________________
पढमस्स पंच लक्खा चउपन्न सहस्स १ तयणु पण लक्खा। पणयालीससहस्सा २ छलक्ख छत्तीस सहसा य ३ ॥ ३६८ ॥ सत्तावीससहस्साहियलक्खा पंच ४ पंच लक्खा य । सोलससहस्सअहिया ५ पणलक्खा पंच उ सहस्सा ६ ॥ ३६९ ॥ उवरिं चउरो लक्खा धम्मो जा उवरि सहस तेणउई ७। इगनउई ८ इगहत्तरि ९ अडवन्न १० ऽडयाल ११ छत्तीसा १२॥ ३७० ॥ चउवीसा १३ चउदस १४ तेरसेव १५ तत्तो तिलक्ख जा वीरो । तदुवरि तिनवइ १६ इगासी १७ बिसत्तरी १८ सयरि १९ पन्नासा २०॥ ३७१॥ अडयाला २१ छत्तीसा २२ इगुचत्त २३ ऽद्वार
सेव य सहस्सा २४ । सड्डीण माणमयं चउवीसाए जिणवराणं ॥ ३७२॥ 'पढमस्से'त्यादिगाथापञ्चकं, तत्र प्रथमस्य-आदिजिनस्य श्राविकाणां पञ्च लक्षाणि चतुष्पञ्चाशत्सहस्राधिकानि, तदनु-प्रथमतीर्थकरानन्तरमजितस्य श्राविकाणां पञ्च लक्षाणि पश्चचत्वारिंशत्सहस्राधिकानि ॥३६८॥ श्रीसम्भवस्य षट् लक्षाणि षट्त्रिंशत्सहस्राश्च, अमिनन्दनस्य सप्तविंशतिसहस्राधिका लक्षाः पञ्च, सुमतिजिनस्य लक्षाः पश्च षोडशसहस्राधिकाः, श्रीपद्मप्रभस्य लक्षाः पञ्च पञ्चसहस्राधिकाः ॥३६९॥ इत उपरि-पद्मप्रभादारभ्य धर्मजिनं यावत् श्राविकाणां चतस्रो लक्षाः प्रत्येकमुपरि च त्रिनवत्यादयः सहस्राः, कोऽर्थः ?-सुपार्श्वस्य श्राविकाणां लक्षचतुष्टयं त्रिनवतिसहस्राधिकं, चन्द्रप्रभस्य लक्षचतुष्टयमकनवतिसहस्राधिकं, सुविधेर्लक्षचतुष्टयमेकसप्ततिसहस्राधिकं, शीतलस्य लक्षचतुष्टयमष्टपञ्चाशत्सहस्राधिकं, श्रेयांसस्य लक्षचतुष्टयं अष्टचत्वारिंशत्सहस्राधिकं, वासुपूज्यस्य लक्षचतुष्टयं षट्त्रिंशत्सहस्राधिकं ॥३७०॥ विमलस्य लक्षचतुष्टयं चतुर्विशतिसहस्राधिकं, अनन्तस्य लक्षचतुष्टयं चतुर्दशसहस्राधिकं, धर्मस्य लक्षचतुष्टयं त्रयोदशसहस्राधिक, तत:श्रीशान्तिनाथादारभ्य प्रत्येकं लक्षत्रयं श्राविकाणां यावन्महावीरं, तदुपरि च-त्रिलक्षोपरि च त्रिनवत्यादयः सहस्राः, तत्र श्रीशान्तेर्लक्षत्रयं त्रिनवतिसहस्राधिकं, कुन्थोर्लक्षत्रयमेकाशीतिसहस्राधिकं, अरजिनस्य लक्षत्रयं द्विसप्ततिसहस्राधिकं, मल्लेर्लक्षत्रयं सप्ततिसहस्राधिकं, मुनिसुव्रतस्य लक्षत्रयं पञ्चाशत्सहस्राधिकं ॥ ३७१ ॥ श्रीनमेर्लक्षत्रयमष्टचत्वारिंशत्सहस्राधिकं, श्रीनेमेर्लक्षत्रयं षट्त्रिंशत्सहस्राधिकं, श्रीपार्श्वस्य लक्षत्रयमेकोनचत्वारिंशत्सहस्राधिकं, वीरजिनस्य च लक्षत्रयमष्टादशसहस्रैरधिकं, श्राविकाणां मानमेतच्चतुर्विशतेर्जिनवराणामिति ॥३७२।। ॥ २५ ॥ इदानीं 'जिणजख'त्ति षड्विंशतितमं द्वारं विवरीतुमाह
जक्खा गोमुह १ महजक्ख २ तिमुह ३ ईसर ४ तुंबुरु ५ कुसुमो ६ । मायंगो ७ विजया ८ जिय ९बंभो १० मणुओ ११ य सुरकुमरो १२॥ ३७३॥ छम्मुह १३ पयाल १४ किन्नर १५ गरुडो १६ गंधव्व १७ तह य जक्खिदो १८ । कूषर १९ वरुणो २० भिउडी २१ गोमेहो २२ .
वामण २३ मयंको २४ ॥ ३७४ ॥ 'जक्खो' इत्यादिगाथाद्वयं, यक्षा भक्तिदक्षास्तीर्थकृतामिमे, यथा प्रथमजिनस्य गोमुखो यक्षः सुवर्णवर्णों गजवाहनश्चतुर्भुजो वरदाक्षमालिकायुक्तदक्षिणपाणिद्वयो मातुलिङ्गपाशकान्वितवामपाणिद्वयश्च १ अजितनाथस्य महायक्षाभिधो यक्षश्चतुर्मुखः श्यामवर्णः करीन्द्रवाहनोऽष्टपाणिर्वरदमुद्राक्षसूत्रपाशकान्वितदक्षिणपाणिचतुष्टयो बीजपूरकाभयाङ्कशशक्तियुक्तवामपाणिचतुष्कश्च २ श्रीसम्भवजिनस्य त्रिमुखो नाम यक्षत्रिवदनत्रिनेत्रः श्यामवर्णो मयूरवाहनः षड्भुजो नकुलगदाभययुक्तदक्षिणकरकमलत्रयो मातुलिङ्गनागाक्षसूत्रयुक्तवामपाणिपद्मत्रयश्च ३ श्रीअभिनन्दनस्य ईश्वरो यक्षः श्यामकान्तिर्गजवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तदक्षिणकरकमलद्वयो नकुलाङ्कुशान्वितवामपाणिद्वयश्च ४ श्रीसुमतेस्तुम्बुरुर्यक्षः श्वेतवर्णो गरुडवाहनश्चतुर्भुजो वरदशक्तियुक्तदक्षिणपाणिद्वयो गदानागपाशयुक्तवामपाणिद्वयश्च ५ श्रीपद्मप्रभस्य कुसुमो यक्षो नीलवर्ण: कुरङ्गवाहनश्चतुर्भुजः फलाभययुक्तदक्षिणपाणिद्वयो नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च ६ श्रीसुपार्श्वस्य मातङ्गो यक्षो नीलवर्णो गजवाहनश्चतुर्भुजो बिल्वपाशयुक्तदक्षिणपाणिद्वयो नकुलाशयुक्तवामपाणिद्वयश्च ७ श्रीचन्द्रप्रभस्य विजयो यक्षो हरितवर्णखिलोचनो हंसवाहनो द्विभुजः कृतदक्षिणहस्तचक्रो वामहस्तधृतमुद्रश्च ८ श्रीसुविधिजिनस्याजितो यक्षः श्वेतवर्णः कूर्मवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तदक्षिणपाणिद्वयो नकुलकुन्तकलितवामपाणिद्वयश्च ९ श्रीशीतलस्य ब्रह्मा यक्षश्चतुर्मुखखिनेत्रः सितवर्णः पनासनोऽष्टभुजो मातुलिङ्गमुद्गरपाशकाभययुक्तदक्षिणपाणिचतुष्टयो नकुलगदाङ्कशाक्षसूत्रयुक्तवामपाणिचतुष्टयश्च १० श्रीश्रेयांसस्य मनुजो यक्षो मतान्तरेणेश्वरो धवलवर्णखिनेत्रो वृषभवाहनश्चतुर्भुजो मातुलिङ्गगदायुक्तदक्षिणपाणिद्वयो नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च ११ श्रीवासुपूज्यस्य सुरकुमारो यक्षः श्वेतवर्णो हंसवाहनश्चतुर्भुजो बीजपूरकवीणान्वितदक्षिणपाणिद्वयो नकुलकधनुर्युक्तवामपाणिद्वयश्च १२ ॥३७३।। श्रीविमलस्य षण्मुखो यक्षः श्वेतवर्णः शिखिवाहनो द्वादशभुजः फलचक्रबाणखड्गपाशकाक्षसूत्रयुक्तदक्षिणपाणिषट्को नकुलचक्रधनुःफलकाङ्कशाभययुक्तवामपाणिषटकश्च १३ श्रीअनन्तस्य पातालो यक्षस्त्रिमुखो रक्तवर्णो मकरवाहनो षड्भुजः पद्मखड्गपाशयुक्तदक्षिणपाणित्रयो नकुलफलकांक्षसूत्रयुक्तवामपाणित्रयश्च १४ श्रीधर्मस्य किन्नरो यक्षत्रिमुखो रक्तवर्णः कूर्मवाहन: षड्भुजो बीजपूरकगदाभययुक्तदक्षिणपाणित्रयो नकुलपद्माक्षमालायुक्तवामपाणित्रयश्च १५ श्रीशान्तिनाथस्य गरुडो यक्षो वराहवाहनः क्रोडवदनः श्यामरुचिश्चतुर्भुजो बीजपूरकपद्मान्वितदक्षिणकरद्वयो नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च १६ श्रीकुन्थोर्गन्धर्वयक्षः श्यामवर्णो हंसवाहनश्चतुर्भुजो वरदपाशकान्वितदक्षिणपाणिद्वयो मातुलिङ्गाङ्कशाधिष्ठितवामकरद्वयश्च १७ श्रीअरजिनस्य यक्षेन्द्रो यक्षः षण्मुखत्रिनेत्रः श्यामवर्णः शङ्खवाहनो द्वादशभुजो
62