SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ भद्रजिननामानं वन्दे । उत्सर्पिण्यां भाविन्यां चतुर्विंशतिर्जिनवराः 'कीर्तिताः' पूर्वभवसम्बन्धिनामप्रतिपादनकपूर्वकैः स्वनाममिः श्रीचन्द्रसूरिनाम्नाऽऽचार्येण स्तुताः सुखकराः शुभकरा वा भवन्तु सदाकालमिति । एते च तथाविधसम्प्रदायाभावात् शास्त्रान्तरैः सह विसंवादित्वाच्च न विशेषतो विवृताः ॥ ४५७ - ४७० ॥ ४६ ॥ सम्प्रति 'संखा उड्डाहतिरियसिद्धाणं' इति सप्तचत्वारिंशं द्वारमाह चारि उहलोए दुवे समुद्दे तओ जले चेव । बावीसमहोलोए तिरिए अनुत्तरसयं तु ॥ ४७१ ॥ ऊर्ध्वलोके एकसमयेनोत्कर्षतश्चत्वार एव सिद्ध्यन्ति, तथा द्वौ समुद्रे, त्रयः शेषजले हृदनद्यादिसम्बन्धिनि, सिद्धप्राभृताभिप्रायेण तु जलमध्ये चत्वारो द्रष्टव्याः, तथा अधोलोके - अधोग्रामादौ उत्कर्षत एकसमयेन द्वाविंशतिः सिद्ध्यति, सिद्धप्राभृते पुनरिदं दृश्यते यथा — "चत्तारि उड्डुलोए जले चउकं दुवे समुहंमि । अट्ठसयं तिरिलोए वीसपुहुत्तं अहोलोए” ॥ १ ॥ एतट्टीकायां च विंशतिटथक्त्वं द्वा (द्वि) विंशतिप्रमाणं गृहीतं, द्विप्रभृत्या नवभ्य इति पृथक्त्ववचनात् ततो यद्यत्रापि 'दोवीसमहोलोए' इति पठ्यते ततः समीचीनं भवति, तथा तिर्यग्लोके उत्कर्षत एकसमयेनाष्टोत्तरं शतं सिद्ध्यतीति ॥ ४७१ ॥ ४७ ॥ सम्प्रति 'तह इक्कसमयसिद्धाणं ति अष्टचत्वारिंशं द्वारमाह इको व दो व तिन्नि व असयं जाव एक्कसमयम्मि । मणुयगईए सिज्झइ संखाउयवीयरागा उ ॥ ४७२॥ एकस्मिन् समये जघन्यत एको द्वौ वा त्रयो वा सिद्ध्यन्ति उत्कर्षतोऽष्टोत्तरं शतं, ते च सिद्ध्यन्ति मनुष्यगतेः सकाशान्न शेषगतिभ्यः, तेsपि च सयवर्षायुषः, असङ्ख्येयवर्षायुषां सिद्ध्यभावात्, तत्रापि वीतरागाः - अपगतरागाः उपलक्षणत्वाच अपगतसकलकर्मकलङ्काः, न पुनः कुतीर्थिकसम्मता इव सकर्माणोऽपि इति ।। ४७२ ।। ४८ ।। ' ते य पन्नरसभेएहिं 'ति द्वारमिदानीमेकोनपञ्चाशं विवरीतुमाहतित्थयर १ अतित्थयरा २ तित्थ ३ सलिंग ४ उन्नलिंग ५ थी ६ पुरिसा ७ । गिहिलिंग ८ नपुंसक ९ अतित्थसिद्ध १० पत्तेयबुद्धा ११ य ॥ ४७३ ॥ एग १२ अणेग १३ सयंबुद्ध १४ बुद्धबोहिय १५ पभेयओ भणिया । सिद्धते सिद्धाणं भेया पन्नरससंखन्ति ॥ ४७४ ॥ 'तित्थे 'त्यादिगाथाद्वयं, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः, तथा अतीर्थकराः - सामान्यकेवलिनः सन्तो ये सिद्धास्ते - तीर्थकरसिद्धाः, तथा तीर्यते संसारसागरोऽनेनेति तीर्थ - यथावस्थितजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं तच निरावारं न भवतीति सङ्घः प्रथमगणधरो वा वेदितव्यः तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः, तथा स्वलिङ्गे - रजोहरणादिरूपे व्यवस्थिताः तन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः, तथा अन्यलिङ्गे -परिव्राजकादिसम्बन्धिनि वल्कलकषायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्ते अन्यलिङ्गसिद्धाः, यदा अन्यलिङ्गिनामपि भावतः सम्यक्त्वादिप्रतिपन्नानां केवलज्ञानमुत्पद्यते तत्समयं च कालं कुर्वन्ति तदेदं द्रष्टव्यं, अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यन्ति