________________
गएहिं वीरो जिणेसरो जाओ । दूसमअइदूसमाणं दोन्हंपि दुचत्तसहसेहिं ॥ ४०४ ॥ पुज्जइ कोडाकोडी उसहजिणाओ इमेण कालेण । भणियं अंतरदारं एवं समयाणुसारेणं ॥ ४०५ ॥
'एत्तो' इत्यादि गाथात्रयोदशकं, 'इतो' जिननिर्वाणस्थानानन्तरं जिनान्तराणि – जिनानामन्तरालान्यहं वक्ष्ये –कथयिष्यामि, किलेत्याप्तोपदेशे, अत्र च 'लक्खेहिं' इत्यादिपदेषु सप्तम्यर्थे तृतीया, तत ऋषभस्वामिनः सकाशादजितो जिनः पञ्चाशत्कोटिलक्षेषु सागरोपमाणां गतेषु समुत्पन्नः सिद्धत्वेनेति शेषः, यद्वाऽनेकार्थत्वाद्धातूनां समुत्पन्नः सिद्ध इत्यर्थः, न तु समुत्पन्नो जात इति, 'उसहसामिणो' इत्यादिपदेषु अवधौ पञ्चमी, अवधिश्च द्विधा - अभिविधिर्मर्यादा च तत्र यद्यभिविधौ पञ्चमीतिकृत्वा समुत्पन्नो-जात इति व्याख्यायेत तदा ऋषभस्वाम्यादिजन्मकालाद्यथोक्तमजितादिजन्मकालमानं स्यात्, ततश्च ऋषभस्वामिनः सर्वायुः कालमानेनाधिकेषु दुष्षमसुषमारकस्य एकोननवतिपक्षेषु अवशिष्यमाणेषु श्रीमहावीरस्वामिनः सिद्धिः प्रसज्येत, आगमे तु अन्यूनाधिकेषु एकोननवतिपक्षेष्ववशेषेषु श्रीमहावीरसिद्धिरुक्तेत्यागमविरोधप्रसङ्गेन नात्राभिविधौ पञ्चमी, किन्तु मर्यादायामेव, तत्रापि यदि समुत्पन्नो जात इति व्याख्यायेत तदा ऋषभस्वाम्यादिनिर्वाणकालाद्यथोक्तमजितादिजन्मकालमानं स्यात्, ततश्च यथोक्तजिनान्तराणां कालमानैरेव चतुर्थारकः परिपूर्णः, श्रीमदजितादिजिनत्रयोविंशतेः सर्वायुःकालमानं तु जिनान्तरकालास गृहीतत्वात्तद्धि कमापद्यत इत्यतोऽप्रेतनोत्सर्पिण्यां श्रीमन्महावीरसिद्धिः प्रसज्येत, न चैतदिष्टं, तस्मादृषभस्वाम्यादि निर्वाणाद्यथोक्तकालेन अजितादयः समुत्पन्नाः - सिद्धा इत्येवं व्याख्यातव्यं, नान्यथेति ॥३९३॥ तथा ‘तीसाए संभवजिणो' त्ति श्रीअजितजिननिर्वाणात् त्रिंशत्सागरोपमकोटिलक्षेषु गतेषु श्रीसम्भवजिनः समुत्पन्नः सिद्ध इत्यर्थः, सम्भवानन्तरं च दशसु सागरोपमकोटिलक्षेषु गतेषु अभिनंदनजिनः समुत्पन्नो निर्वृत्त इत्यर्थः, तदनन्तरं नवसु सागरकोटिलक्षेषु गतेषु सुनतिजिनेन्द्रः समुत्पन्नो-मुक्तो जातः ॥ ३९४ ॥ तदनन्तरं नवतिसहस्रेषु सागरोपमकोटीनां व्यपगतेषु पद्मप्रभः समुत्पन्नः शिवश्रियमवापदित्यर्थः, तदनन्तरं नवसु सागरकोटीनां सहस्रेषु गतेषु श्रीसुपार्श्वनामा जिनः समुत्पन्नो निर्वाणमगच्छदित्यर्थः ॥ ३९५॥ सुपार्श्वानन्तरं च सागरोपमकोटिशतेषु नवसु गतेषु जातः सिद्धत्वेन चन्द्रप्रभो 'जनानन्दो' जनानन्दकारी, तदनन्तरं नवतौ सागरोपमकोटीषु गतासु सुविधिजिनो 'देशितः' कथितः सिद्धत्वेन 'समये' सिद्धान्ते ।। ३९६ ।। सुविधेरनन्तरं च शीतलजिनो महात्मा सागरोपमकोटिषु नवसु गतासु 'निर्दिष्टः' कथितो मुक्तत्वेनेति, तदनन्तरमनेन कालेन सागरोपमैकशतषट्षष्टिवर्ष लक्षषड्विंशतिवर्षसहस्ररूपेण ऊनायां सागरोपमकोट्यां गतायां श्रेयांसः सिद्धत्वेन जातः, 'तओ पुरो अंतरेसु 'ति ततः - तस्मात् श्रीश्रेयांसजिनात् पुरः - अग्रतोऽनन्तरमित्यर्थः 'इति' वक्ष्यमाण प्रकारेण भणिष्यमाणेषु अन्तरेषु व्यतिक्रान्तेषु वक्ष्यमाणा वासुपूज्यादयो जिनाः सिद्धा इति ॥ ३९७-८ ॥ एतदेवाह - 'चउप्पन्ना अयरेहिं' इत्यादि, श्रेयांसादनन्तरं चतुष्पञ्चाशत्सु अतरेषु गतेषु वासुपूज्यो जिनो जगदुत्तमो जातः सिद्धत्वेनेति, तदनन्तरं विमलजिनो विमलगुणौघस्त्रिंशत्यतरेषु गतेषु रजोरहितः - कर्मनिर्मुक्तो जातः सिद्ध इत्यर्थः ॥ ३९९ ॥ तदनन्तरं नवस्वतरेषु गतेषु अनन्तो जिनो जातो - निर्वृत्त इति, तदनन्तरं चतुष्वतरेषु गतेषु धर्मस्तु-धर्मनामा जिनो धर्मधुराधवलो मोक्षं जगामेति, तदनन्तरं त्रिष्वतरेषु चतुर्भागीकृतस्य 'पल्यस्य' पल्योपमस्य त्रिभिर्भागैर्न्यूनेषु गतेषु श्रीशान्तिनाथः शिवश्रियमशिश्रियत्, तदनन्तरं चतुर्भागीकृतस्य पल्योपमस्य ये पूर्वं त्रयो भागा उद्धरितास्तन्मध्याद्भागद्वितये गते कुन्थुजिनो निर्वृत्तः, तदनन्तरं एकस्मिन् पल्योपमचतुर्भागे वर्षकोटिसहस्रन्यूने गते श्रीअरो जिनेश्वरो भणितः सिद्धत्वेनेति ॥४००-१।। तदनन्तरं मल्लिजिन स्त्रिशल्यरहितो - मायानिदानमिध्यादर्शन लक्षणशल्यत्रयरहितो वर्षाणां कोटिसहस्रे गते जातः सिद्धत्वेनेति, तदनन्तरं चतुष्पञ्चाशद्वर्षलक्षेषु गतेषु सुव्रतः - शोभनत्रतः सुत्रतो ॥ ४०२ ॥ जिनः सिद्धः, तदनन्तरं षट्सु वर्षलक्षेषु गतेषु नमिनाथः सिद्ध:, तदनन्तरं पञ्चसु वर्षलक्षेषु गतेषु जिनवरो नेमिः सिद्धः, तदनन्तरं पार्श्वजिनोऽर्धाष्टमशतैः - सार्धसप्तशतैः समधिकेषु त्र्यशीतिवर्षसहस्रेषु गतेषु सिद्धिपदं प्रपेदे ॥ ४०३ ॥ तदनन्तरं सार्धवर्षशतद्वये गते सति वीरो जिनेश्वरो जातः सिद्धत्वेनेति ॥ ४०४ ॥ अत्र च एकोननवतिपक्षैरपरिपूर्णैश्चतुर्थारके श्रीआदिनाथः श्रीमहावीरश्च एकोननवतिपक्षैरपरिपूर्णे चतुर्थारके सिद्धः, एवं च चतुर्थारककालमानः सर्वजिनान्तरकालः संवृत्तः, चतुर्थारकश्च द्विचत्वारिंशद्वर्षसहस्रन्यून सागरोपमकोटाकोटिप्रमाणः, ततो द्विचत्वारिंशद्वर्षसहस्रसहितेन जिनान्तरकालमानेन सागरोपमकोटाकोटेः परिपूरणायाह - ' दूसमेत्यादि, दुष्पमातिदुष्षमयोः - पञ्चमषष्ठारकयोर्द्वयोरपि सम्बन्धिभिद्विचत्वारिंशद्वर्षसहस्रैः सहितेन श्रीवृषभजिनादिनिर्वाणादनेन - पूर्वभणितेन जिनान्तरकालमानेन पूर्यते - सम्पूर्णा भवति कोटाकोटिरेका सागरोपमाणामिति भणितमन्तरद्वारमेतत् समयानुसारेण - सिद्धान्तानुसारेण ॥४०५॥ एषा च सागरोपमकोटाकोटिरेवं पूर्यते - यथा पञ्चाशत्सागरोपमकोटिलक्षास्तावदाद्यजिनाजितान्तरेण त्रिंशत्कोटिलक्षाः सम्भवस्य दश सागरोपमकोटिलक्षाः अभिनन्दनस्य नव सागरोपमकोटिलक्षाः सुमतिजिनस्य एवं पञ्चाशत् त्रिंशत् दश नव च मीलिता नवनवतिकोटिलक्षाः सञ्जाताः, ततः सागरोपमकोटीनां नवतिः सहस्राः पद्मप्रभस्य नव कोटिसहस्राः सुपार्श्वस्य एवं नवनवतिकोटिसहस्राः जाताः, एककोटीसहस्रोऽवशिष्यते, तन्मध्यान्नव कोटिशतानि चन्द्रप्रभस्य, ततः शेषैक कोटिशतमध्यान्नवतिः सागरोपमकोट्यः सुविधिजिनस्य, तदनु नव कोट्यः शीतलस्य, एका कोटि : श्रेयांसस्येति मिलितं कोटिशतं, तश्च चन्द्रप्रभसम्बन्धिषु नवसु कोटिशतेषु मील्यते, ततो जातं कोटिसहस्रं, एतच्च पूर्वदर्शितनवनवतिसागरोपमकोटिसहस्रेषु प्रक्षिप्यते, जातमेकं सागरोपमकोटिलक्षं, तदपि नवनवतिसागरोपमकोटिलक्षेषु प्रक्षिप्यते, ततो जाता सागरोपमकोटाकोटिरेकेति, या च श्रेयांसस्य सागरोपमकोटिरेका अभिदधे सा न परिपूर्णा प्राह्मा, किन्तु सागरोपमशतेनैकेनषट्षष्टिवर्षलक्षैः षड्
66