा - हस्तद्वयप्रमाणं वाशब्दान्मध्यमं वा विचित्रं, यच्चरमभवे आसीत संस्थानं ततः-तस्मात्संस्थानात् त्रिभागहीना - वदनोदरादिरन्ध्रपूरणात् तृतीयेन भागेन हीना सिद्धानामवगाहना, अवगाहन्ते अस्यामित्यवगा - हना-स्वावस्थैव भणिता तीर्थकरगणधरैरिति, भवगतसंस्थानप्रमाणापेक्षया त्रिभागहीनं तत्र संस्थानमानमिति भावः || ४८३ ॥ एतदेव स्पष्टतरमुपदर्शयति—'यत्संस्थानं' यावत्प्रमाणं संस्थानं 'इह' मनुष्यभवे आसीत् तदेव 'भवं' भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भवं शरीरं संसारं वा त्यजतः काययोगं परिजिहानस्येति भावः चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानबलेन वदनोदरादिरन्धपूरणात् त्रिभागहीनं प्रदेशघनं आसीत् तदेव प्रदेशघनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं संस्थानं 'तत्र' लोकाप्रे 'तस्य' सिद्धस्य नान्यदिति ॥ ४८४ ॥ तस्य च किमेकेनैवाकारेणावस्थानमुतान्यथाऽपीत्याह - उत्तान एव उत्तानकः पृष्ठतोऽर्धावनतादिस्थानतः पार्श्वतो वा-तिर्यग्व्यवस्थितः, स्थितः–ऊर्द्धस्थानतः निषण्णश्चैव-उपविष्टः, किंबहुना ?, यो 'यथा' येन प्रकारेणावस्थितः सन् कालं करोति स ' तथा ' तेन प्रकारेणोपपद्यते सिद्ध इति ॥ ४८५ ॥ ५४ ॥ इदानीं 'अवठिठाणं च सिद्धाणं' इति पञ्चपञ्चाशत्तमं द्वारमाह ईसिन्भारा उवरिं खलु जोयणस्स जो कोसो । कोसस्स य छन्भाए सिद्धाणोगाहणा भ णिया ।। ४८६ ॥ अलोए पडिहया सिद्धा, लोयग्गे य पइट्टिया । इह बोंदिं चइत्ताणं, तत्थ गंतूण सिज्झइ ॥ ४८७ ॥ 'ईसी 'त्यादि गाथाद्वयं, इह सर्वार्थसिद्धविमानादूर्द्ध द्वादशभिर्योजनैः पञ्चचत्वारिंशद्योजनलक्षविष्कम्भा वृत्तत्वादायामतोऽप्येतावन्माना बहुमध्यदेशभागे च आयामविष्कम्भाभ्यामष्टयोजनप्रमाणे क्षेत्रेऽष्टयोजनबाहल्या तदनन्तरं सर्वासु दिक्षु विदिक्षु च प्रदेशहान्या 77
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy