________________
जिणनेमी १० ॥ ३७७ ॥ नव हत्थपमाणो पाससामिओ सत्त हत्थ जिणवीरो । उस्सेहअंगुलेणं
सरीरमाणं जिणवराणं ॥ ३७८ ॥ 'पंचे'त्यादि गाथाद्वयं, तत्र प्रथमो जिन:-ऋषभस्वामी पश्चधनुःशत:-पञ्च धनुषां शतानि अर्थादेहप्रमाणं यस्य स तथा पञ्चधनु:शतप्रमाण इत्यर्थः, ततोऽजितादयः 'क्रमेण' परिपाट्या पञ्चाशता धनुषां हीना यावत्सुविधिजिनः, कोऽर्थः ?-पञ्चभ्यो धनुःशतेभ्यः पञ्चाशत्पश्चाशत्पात्यन्ते, ततोऽजितजिनस्य चत्वारि धनुःशतानि पञ्चाशद्धनुरधिकानि देहमानं, एवं सम्भवस्वामिनश्चत्वारि धनुःशतानि, अभिनन्दनस्य पञ्चाशदधिकानि त्रीणि धनुःशतानि, सुमतिनाथस्य त्रीणि धनुःशतानि, पद्मप्रभस्य पञ्चाशदधिके द्वे धनुःशते, सुपार्श्वस्य द्वे धनुःशते, चन्द्रप्रभस्य सार्धं धनुःशतं, सुविधिस्वामिनः परिपूर्ण धनुःशतं, 'दसहीण जा अणंतो'त्ति सुविधेरनन्तरं यावदनन्तजि. नस्तावत्तीर्थकृतस्तनुमानविषये क्रमेण दशमिर्दशमिर्धनुर्मिींना वक्तव्याः, ततोऽयमर्थः-सुविधिजिनतनुमानाद्धनुःशतलक्षणादशखपनीतेषु शीतलस्य नवतिर्धनूंषि देहमानं, एवं श्रेयांसस्य अशीतिर्धनूंषि, वासुपूज्यस्य सप्ततिः, विमलस्य षष्टिः, अनन्तजिनस्य पश्चाशद्धनूंषि, "पंचूणा जाव जिणनेमि'त्ति अनन्तजिनादनन्तरं तीर्थकृतः क्रमेण पञ्चभिः पञ्चमिन्यूँनास्तावद्वक्तव्या यावन्नेमिजिनः, ततश्चायमर्थः-अनन्तजिनदेहमानात्पञ्चाशद्धनुःस्वरूपात् पञ्चसूद्धृतेषु धर्मजिनस्य पञ्चचत्वारिंशद्धनूंषि देहमानं, एवं शान्तिनाथस्य चत्वारिंशद्धनूंषि, कुन्थुनायस्य पञ्चत्रिंशद्धनूंषि, अरस्वामिनस्त्रिंशत् , मल्लिजिनस्य पञ्चविंशतिः, मुनिसुव्रतस्य विंशतिः, नमिनाथस्य पञ्चदश, अरिष्ठनेमेर्दश धषि, नवहस्तप्रमाणः पार्श्वस्वामी, सप्तहस्तप्रमाणश्च वीरजिनः, इत्येवमुत्सेधाङ्गुलेन-'परमाणू रहरेणु तसरेणु' इत्यादिक्रमनिष्पन्नेन शरीरमानमिदं जिनवराणां विज्ञेयमिति ॥ ३७७-३७८ ॥ २८ ॥ साम्प्रतं 'लंछणाणि'त्ति एकोनत्रिंशत्तमं द्वारमाह
सह १गय २ तुरय ३ वानर ४ कूचू ५ कमलं च ६सथिओ७चंदो८मयर ९ सिरिवच्छ १० गंडय ११ महिस १२ वराहो १३ य सेणो १४ य ॥ ३७९ ॥ वजं १५ हरिणो १६ छगलो १७ नंदावत्तो १८ य कलस १९ कुम्मो २० य । नीलुप्पल २१ संख २२ फणी २३ सीहो २४ य जि
णाण चिन्धाइं॥ ३८०॥ 'वसहे'त्यादि गाथाद्वयं, वृषभो गजस्तुरगो मर्कटः क्रौंचः कमलं च स्वस्तिकश्चन्द्रो मकरः श्रीवत्सो गण्डको महिषो वराहश्च श्येनश्च वजं हरिणश्छगलो नंदावर्तश्च कलशः कूर्मश्च नीलोत्पलं शङ्खः फणी सिंहश्च जिनानांनाभेयादीनां चिहानि-लाञ्छनानि क्रमेण ज्ञातव्यानीति ॥ ३७९-३८० ॥ २९ ॥ इदानीं त्रिंशत्तमं 'वन्ना'इति द्वारमाह
पउमाभवासुपुज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमी काला पासो मल्ली पियंगाभा ॥ ३८१ ॥ वरतवियकणयगोरा सोलस तित्थंकरा मुणेयव्वा । एसो वनविभागो चउवीसाए जिजिंदाणं ।। ३८२॥ 'पउमे'त्यादि गाथाद्वयं, पद्मप्रभवासुपूज्यौ जपापुष्पवद्रक्तौ, शशिपुष्पदन्तौ-चन्द्रप्रभसुविधी शशिगौरी-चन्द्रचारुरुची, सुव्रतनेमिनौ इन्द्रनीलमणिवत्कालौ, पार्श्वमल्लिजिनौ प्रियङ्ग्वाभौ, प्रियङ्गुः-फलिनीतरुस्तदाभौ नीलावित्यर्थः ॥३८॥ वरं-अकृत्रिमं तापितं यत्कनकं तद्वद्रगौराः शेषाः षोडश तीर्थङ्करा ज्ञातव्याः, एष वर्णविभागश्चतुर्विशतेस्तीर्थकराणामिति ॥ ३८२ ॥ ३०॥ इदानीं 'वयपरिवारो'त्ति एकत्रिंशत्तमं द्वारमाह- .
एगो भगवं वीरो पासो मल्ली य तिहि तिहि सएहिं । भगवंपि वासुपुज्जो छहिं पुरिससएहिं निक्खंतो॥ ३८३ ॥ उग्गाणं भोगाणं रायण्णाणं च खत्तियाणं च । चरहिं सहस्सेहिं उसहो
सेसा उ १९ सहस्सपरिवारा-॥ ३८४ ॥ 'एगों' इत्यादि गाथाद्वयं, तत्र एको भगवान् वीरो-वर्धमानस्वामी प्रव्रजितः, न केनापि सह तेन व्रतं गृहीतमित्यर्थः, पार्श्वनाथो भगवांश्च मल्लिनिभित्रिभिः शतैः सह व्रतमग्रहीत् , अत्र च मल्लिस्वामी स्त्रीणां पुरुषाणां च प्रत्येकं त्रिभित्रिमिः शतैः सह प्रव्रजितः, ततो मिलितानि षट् शतानि भवन्ति, यत्तु सूत्रे त्रिभिः शतैरित्युक्तं तत्र केवलाः स्त्रियः पुरुषा वा गृहीताः, द्वितीयः पुनः पक्षः सन्नपि न विवक्षित इति सम्प्रदायः, स्थानाङ्गटीकायामप्युक्तं-"मल्लिजिनः स्त्रीशतैरपि त्रिमि"रिति, भगवानपि वासुपूज्यः षद्भिः पुरुषशतैः सह निष्क्रान्तः-संसारकान्तारान्निर्गतः प्रव्रजित इतियावत् ॥३८३।। उप्राणां-आरक्षकस्थानीयानां भोगानां-गुरुप्रायाणां राजन्यानां-मित्रप्रायाणां क्षत्रियाणां-सामन्तादीनां सर्वसङ्ख्यया चतुर्भिः सहस्रैः सह ऋषभः-प्रथमो जिनो निष्क्रान्तो व्रतं जवाहेत्यर्थः शेषास्तु-वीरपार्श्वमल्लिवासुपूज्यनामेयव्यतिरिक्ता जिना अजितादय एकोनविंशतिः सहस्रपरिवाराः-एकपुरुषसहस्रसहिताः प्राब्राजिषुरिति ॥३८४॥३१॥ दानी 'सव्वाउयन्ति द्वात्रिंशत्तमं द्वारमाह
चउरासीइ १ विसत्तरि २ सट्ठी ३ पन्नास ४ मेव लक्खाई। चत्ता ५ तीसा ६ वीसा ७ दस ८ दो ९ एगं १० च पुव्वाणं ॥ ३८५ ॥ चउरासी ११ बावत्तरी १२ य सट्ठी १३ य होइ वासाणं । तीसा १४ य दस १५ य एगं १६ एवं एए सयसहस्सा ॥ ३८६ ॥ पंचाणउइ सहस्सा १७ चउ
64