________________
विंशतिवर्षसहस्रैश्च न्यूना ग्राह्या, एषा चैकसागरोपमशतादिककाल एककोटेरुत्सारित एवं पूर्यते, यथा चतुष्पञ्चाशत्सागरोपमाणि तावद्वासुपूज्यस्य, त्रिंशत् विमलस्य, नव अनन्तस्य, चत्वारि धर्मस्य, एवं सप्तनवतिसागरोपमाणि जातानि, तदनु शान्तिनाथस्य त्रीणि सागरोपमाणि, परं न तानि सम्पूर्णानि, किन्तु चतुर्भागीकृतस्य पल्योपमस्य सम्बन्धिमितिभिर्भागैयूँनानि, तदनु द्वौ भागौ चतुर्भागीकृतस्य पल्योपमस्य सम्बन्धिनौ कुन्थुनाथस्य, एको भागः पल्यसम्बन्धी श्रीअरजिनस्य, सोऽपि चैको भागो न परिपूर्णः, किन्तु वर्षाणां कोटिसहस्रेणैकेन न्यूनः, स च कोटिसहस्रो मल्लिजिनस्य, एवं च श्रेयांसस्य सागरोपमकोटेर्यदपकृष्टं सागरोपमशतमासीत्तदिदं परिपूर्णमभूत् , इदानीं षट्षष्टिवर्षलक्षाः षड्विंशतिवर्षसहस्राश्च प्रतिपाद्यन्ते तत्र चतुष्पञ्चाशल्लक्षाः सुव्रतस्य षट् लक्षा नमिजिनस्य पञ्च लक्षा नेमिजिनस्य मिलिताः पञ्चषष्टिवर्षलक्षाः, अर्धाष्टमशतसमधिकत्र्यशीतिसहस्राः पार्श्वजिनस्य, सार्धे द्वे शते श्रीवीरजिनस्य, एवं श्रीपार्श्ववीरयोरन्तरमानमीलनेन चतुरशीतिसहस्रा जाताः, शेषाश्च एकविंशतिवर्षसहस्रप्रमिता दुष्षमासम्बन्धिन एकविंशतिवर्षसहस्रप्रमिता अतिदुष्षमासम्बन्धिनो द्विचत्वारिंशत्सहस्रास्तेभ्यः षोडश सहस्राः पश्चाद्भणितचतुरशीतिसहस्रेषु क्षिप्यंते, ततः समजनि लक्षं, तच्च पूर्वोक्तपञ्चषष्टिवर्षलक्षेषु क्षिप्तमिति जाताः षट्षष्टिवर्षलक्षाः षड्विंशतिः सहस्राश्च, ततः श्रेयांसजिनकोटौ न्यूनायां सागरशतं षट्षष्टिर्लक्षाः षड्विंशतिर्वर्षसहस्राश्च क्षिप्ता इति परिपूर्णा कोटिः, एवं च जाता एका सागरोपमकोटाकोटिरिति ॥ सम्प्रति प्रकारान्तरेण सर्वतीर्थकृञ्चक्रवर्तिवासु न्तराणि यस्य तीर्थकृतः काले अन्तरे वा यश्चक्रवर्ती वासुदेवो वा बभूवेत्येवंरूपाणि वपुःप्रमाणं सर्वायुश्च विनेयव्युत्पत्त्यर्थमाह
बत्तीसं घरयाई काउं तिरियाअयाहि रेहाहिं । उड्डाअयाहिं काउं पंच घराइं तओ पढमे ॥४०६॥ पन्नरस जिण निरंतर सुन्नदुगं तिजिण मुन्नतियगं च । दो जिण सुन्न जिणिंदो सुन्न जिणो सुन्न दोन्नि जिणा ॥ ४०७॥ बिईयपंतिठवणा-दो चक्कि सुन्न तेरस पण चक्की सुण्ण चक्कि दो मुण्णा । चक्की सुन्न दुचक्की सुण्णं चक्की दुसुण्णं च ॥४०८॥ तईयपंतिठवणा-दस सुण्ण पंच केसव पणसुण्णं केसि सुण्ण केसी य । दो सुण्ण केसवोऽवि य सुण्णदुर्ग केसव तिसुण्णं ॥ ४०९॥ चउत्थ. पंतिठवणा-उसहभरहाण दोण्हवि उच्चत्तं पंचधणुसए हुंति । अजियसगराण दोण्हवि उच्चत्तं चारि अद्धं च ॥ ४१०॥ पन्नासं पन्नासं धणुपरिहाणी जिणाण तेण परं । ता जाव पुप्फदंतो घणुसयमेगं भवे उच्चो ॥ ४११॥ नउइ धणू सीयलस्स सेजंसतिविट्ठमाइणं पुरओ। जा धम्मपुरिससीहो उच्चत्तं तेसिमं होइ ॥ ४१२॥ कमसो असीइ सत्तरि सही पण्णास तह य पणयाला। एए हवंति धणुया बायालद्धं च मघवस्स ॥४१३ ॥ इगयालं धणु सद्धं च सणंकुमारस्स चक्कवहिस्स । संतिस्स य चत्ताला कुंथुजिणिंदस्स पणतीसा ॥ ४१४॥ तीस धणूणि अरस्स उ इगुतीसं पुरिसपुंडरीयस्स । अट्ठावीस सुभूमे छव्वीस धणूणि दत्तस्स ॥ ४१५ ॥ मल्लिस्स य पणुवीसा वीसं च धणूणि सुव्वए पउमे । नारायणस्स सोलस पनरस नमिनाहहरिसेणे ॥ ४१६ ॥ पारस जयनामस्स य नेमीकण्हाण दसघणुञ्चत्तं । सत्तधणु बंभदत्तो नव रयणीओ य पासस्स ॥ ४१७॥ वीरस्स सत्त रयणी उच्चत्तं भणियमाउअं अहुणा । पंचमघरयनिविटं कमेण सव्वेसि वोच्छामि ॥४१८ ॥ उसहभरहाण दोण्हवि चुलसीई पुव्वसयसहस्साई । अजियसागराण दोण्हवि बावत्तरि सयसहस्साई॥४१९॥ पुरओ जहक्कमेणं सही पण्णास चत्त तीसा य । वीसा दस दो चेव य लक्खेगो चेव पुवाणं ॥ ४२० ॥ सेजंसतिविट्टणं चुलसीई वाससयसहस्साई । पुरओ जिणकेसीणं धम्मो ता जाव तुल्लमिणं ॥४२१॥ कमसो बावत्तरि सहि तीस दस चेव सयसहस्साई । मघवस्स चकिणो पुण पंचेव य वासलक्खाई ॥ ४२२ ॥ तिन्नि य सणंकुमारे संतिस्स य वासलक्खमेगंत। पंचाणउह सहस्सा कंथस्सवि आउयं भणियं ॥ ४२३ ॥ चुलसीइ सहस्साई तु आउयं होइ अरजिणिंदस्स । पणसहिसहस्साई आऊ सिरिपुंडरीयस्स ॥ ४२४ ॥ सहिसहस्स सुभूमे छप्पन्न सहस्स हुंति दत्तस्स । पणपण्णसहस्साई मल्लिस्सवि आउयं भणियं ॥४२५॥ सुव्वयमहपउमाणं तीस सहस्साई आउयं भणियं । बारस वाससहस्सा आऊ नारायणस्स भवे ॥ ४२६ ॥ दस वाससहस्साई नमिहरिसेणाण हुँति दुण्हंपि । तिण्णेव सहस्साई आऊ जयनामचकिस्स ॥ ४२७ ॥ वाससहस्सा आऊ नेमीकण्हाण होइ दोहंपि । सत्त य वाससयाई चक्कीसरबंभदत्तस्स ॥ ४२८ ॥ वाससयं पासस्स य वासा बावत्तरिं च वीरस्स । इय बत्तीस घराई
समयविहाणेण भणियाई ॥४२९॥ 'बत्तीसमित्यादि गाथाश्चतुर्विंशतिः, इह प्रज्ञापकेनालेखोपदर्शनार्थ पट्टिका सम्मुखमायता स्थाप्यते न तिर्यक् , तत्र तिर्यगायतामिस्त्रयस्त्रिंशता रेखाभित्रिंशतं गृहकाणि कृत्वा ऊ यताभिः षभिः रेखामिः पञ्च गृहकाणि क्रियन्ते, कृत्वा च ततस्तत्र पञ्चगृहकमध्ये
67