ततः साधुलिङ्गमेव प्रतिपद्यन्ते, तथा स्त्रिया लिङ्गं स्त्रीलिङ्गं स्त्रीत्वस्योपलक्षणमित्यर्थः, तब त्रिधा - वेदः शरीरनिर्वृत्तिर्नेपथ्यं च तत्रेह शरीरनिर्वृत्या प्रयोजनं न वेदनेपथ्याभ्यां वेदे सति सिद्ध्यभावात्, नेपथ्यस्य चाप्रमाणत्वात्, तस्मिन् स्त्रीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः, तथा पुरुषलिङ्गे शरीरनिर्वृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुरुषलिङ्गसिद्धाः, तथा गृहस्थाः सन्तो ये सिद्धास्ते गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः, तथा नपुंसकलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते नपुंसकलिङ्गसिद्धाः, तथा तीर्थस्याभावोऽतीर्थं तीर्थस्याभावश्चानुत्पादोऽपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्याः सिद्धिगमनकाले तीर्थमुत्पन्नमासीत्, तीर्थस्य व्यवच्छेदश्च सुविघिस्वाम्याद्यपान्तरालेषु, तत्र ये जातिस्मरणादिना प्राप्तापवर्गास्ते तीर्थव्यवच्छेदसिद्धाः, तथा प्रतीत्य एकं किश्विद् वृषभादिकमनित्यतादिभावनाकारणं वस्तु बुद्धा–बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः, तथा एकस्मिन् समये एकका एव सन्तो ये सिद्धास्ते एकसिद्धाः, तथा एकस्मिन् समये ये अनेके सिद्धास्ते अनेकसिद्धाः, तथा स्वयं-आत्मना बुद्धा: -तत्त्वं ज्ञातवन्तः स्वयंबुद्धास्ते सन्तो ये सिद्धास्ते स्वयंबुद्धसिद्धाः, तथा बुद्धा - आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः, इत्येतैः पूर्वोक्तस्तीर्थकरत्वादिभिः प्रभेदैः - विशेषैर्भणिताः - प्रतिपादिताः सिद्धान्ते सिद्धानां भेदा:-प्रकाराः पश्वादशसङ्ख्याः । ननु तीर्थकर सिद्धा तीर्थकर सिद्धरूपभेदद्वये तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये वा शेषभेदाः सर्वेऽप्यन्तर्भवन्ति तत्किमर्थ शेषभेदोपादानं ?, सत्यमन्तर्भवन्ति परं न विवक्षितभेदद्वयोपादानमात्रात् शेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थ चैष शास्त्रारम्भप्रयास इति शेषभेदोपादानमिति ॥ ४७३ - ४७४ ॥ ४९ ॥ इदानीं 'अवगाहणाय सिद्धा उक्किजहन्नमज्झिमाए य'त्ति पश्चाशत्तमं द्वारमाह दो कोसाए चउर जहन्नाए मज्झिमाए उ । अट्ठाहियं सयं खलु सिज्झइ ओगाहणाइ तहा ॥ ४७५ ॥ एकस्मिन् समये युगपदुत्कृष्टायामवगाहनायां पश्वधनुः शतमानायामुत्कर्षतो द्वावेव सिद्ध्यतः, जघन्यायामवगाहनायां हस्तद्वयप्रमाणायां चत्वारः, मध्यमायां तु जघन्योत्कृष्टरूपायामष्टाधिकं शतं खलु सिद्ध्यति, ननु मरुदेवी नामिकुलकरपत्नी, नाभेश्च पञ्चविंशत्यधिकानि पच धनुःशतानि तनुमानं यदेव च तस्य तनुमानं तदेव मरुदेव्या अपि, 'संघयणं संठाणं उच्चतं चैव कुलगरेहिं समं' इति वचनात्, मरुदेवी च भगवती सिद्धा, ततः कथं पश्वधनुः शतप्रमाणा उत्कृष्टाऽवगाहना घटते ? इति नैष दोषः, मरुदेवाया नाभेः कि विदूनप्रमाणत्वात्, स्त्रियो मुत्तमसंस्थाना उत्तमसंस्थानेभ्यः पुरुषेभ्यः स्वस्वकालापेक्षया किश्विदूनप्रमाणा भवन्ति, ततो मरुदेवाऽपि 75
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy