________________
सार्धषट्शताधिकाः श्रीसुमतेर्दशसहस्राः सार्धचतु:शताधिकाः, श्रीपद्मप्रभस्य दशसहस्राः शतत्रयाधिकाः, श्रीसुपार्श्वस्य नवसहस्राः साधैं. कशताधिकाः, श्रीचन्द्रप्रभस्य अष्टौ सहस्राः, श्रीसुविधिजिनस्य सप्तसहस्राः पञ्चशताधिकाः, शीतलस्याप्येतावन्त एव, श्रेयांसजिनस्य श्रीवासुपूज्यजिनस्य च षट् षट् सहस्राः, 'इत्तो'त्ति इतोऽनन्तरं विमलजिनस्य पञ्चसहस्राणि पञ्चशताधिकानि, अनन्तजिनस्य पञ्चसहस्राः, श्रीधर्मस्य चत्वारः सहस्राः पञ्चशताधिकाः, श्रीशान्तिजिनस्य चत्वारः सहस्राः, श्रीकुन्थोस्त्रयः सहस्राश्चत्वारिंशदधिकशतत्रयाधिकाः, श्रीअरजिनस्य सहस्रद्विकमेकपञ्चाशदधिकपञ्चशताभ्यधिकं, श्रीमल्लेः सप्तदशशतानि पञ्चाशदधिकानि, श्रीमुनिसुव्रतस्य पञ्चदशशतानि, श्री. नमिजिनस्य द्वादश शतानि षष्ट्यधिकानि, श्रीनेमेरेकः सहस्रः श्रीपार्श्वजिनस्य शतान्यर्धाष्टमानि, सार्धानि सप्त शतानीत्यर्थः, श्रीवीरजिनस्य पञ्चैव शतानीति ॥ २२ ॥ इदानीं 'चउद्दसपुन्विति त्रयोविंशतितमं द्वारमाह
चउद्दसपुव्वि सहस्सा चउरो अद्धट्ठमाणि य सयाणि १। वीसहिय सत्ततीसा २ इगवीस सया य पन्नासा ३॥ ३६०॥ पनरस ४ चउवीस सया ५ तेवीस सया ६ य वीससय तीसा ७ । दो सहस ८ पनरस सया९ सयचउदस १० तेरस सयाई ११ ॥ ३६१ ॥ सय बारस १२ एक्कारस १३ दस १४ नव १५ अट्टेव १६ छच्च सय सयरा १७ । दसहिय छच्चेव सया १८ छच्च सया अट्ठसहिहिया १९॥ ३६२॥ सय पंच २० अद्धपंचम २१ चउरो २२ अडुह २३ तिन्नि य सयाई
२४ । उसहाइजिणिंदाणं चउदसपुव्वीण परिमाणं ॥३६३ ॥ 'चउ'इत्यादि गाथाश्चतस्रः, तत्रादिजिनस्य चतुर्दशपूर्विणां चत्वारः सहस्रा अर्धाष्टमानि च शतानि, पञ्चाशदधिकानि सप्त शतानीत्यर्थः, श्रीअजितजिनस्य विंशत्यधिकसप्तत्रिंशच्छतानि, श्रीसम्भवजिनस्य एकविंशतिः शतानि पञ्चाशदधिकानि ॥३६०॥ श्रीअमिनन्दनस्य पञ्चदश 'शतानि, श्रीसुमतेश्चतुर्विशतिः शतानि, श्रीपद्मप्रभस्य त्रयोविंशतिः शतानि श्रीसुपार्श्वस्य विंशतिः शतानि त्रिंशदधिकानि, श्रीचन्द्रप्रभस्य द्वौ सहस्रो, श्रीसुविधेः पञ्चदश शतानि, श्रीशीतलस्य शतानि चतुर्दश, श्रीश्रेयांसस्य त्रयोदश शतानि ॥३६॥ श्रीवासुपूज्यस्य द्वादश शतानि, श्रीविमलजिनस्य एकादश शतानि, श्रीअनन्तजिनस्य दश शतानि, श्रीधर्मस्य नव शतानि, श्रीशान्तेरष्टौ शतानि, श्रीकुन्थोः षट् शतानि सप्तत्यधिकानि, श्रीअरजिनस्य दशाधिकानि षडेव शतानि, श्रीमल्लिजिनस्य षट् शतानि अष्टषष्ट्यधिकानि ॥३६२॥ श्रीमुनिसुव्रतस्य शतानि पञ्च, श्रीनमेश्चत्वारि शतानि पञ्चाशदधिकानि, श्रीनेमेश्चत्वारि शतानि, श्रीपार्श्वजिनस्य त्रीणि शतानि पञ्चाशदधिकानि, श्रीवीरजिनस्य च त्रीणि शतानि, इदं पूर्वोक्तमृषभादिजिनेन्द्राणां क्रमेण चतुर्दशपूर्विपरिमाणम् ॥३६३ ॥२३॥ इदानीं 'सह'त्ति चतुर्विशतितमं द्वारमाह
पढमस्स तिन्नि लक्खा पंच सहस्सा दुलक्ख जा संती । लक्खोवरि अडनउई २ तेणउई ३ अट्ठसीई य ४ ॥ ३६४ ॥ एगसीई ५ छावत्तरि ६ सत्तावण्णा ७ य तह य पन्नासा ८ । गुणतीस ९ नवासीई १० अ गुणासी ११ पनरस १२ अट्ठेव १३ ॥ ३६५ ॥ छचिय सहस्स १४ चउरो सहस्स १५ नउई सहस्स संतिस्स १६ । तत्तो एगो लक्खो उवरि गुणसीय १७ चुलसी १८ य ॥ ३६६ ॥ तेयासी १९ बावत्तरि २० सत्तरि २१ इगुहत्तरी २२ य चउसट्ठी २३ । एगुणसहि सहस्सा २४
सावगमाणं जिणवराणं ॥ ३६७॥ 'पढमें'त्यादिगाथाचतुष्टयं, तत्र प्रथमजिनस्य श्रावकाणां तिस्रो लक्षाः पञ्चसहस्राधिकाः, श्रीअजितादिजिनानां यावत् शान्तिजिनस्तावल्लक्षद्वयं श्राद्धानां, द्विलक्षोपरि च यदधिकं भवति तन्निवेद्यते तत्र तृतीयगाथावर्ति 'सहस्स'तिपदस्य सर्वत्रामिसम्बन्धात् अष्टनवतिः सहस्रा अजितजिनस्य, लक्षद्वयमष्टनवतिसहस्राधिकमित्यर्थः, त्रिनवतिः श्रीसम्भवस्य, लक्षद्वयं त्रिनवतिसहस्राधिकमित्यर्थः, अष्टाशीतिश्च श्रीअमिनन्दनस्य, लक्षद्वयमष्टाशीतिसहस्राधिकमित्यर्थः ॥३६४।। एकाशीतिः श्रीसुमतेः, लक्षद्वयमेकाशीतिसहस्राधिकमित्यर्थः, षट्सप्ततिः श्रीपद्मप्रभस्य, लक्षद्वयं षट्सप्ततिसहस्राधिकमित्यर्थः, सप्तपञ्चाशच श्रीसुपार्श्वस्य, लक्षद्वयं सप्तपञ्चाशत्सहस्राधिकमित्यर्थः, तथा पञ्चाशचन्द्रप्रभस्य, लक्षद्वयं पञ्चाशत्सहस्राधिकमित्यर्थः, एकोनत्रिंशत् श्रीसुविधेः, लक्षद्वयमेकोनत्रिंशत्सहस्राधिकमित्यर्थः, नवाशीतिः श्रीशीतलस्य, लक्षद्वयं नवाशीतिसहस्राधिकमित्यर्थः, एकोनाशीतिः श्रीश्रेयांसस्य, लक्षद्वयं एकोनाशीतिसहस्राधिकमित्यर्थः, पञ्चदश श्रीवासुपूज्यस्य, लक्षद्वयं पश्चदशसहस्राधिकमित्यर्थः, अष्टैव श्रीविमलजिनस्य, लक्षद्वयं अष्टसहस्राधिकमित्यर्थः॥३६५॥ षट् सहस्राःश्रीअनन्तजिनस्य, लक्षद्वयं षट्सहस्राधिकमित्यर्थः, चत्वारः सहस्राः श्रीधर्मजिनस्य, लक्षद्वयं चतुर्भिः सहस्रैरधिकमित्यर्थः, नवतिसहस्राः श्रीशान्तेः, लक्षद्वयं नवतिसहस्राधिकमित्यर्थः, ततः-श्रीशान्तिनाथादनन्तरं कुन्थुप्रभृतीनां तीर्थकृतां महावीरपर्यन्तानामेकं लक्षं श्राद्धानां, लक्षोपरि च यत्सङ्ख्यास्थान तदुच्यते-यथा एकोनाशीतिः श्रीकुन्थोः, लक्षमेकमेकोनाशीतिसहस्राधिकमित्यर्थः, चतुरशीतिः श्रीअरजिनस्य, लक्षमेकं चतुरशीतिसहस्राधिकमित्यर्थः ॥३६६॥ त्र्यशीतिः श्रीमल्ले, लक्षमेकं त्र्यशीतिसहस्राधिकमित्यर्थः, द्विसप्ततिः श्रीमुनिसुव्रतस्य, लक्षमेकं द्विसप्ततिसहस्राधिकमित्यर्थः, सप्ततिर्नमेः, लक्षमेकं सप्ततिसहस्राधिकमित्यर्थः, एकोनसप्ततिः श्रीनेमेः, लक्षमेकमेकोनसप्ततिसहस्राधिकमित्यर्थः, चतुःषष्टिः श्रीपार्श्वस्य, लक्षमेकं चतुःषष्टिसहस्राधिकमित्यर्थः, एकोनषष्टिसहस्राः श्रीवीरजिनस्य, लक्षमेकमेकोनषष्टिसहस्राधिकमित्यर्थः ॥३६७।। इति जिनवरेन्द्रचतुर्विशतेः सम्बन्धिनां श्रावकाणां मानं क्रमेण ज्ञातव्यम् ॥ २४ ॥ इदानीं 'सहीणंति पञ्चविंशतितमं द्वारं निर्दिदिक्षुराह
61