________________
प्रथमे गृहके तिर्यगपेक्षया द्वात्रिंशद्गृहकात्मके पञ्चदशस्ववान्तरगृहकेषु क्रमेण पञ्चदश जिना - ऋषभाद्या धर्मनाथपर्यन्ता निरन्तराः स्थाप्यन्ते, ततो गृहकद्वये शून्यद्विकं ततो गृहकत्रये शान्तिकुन्थुअरजिनाः क्रमेण स्थाप्यन्ते, ततो गृहकत्रये शून्यत्रिकं ततो गृहकद्वये क्रमेण मल्लिमुनिसुव्रतौ स्थाप्येते, तत एकस्मिन् गृहके शून्यं, तत एकस्मिन् गृहके नमिजिनः स्थाप्यः, ततः परस्मिन् गृहके शून्यं, ततः परस्मिन् गृहके नेमिजिनः, ततः परस्मिन् शून्यं, ततः परस्मिन् गृहकद्वये क्रमेण पार्श्वजिनो वीरजिनश्चेति प्रथमपङ्किस्थापना । अथ द्वितीयपङ्किस्थापना दर्श्यते -तत्र च प्रथमगृहकद्वये क्रमेण भरतः सगरचक्रवर्ती स्थाप्येते, ततस्त्रयोदशगृहकेषु क्रमेण शून्यानि त्रयोदश, ततः क्रमेण पञ्चसु गृहकेषु पञ्च चक्रवर्तिनो मघवत्सनत्कुमारशान्ति कुन्थुअरनामानः स्थाप्याः, ततः शून्यं, तदप्रेतनगृहे सुभूमश्चक्रवर्ती, ततो गृहकद्वये क्रमेण द्वे शून्ये, तदप्रेतनगृहे महापद्मश्चक्रवर्ती, तदप्रेतनगृहे शून्यं, तदप्रेतनगृहकद्वये क्रमेण हरिषेणजयनामानौ चक्रवर्तिनौ, ततः परस्मिन् गृहे शून्यं, ततः परस्मिन् गृहके चक्री ब्रह्मदत्तः, ततः परयोर्गृहकयोः क्रमेण द्वे शून्ये, इति द्वितीयपङ्क्तिस्थापना । इदानीं तृतीयपतिस्थापना - दशसु गृहकेषु क्रमेण दश शून्यानि ततः पञ्चसु गृहकेषु क्रमेण पञ्च केशवा - वासुदेवात्रिपृष्ठद्विपृष्ठस्वयम्भूपुरुषोत्तमपुरुषसिंहाभिधानाः, ततो गृहकेषु पञ्चसु क्रमेण पञ्च शून्यानि सूत्रे तु 'पणसुन्न' मिति पञ्चानां शून्यानां समाहारः पञ्चशून्यमिति समाहारविवक्षया एकवचनं, ततः परस्मिन् गृहे केशवो - वासुदेव: पुरुषपुण्डरीकाभिधानः, ततः परस्मिन् गृहे शून्यं, ततः परस्मिन् गृहे केशी - दत्ताभिधानः, ततः परस्मिन् गृहकद्वये क्रमेण शून्यद्वयं, ततः परस्मिन् गृहे केशवो नारायणनामा, ततः परस्मिन् गृहकद्वये क्रमेण शून्यद्वयं, ततः परस्मिन् गृहे केशवः - कृष्णाभिधानः, ततः परस्मिन् गृहकत्रये क्रमेण शून्यत्रयमिति तृतीयपङ्क्तिस्थापना । इदानीं चतुर्थपङ्क्तिस्थापना - तत्र प्रथमगृह के वृषभजिनभरतचक्रिणोर्द्वयोरप्युच्चत्वं कायस्य पञ्च धनुःशतानि द्वितीयगृहके अजितजिनसगरचक्रिणोईयोरप्युच्चत्वं चत्वारि धनुःशतानि सार्धानि, ततः परं सम्भवादीनां जिनानां पञ्चाशत्पञ्चाशद्धनुः परिहाणिस्तावद्यावत्पुष्पदन्तः - सुविधि - जिनो धनुःशतमेकं भवेदुच्चः, अयमर्थ:- तृतीयगृहके सम्भवजिनस्य चत्वारि धनुःशतानि देहमानं, चतुर्थगृहके अभिनन्दनस्य त्रीणि धनुःशतानि सार्धानि, पञ्चमगृह के सुमतिजिनस्य त्रीणि धनुः शतानि षष्ठगृहे पद्मप्रभस्य द्वे धनुः शते सार्धे, सप्तमगृहे सुपार्श्वस्य द्वे धनुःशते, अष्टमगृहे चन्द्रप्रभस्य धनुः शतं सार्धं, नवमगृहके धनुः शतमेकं सुविधेरिति, ततो दशमगृह के शीतलस्य नवतिर्धनूंषि, पुरतः -अनन्तरं श्रेयांसत्रिपृष्ठादीनां यावद्धर्मजिनपुरुषसिंहौ तावत्तेषामुञ्चत्वमिदं - धनुरशीत्यादिकं क्रमशो भवति, अयमर्थः - एकादशे गृहके श्रेयांसजिनत्रिपृष्ठवासुदेवयोरशीतिर्धनूंषि, ततो द्वादशके गृहके वासुपूज्य जिनद्विपृष्ठवासुदेवयोः सप्ततिर्धनूंषि, ततस्त्रयोदशगृहे विमल जिनस्वयम्भूवासुदेवयोः षष्टिर्धनूंषि, ततश्चतुर्दशगृहके अनन्तजिनपुरुषोत्तमवासुदेवयोः पञ्चाशद्धनूंषि, ततः पञ्चदशगृहके धर्मजिनपुरुषसिंहवासुदेवयोः पञ्चचत्वारिंशद्धनूंषीति, तथा षोडशकगृहे मघवतञ्चकवर्तिनो द्विचत्वारिंशद्धनूंषि तदर्धं च, हस्तद्वयमित्यर्थः, सप्तदशगृहके एकचत्वारिंशद्धनूंषि तदर्धं च सनत्कुमारचक्रवर्तिनः, अष्टादशे गृहे शान्तिजिनस्य परिपूर्णानि चत्वारिंशद्धनूंषि, एकोनविंशे गृहके कुन्थुजि - नेन्द्रस्य पञ्चत्रिंशद्धनूंषि, विंशतितमे गृहके त्रिंशद्धनूंषि अरजिनस्य, तत एकविंशतितमे गृहके पुरुषपुण्डरीकस्य वासुदेवस्य एकोनत्रिंशद्धनूंषि, द्वाविंशतितमगृहे सुभूमचक्रवर्तिनोऽष्टाविंशतिर्धनूंषि, त्रयोविंशतितमगृहके दत्तस्य वासुदेवस्य षड्विंशतिर्धनूंषि, चतुर्विंशे गृहे मल्लिजिनस्य पञ्चविंशतिर्धनूंषि, पञ्चविंशतितमे गृहके सुव्रतजिनमहापद्मचक्रवर्तिनोर्विशतिर्धनूंषि, षड्विंशतितमे गृहके नारायणवासुदेवस्य षोडश धनूंषि, सप्तविंशतितमे गृहे नमिनाथहरिषेणचक्रिणोः पञ्चदश धनूंषि, अष्टाविंशतितमे गृहे जयचक्रवर्तिनो द्वादश धनूंषि, एकोनत्रिंशत्तमे गृहे नेमिजिन कृष्णाभिधानवासुदेवयोर्दश धनूंषि उच्चत्वं, त्रिंशत्तमे गृहे ब्रह्मदत्तचक्रिणः सप्त धनूंषि, एकत्रिंशे गृहके पार्श्वजिनस्य नव रत्नयो हस्ताः, द्वात्रिंशत्तमगृहके श्रीवीरजिनस्य सप्त हस्तास्तनुमानं ॥ एवमुच्चत्वं चतुर्थपङ्का सर्वेषां प्रथमजिनादीनां भणितं, इदानीं पञ्चम पङ्क्तिगृहकनिविष्टं सर्वेषां जिनादीनां क्रमेणायुष्कं वक्ष्यामि, तदेवाह - ' उ सहभरहाणं' इत्यादि, वृषभजिनभरतचक्रिणोर्द्वयोरपि प्रथमगृहके चतुरशीतिः पूर्वाणां शतसहस्राणि - लक्षाणि आयुः, द्वितीयगृहके अजितजिनसगरचक्रिणोर्द्वयोरपि द्विसप्ततिः पूर्वलक्षाणि, इतः पुरतो यथाक्रमं सम्भवादिजिनानां परिपाट्या षष्टिः पञ्चाशञ्चत्वारिंशत् त्रिंशत् विंशतिर्दृश द्वे एकं लक्षं पूर्वाणामिति, अयमर्थः तृतीये गृहके सम्भवस्य षष्टिः पूर्वलक्षाः सर्वायुः, चतुर्थगृहके अभिनन्दनस्य पञ्चाशत्पूर्वलक्षाः, पञ्चमगृहे सुमतिजिनस्य चत्वारिंशत्पूर्वलक्षाः, षष्ठगृहे पद्मप्रभस्य त्रिंशत्पूर्वलक्षाः, सप्तमगृहे सुपार्श्वस्य विंशतिः पूर्वलक्षाः, अष्टमगृहे चन्द्रप्रभस्य दश पूर्वलक्षाः, नवमगृहे सुविधेद्वे पूर्वलक्षे, दशमगृहे शीतलस्य एकं पूर्वलक्षमिति, तथा एकादशे गृहे श्रेयांसजिनत्रिपृष्ठवासुदेवयोश्चतुरशीतिर्वर्षलक्षाः, पुरतः - अनन्तरं जिनकेशीनां -तीर्थकृद्वासुदेवानां यावद्धर्मपुरुषसिंहौ तावत्परस्परं तुल्यमिदमायुः, तदेव दर्शयति – 'कमसो' इत्यादि, क्रमशः - परिपाट्या द्विसप्ततिः षष्टित्रिंशत् दशैव शतसहस्राणि - वर्षलक्षाणि, अयमर्थ:- द्वादशे गृहे वासुपूज्यद्विपृष्ठवासुदेवयोर्द्विसप्ततिर्वर्षलक्षाः, त्रयोदशे गृहे विमलजिनस्वयम्भूवासुदेवयोः षष्टिर्वर्षलक्षाः, चतुर्दशे गृहे अनन्तजिनपुरुषोत्तमवासुदेव योस्त्रिंशद्वर्षलक्षाः, पञ्चदशे गृहे धर्मजिनपुरुषसिंहवासुदेवयोर्दश वर्षलक्षा इति, तथा षोडशे गृहके मघवतञ्चक्रिणः पञ्च वर्षलक्षाः, सप्तदशे गृहके सनत्कुमारचक्रवर्तिनस्त्रीणि वर्षलक्षाणि, अष्टादशे गृहे शान्तिजिनचक्रवर्तिनो वर्षलक्षमेकं, एकोनविंशतितमगृहे कुन्थोर्जिन चक्रिणः पञ्चनवतिर्वर्षसहस्राः सर्वायुर्भणितं, विंशतितमगृहे अरजिनस्य चक्रिणश्चतुरशीतिवर्षसहस्राण्यायुर्भवति, एकविंशतितमे गृहे पञ्चषष्टिवर्षसहस्राण्यायुः पुरुषपुण्डरीकवासुदेवस्य, द्वाविंशतितमगृहे षष्टिर्वर्षसहस्राः सुभूमचक्रिणः, त्रयोविंशे गृहे षट्पञ्चाशद्वर्षसहस्रा भवन्ति दत्तस्य वासुदेवस्य चतुर्विंशतितमे गृहे पञ्चप
68