SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ त्ताला १३ । तेयाला १४ छत्तीसा १५ तीसा १६ पणवीस १७ छठवीसा १८ ॥ ३४९ ॥ बावीसा १९ अद्वारस २० सोलस २१ पनरस २२ चउदस सयाणि २३ । तेरस २४ साहण सयाई ओहि. नाणीण वीरस्स ॥ ३५०॥ 'ओही'त्यादिगाथात्रयं, तत्रादिजिनस्य अवधिज्ञानिमुनीनां नवतिशतानि, नव सहस्राणीत्यर्थः, श्रीअजितजिनस्य चतुर्नवतिशतानि, नव सहस्राश्चतुर्भिः शतैरधिका इत्यर्थः, श्रीसंभवजिनस्य षण्णवतिशतानि, नवसहस्राः षड्भिः शतैरधिका इत्यर्थः, श्रीअभिनन्दनस्य अष्टानवतिशतानि, नवसहस्रा अष्टशतैरधिका इत्यर्थः, श्रीसुमतिजिनस्य एकादश सहस्राणि श्रीपनप्रभस्य दश सहस्राणि श्रीसुपार्श्वस्य नव सहस्राः, अत्र 'बावीसे'त्यादितृतीयगाथायां द्वितीयपादवर्ति 'सयाणित्ति (प्रन्थान ३०००) पदमशीत्यादिपदेषु योज्यते, ततः श्रीचन्द्रप्रभस्य अशीतिशतानि, अष्टौ सहस्रा इत्यर्थः, श्रीसुविधिजिनस्य चतुरशीतिशतानि, अष्टौ सहस्राश्चतुर्भिः शतैरधिका इत्यर्थः, श्रीशीतलजिनस्य द्विसप्ततिशतानि, सप्तसहस्राः शतद्वयाधिका इत्यर्थः, श्रीश्रेयांसजिनस्य षष्टिशतानि, सहस्रषट्कमित्यर्थः, श्रीवासुपूज्यस्य चतुष्पञ्चाशच्छतानि, पञ्च सहस्राश्चतुःशताधिका इत्यर्थः, श्रीविमलजिनस्य अष्टचत्वारिंशच्छतानि, चत्वारः सहस्रा अष्टशताधिका इत्यर्थः, श्रीअनन्तजिनस्य त्रिचत्वारिंशच्छतानि, चत्वारः सहस्राः शतत्रयेणाधिका इत्यर्थः, श्रीधर्मजिनस्य षटत्रिंशच्छतानि, सहस्रत्रयं षनिः शतैरधिकमित्यर्थः, श्रीशान्तिनाथस्य त्रिंशच्छतानि, त्रयः सहस्रा इत्यर्थः, श्रीकुन्थुनाथस्य पञ्चविंशतिशतानि, सहस्रद्वयं पञ्चशताधिकमित्यर्थः, श्रीअरनाथस्य षड्विंशतिशतानि, द्वौ सहस्रौ षट्शताधिकावित्यर्थः, श्रीमल्लिजिनस्य द्वाविंशतिशतानि, सहस्रद्वयं द्विशताधिकमित्यर्थः, श्रीमुनिसुव्रतस्य अष्टादशशतानि, सहस्रमेकमष्टशताधिकमित्यर्थः, श्रीनमिजिनस्य षोडशशतानि, सहस्रमेकं षट्शताधिकमित्यर्थः, श्रीनेमिजिनस्य पञ्चदशशतानि, एकः सहस्रः शतपश्चकाधिक इत्यर्थः, श्रीपार्श्वजिनस्य चतुर्दशशतानि, सहस्रमेकं शतचतुष्टयाधिकमित्यर्थः, श्रीमहावीरजिनस्य च त्रयोदश शतानि, सहस्रमेकं शतत्रयाधिकमित्यर्थः २०॥ केवलि त्ति द्वारमेकविंशतितममिदानीमाह वीससहस्सा उसो १ वीसं बावीस अहव अजियस्स २। पन्नरस ३ चउदस ४ तेरस ५ वारस ६ एकारस ७ दसेव ८॥ ३५१ ॥ अद्धहम ९ सत्तेव य १० छस्सड्डा ११ छच्च १२ पंच सहा य १३ । पंचेव १४ अद्धपंचम १५ चउसहस्सा तिन्नि य सया य १६॥ ३५२॥ बत्तीससया अहवा बावीस सया व हुंति कुंथुस्स १७ । अट्ठावीसं १८ बावीस १९ तहय अट्ठारस सयाई २०॥३५३॥ सोलस २१ पनरस २२ दससय २३ सत्तेव सया हवंति वीरस्स २४ । एयं केवलिमाणं मणपजविमाणमिहि तु ॥ ३५४ ॥ 'वीसे त्यादिगाथाचतुष्कं, केवलिनां विंशतिसहस्रा ऋषभे-वृषभजिनस्य, विंशतिसहस्रा अजितजिनस्य, अथवा मतान्तरेण द्वाविंशतिसहस्रा अजितनाथस्य, श्रीसम्भवस्य पञ्चदशसहस्राः, श्रीअमिनन्दनस्य चतुर्दशसहस्राः श्रीसुमतिनाथस्य त्रयोदशसहस्राः श्रीपद्मप्रभस्य द्वादशसहस्राः श्रीसुपार्श्वस्य एकादशसहस्राः श्रीचन्द्रप्रभस्य दशैव सहस्राः श्रीसुविधिजिनस्य अर्धाष्टमाः सहस्राः, सप्तसहस्राः पञ्चशताधिका इत्यर्थः, श्रीशीतलजिनस्य सप्तसहस्राः श्रीश्रेयांसस्य षट् सहस्राः सार्धाः, सपश्चशता इत्यर्थः, श्रीवासुपूज्यस्य षट् सहस्राः श्रीविमलजिनस्य पश्च सहस्राः सार्धा:-सपञ्चशता इत्यर्थः, श्रीअनन्तजिनस्य पश्चैव सहस्राः, श्रीधर्मजिनस्य अर्धपञ्चमाः सहस्राः, चत्वारः सहस्राः सपञ्चशता इत्यर्थः, श्रीशान्तिनाथस्य चत्वारः सहस्राः (त्रीणि च शतानि) शतत्रयाधिकाः इत्यर्थः, श्रीकुन्थुजिनस्य द्वात्रिंशच्छतानि, सहस्रत्रयं शतद्वयाधिकमित्यर्थः, अथवा मतान्तरेण द्वाविंशतिशतानि, सहस्रद्वयं शतद्वयाधिकमित्यर्थः, श्रीअरजिनस्य अष्टाविंशतिशवानि, सहस्रद्वयं शताष्टकाधिकमित्यर्थः, श्रीमल्लिजिनस्य द्वाविंशतिशतानि, सहस्रद्वयं शतद्वयाधिकमित्यर्थः, श्रीमुनिसुव्रतस्य अष्टादशशतानि, सहस्रमेकमष्टशताधिकमित्यर्थः, श्रीनमिजिनस्य षोडशशतानि, सहस्रमेकं षभिः शतैरधिकमित्यर्थः, श्रीनेमिजिनस्य पञ्चदशशतानि, सहस्रमेकं पञ्चशताधिकमित्यर्थः, श्रीपार्श्वजिनस्य दशशतानि, सहसमित्यर्थः, श्रीवीरजिनस्य च सप्त शतानि, एतत्-पूर्वोक्तं यथाक्रमं सर्वतीर्थकता केवलिमानं, मनःपर्यवज्ञानिपरिमाणमिदानी ब्रूम इति शेषः ॥ २१॥ तदेवेदानीं 'मणपज्जवनाणि'त्ति द्वाविंशतितमद्वारेणाह बारससहस्स तिण्हं सय सड्डा सत्त १ पंच य २ दिवटुं३ । एगदस सड्ढछस्सय ४ दससहसा चउसया सडा ५॥३५५॥ दससहसा तिणि सया ६ नव दिवडसया य ७ अट्ठ सहसा य ८। पंचसय सत्तसहसा ९ सुविहिजिणे सीयले १० चेव ॥ ३५७ ॥ छसहस्स दोण्हमित्तो ११-१२ पंच सहस्साइं पंच य सयाइं१३। पंच सहस्सा१४चउरो सहस्स सयपंचअन्भहिया १५ ॥३५७॥ चउरो सहस्स १६ तिनि यतिण्णेव सया हवंति चालीसा १७ । सहसदुगं पंचसया इगवन्ना अरजिणिंदस्स १८॥ ३५८॥ सत्तरससया सपन्ना १९ पंचदससया य २० बारसय सहा २१ । सहसो २२ सय अद्धट्ठम २३ पंचेव सया उ वीरस्स २४ ॥ ३५९॥ 'बारसे'त्यादिगाथापञ्चक, त्रयाणामृषभाजितसम्भवनानां तीर्थकता द्वादश द्वादश मनःपर्यवज्ञानिनां सहस्राः, परमादिजिनस्य सार्धसप्तशताधिकाः, अजितजिनस्य पञ्चशताधिकाः, सम्भवजिनस्य सार्धशताधिकाः, तथा श्रीअमिनन्दनस्य मनःपर्यवज्ञानिनामेकादशसहस्राः
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy