SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ रासीई १८ य पंचवन्ना १९ य । तीसा २० य दस २१ य एगं २२ सय २३ च बावत्तरी २४ चेव ॥ ३८७॥ 'चउ' इत्यादि गाथात्रयं, तत्र प्रथमजिनस्य सर्वायुश्चतुरशीतिः पूर्वाणां लक्षाणि, श्रीअजितस्य द्विसप्ततिः पूर्वलक्षाः, श्रीसम्भवस्य षष्टिः पूर्वलक्षाः, श्रीअभिनन्दनस्य पञ्चाशत्पूर्वलक्षाः, श्रीसुमतेश्चत्वारिंशत्पूर्वलक्षाः, श्रीप्रद्मप्रभस्य त्रिंशत्पूर्वलक्षाः, श्रीसुपार्श्वस्य विंशतिः पूर्वलक्षाः, श्रीचन्द्रप्रभस्य दश पूर्वलक्षाः, श्रीसुविधेट्टै पूर्वलक्षे, श्रीशीतलस्य एवं पूर्वलक्षं ॥ ३८५ ॥ तथा श्रेयांसस्य चतुरशीतिवर्षाणां शतसहस्राणि लक्षाणीत्यर्थः, श्रीवासुपूज्यस्य द्विसप्ततिवर्षलक्षाः, श्रीविमलस्य षष्टिवर्षलक्षाः, श्रीअनन्तस्य त्रिंशद्वर्षलक्षाः, श्रीधर्मस्य दश वर्षलक्षाः, श्रीशान्तेरेकं वर्षलक्षं ॥३८६॥ तथा श्रीकुन्थोः पञ्चनवतिवर्षसहस्राः सर्वायुः, श्रीअरजिनस्य चतुरशीतिवर्षसहस्राः, श्रीमल्लेः पञ्चपञ्चाशद्वर्षसहस्राः, श्रीसुव्रतस्य त्रिंशद्वर्षसहस्राः, श्रीनमर्दश वर्षसहस्राणि, श्रीनेमेरेकं वर्षसहस्रं, श्रीपार्श्वनाथस्य एक वर्षशतं, श्रीवीरजिनस्य च द्विसप्त तिरेव वर्षाणीति ॥ ३८७ ॥ ३२॥ इदानीं 'सिवगमणपरिवारो'त्ति त्रयस्त्रिंशत्तमं द्वारमाह एगो भगवं वीरो तेत्तीसाएँ सह निव्वुओ पासो । छत्तीसेहिं पंचहि सएहिं नेमी उ सिडिगओ ॥ ३८८ ॥ पंचहिं समणसएहिं मल्ली संती उ नवसएहिं तु । अट्ठसएणं धम्मो सएहिं छहिं वासुपुज्जजिणो ॥ ३८९ ॥ सत्तसहस्साणंतइजिणस्स विमलस्स छस्सहस्साइं । पंच सयाई सुपासे पउमाभे तिणि अट्ठसया ॥ ३९ ॥ दसहिं सहस्सेहिं उसहो सेसा उ महस्सपरिवुडा सिद्धा । तित्थयरा उ दुवालस परिनिट्टियअट्टकम्मभरा ॥ ३९१ ॥ 'एगो' इत्यादि गाथात्रयं, तत्र एकः-एकाकी सन् भगवान् श्रीवीरो 'निवृत्तो' निर्वाणं ययौ, त्रयस्त्रिंशता साधुभिः सह निवृत्तः पार्श्वजिनः, षट्त्रिंशदधिकैः पञ्चभिः शतैः सह नेमिजिनः सिद्धिं गतः ॥ ३८८ ॥ पञ्चभिः श्रमणशतैः सह मल्लिजिनः, शान्तिजिनस्तु नवमिः श्रमणशतैः समं, अष्टोत्तरशतेन सह धर्मजिनः, शतैः षड्भिः सार्ध वासुपूज्यजिनः सिद्धिं गतः ।। ३८९ ॥ तथाऽनन्तजिज्जिनस्य निर्वाणं गच्छतः सप्त सहस्राणि परिवारः, विमलनाथस्य षट् सहस्राणि, पञ्च शतानि च 'सुपार्श्वे' सुपार्श्वस्य, 'पद्माभे पद्मप्रभस्य त्रीण्यष्टोत्तराणि शतानि, अन्ये त्र्युत्तराण्यष्टौ शतानीति व्याख्यानयन्ति, आवश्यकटिप्पनके तु पद्मप्रभतीर्थकृद्विषये "त्रीण्यष्टोत्तरशतानि साधूनां निर्वृत्तानीत्यवगन्तव्यं, त्रिगुणमष्टोत्तरं शतमित्यर्थः, त्रीणि शतानि चतुर्विशत्यधिकानीतियावत्' इति व्याख्यातं, तत्त्वं पुनः केवलिनो विदन्ति, ।। ३९०॥ तथा दशभिः सहस्र ऋषभः-प्रथमो जिनः परमानन्दश्रियमाशिश्लेष, शेषाः पुनरजितसम्भवामिनन्दनसुमचन्द्रप्रभसुविधिशीतलश्रेयांसकुन्थुनाथारजिनमुनिसुव्रतनमिलक्षणा द्वादश तीर्थकृतः प्रत्येकमेकसहस्रपरिवृताः परिनिष्ठिताष्टकर्मभराः तिसन्तः सिद्धा इति ॥ ३९१ ॥ ३३ ॥ इदानीं 'निव्वाणगमणठाणं'ति चतुर्विंशत्तमं द्वारमाह_ अट्ठावयचंपुचितपावासम्मेयसेलसिहरेसु । उसभवसुपुज्जनेमी वीरो सेसा य सिद्धिगया ॥३९२॥ 'अट्टे'त्यादि, अष्टापदे चम्पायां उज्जयन्ते अपापायां पुरि सम्मेतशैलशिखरे च यथासङ्ख्येन ऋषभो वासुपूज्यो नेमिर्जिनो वीरः शेषजिनाश्च सिद्धिं गताः, अष्टापदपर्वते श्रीऋषभस्वामी सिद्धिमगमत् , चम्पायां नगर्या वासुपूज्यः, उज्जयन्तगिरौ नेमिनाथः, अपापायां नगर्या श्रीमहावीरः, शेषास्तु उक्तव्यतिरिक्ता अजितादयो विंशतिस्तीर्थकृतः सम्मेतशैलशिखरे इति ॥ ३९२ ॥ सम्प्रति 'जिणंतराई'ति पञ्चत्रिंशं द्वारमाह एत्तो जिणंतराइं वोच्छं किल उसभसामिणो अजिओ । पण्णासकोडिलक्खेहिं सायराणं समुप्पण्णो ॥ ३९३ ॥ तीसाए संभवजिणो दसहि उ अभिनंदणो जिणवरिंदो । नवहि उ सुमइजिगिंदो उप्पण्णो कोडिलक्सहिं॥३९४॥ नउईड सहस्सेहिं कोडीणं वोलियाण पउमाभो नवहि सहस्सेहिं तओ सुपासनामो समुप्पण्णो ॥ ३९५ ॥ कोडिसएहिं नवहि उ जाओ चंदप्पहो जणाणंदो। नउईए कोडीहिं सुविहिजिणो देसिओ समए ॥ ३९६ ॥ सीयलजिणो महप्पा तत्तो कोडीहि नवहिं निहिहो । कोडीए सेयंसो ऊणाइ इमेण कालेण ॥ ३९७ ॥ सागरसएण एगेण तह य छावहिवरिसलक्खेहिं । छव्वीसाइ सहस्सेहिं तओ पुरो अंतरेसुत्ति ॥ ३९८ ॥ चउपण्णा अयरेहिं वसुपुज्जजिणो जगुत्तमो जाओ। विमलो विमलगुणोहो तीसहि अयरेहि रयरहिओ ॥ ३९९ ॥ नवहिं अयरेहि ऽणंतो चउहि उ धम्मो उ धम्मधुरधवलो । तिहि ऊणेहिं संती तिहि चउभागेहिं पलियस्स ॥ ४००॥ भागेहि दोहिं कुंथू पलियस्स अरो उ एगभागेणं । कोडिसहस्सोणेणं वासाण जिणेसरो भणिओ॥४०१॥ मल्ली तिसल्लरहिओ जाओ वासाण कोडिसहसेण । चउपण्णवासलक्खोहिं सुव्वओ सुव्वओ सिद्धो ॥ ४०२ ॥ जाओ छहि नमिनाहो पंचहि लक्खहिं जिणवरो नेमी । पासो अट्ठमसय समहियतेसीइसहसेहिं ॥ ४०३ ॥ अट्ठाइजसएहिं 65
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy