________________
स्यार्यिकाणां पञ्चपञ्चाशत्सहस्राणि, श्रीमुनिसुव्रतस्यार्यिकाणां पञ्चाशत्सहस्राणि, श्रीनमेरार्यिकाणां एकचत्वारिंशत्सहस्राणि, श्रीनेमेरार्यिकाणां चत्वारिंशत्सहस्राणि, श्रीपार्श्वजिनस्यार्यिकाणामष्टात्रिंशत्सहस्राणि, श्रीमहावीरजिनस्यार्यिकाणां षट्त्रिंशत्सहस्राणि, चः समुच्चये, प्रागुक्तार्यिकाणां सर्वसङ्ख्यामीलने यद्भवति तदाह-चतुश्चत्वारिंशल्लक्षाः षट्चत्वारिंशत्सहस्रेश्चतुःशताधिकैः समग्रा:-पूर्णा आर्याषटकं च, एष आर्यिकाणां सङ्कहः सर्व इति १७॥ 'वेउब्विय'त्ति अष्टादशं द्वारमाह
वेउब्वियलद्धीणं वीससहस्सा सयच्छगन्भहिया १।वीससहस्सा चउसय २ इगुणीससहस्स अट्ठसया ३ ॥ ३४० ॥ अगुणीससहस्स ४ अट्ठार चउसया ५ सोलसहस्स अट्ठसयं ६ । सतिसय पनरस ७चउदस ८ तेरस ९ वारस सहस दसमे १०॥ ३४१ ॥ एक्कारस ११ दस १२ नव १३ अट्ठ १४ सत्त १५ छसहस १६ एगवन्नसया १७। सत्तसहस्स सतिसया १८ दोन्नि सहस्सा नव सयाई १९॥ ३४२॥ दुन्नि सहस्सा २० पंचसय सहस्स २१ पन्नरससयाई नेमिमि २२ । एक्कारस सय पासे २३ सयाई सत्तेव वीरजिणे २४ ॥ ३४३ ॥ 'वेउब्वियेत्यादि गाथाचतुष्कं, वैक्रियलब्धिमतां नानाविधवैक्रियरूपकरणशक्तानां मुनीनामाद्यजिनेन्द्रस्य विंशतिः सहस्राणि षट्शताभ्यधिकानि, श्रीअजितजिनस्य विंशतिसहस्राः सचतुःशता:-शतचतुष्टयाधिकाः, श्रीसम्भवजिनस्य एकोनविंशतिसहस्राः शताष्टकाधिकाः, श्रीअमिनन्दनस्य एकोनविंशतिः सहस्राणि, श्रीसुमतिजिनस्य चतुःशताधिका अष्टादश सहस्राः, श्रीपद्मप्रभस्य षोडश सहस्राणि अष्टोत्तरशताधिकानि, श्रीसुपार्श्वजिनस्य शतत्रयाधिकाः पञ्चदश सहस्राः, श्रीचन्द्रप्रभस्य चतुर्दशसहस्राः, श्रीसुविधेस्त्रयोदशसहस्राः, श्रीशीतलस्य द्वादशसहस्राः, श्रीश्रेयांसस्य एकादश सहस्राः, श्रीवासुपूज्यस्य दश सहस्राणि, श्रीविमलजिनस्य नव सहस्राणि, श्रीअनन्तजिनस्य अष्टौ सहस्राणि, श्रीधर्मजिनस्य सप्तसहस्राणि, श्रीशान्तिनाथस्य षट्सहस्राणि, श्रीकुन्थुजिनस्य एकपञ्चाशत् शतानि-पञ्च सहस्राण्येकशताधिकानीत्यर्थः, श्रीअरजिनस्य सप्तसहस्राणि त्रिभिः शतैरधिकानि, श्रीमल्लिजिनस्य द्वौ सहस्रौ नवशताधिकौ, श्रीमुनिसुव्रतस्य द्वौ सहस्रौ, श्रीनमिजिनस्य पञ्च सहस्राः, श्रीनेमिजिनस्य पञ्चदश शतानि, श्रीपार्श्वजिनस्यैकादश शतानि, श्रीवीरजिनस्य च शतानि सप्तैवेति १८॥ इदानीं 'वाइ'त्ति एकोनविंशं द्वारं विवरीषुराह
सङ्कुच्छसया दुवालस सहस्स १ वारस य चउसयभहिया २ । बारे ३ कारससहसा ४ दससहसा छसयपन्नासा ५॥ ३४४ ॥ छन्नउई ६ चुलसीई ७ छहत्तरी ८ सहि ९ अहवन्ना य १० । पन्नासाइ सयाणं ११ सयसीयालाहव बयाला १२॥ ३४५ ॥ छत्तीसा १३ बत्तीसा १४ अट्ठावीसा १५ सयाण चउव्वीसा १६ । बिसहस्स १७ सोलससया १८ चउद्दस १९ बारस २० दससयाई २१ ॥ ३४६ ॥ अट्ठसया २२ छच्च सया २३ चत्तारि सयाई २४ हुंति वीरम्मि । वाइमुणीण
पमाणं चउवीसाए जिणवराणं ॥ ३४७॥ 'सडे'यादि गाथाचतुष्कं, प्रथमजिनस्य वादियतीनां द्वादशसहस्राः सार्धषट्शताः, पञ्चाशदधिकैः षभिः शतैरधिका इत्यर्थः, श्रीअजितजिनस्य द्वादशसहस्राश्चतुःशताधिकाः श्रीसम्भवस्य द्वादशसहस्राः श्रीअमिनन्दनस्य एकादशसहस्राः श्रीसुमतिजिनस्य दशसहस्राः पञ्चाशदधिकषट्शताधिकाः, 'छन्नउई' इत्यादिगाथायामुत्तरार्धवर्ति शतानामिति पदं सर्वत्र सम्बध्यते, ततः श्रीपद्मप्रभस्य वादिनां षण्णवतिशतानां, कोऽर्थः १-नवसहस्राः षट्शतैरधिका इति, श्रीसुपार्श्वजिनस्य चतुरशीतिः शतानां, चतुर्भिः शतैरधिकानि अष्टौ सहस्राणीत्यर्थः, चन्द्रप्रभस्य षट्सप्ततिः शतानां, षभिः शतैरधिकानि सप्त सहस्राणीत्यर्थः श्रीसुविधेर्जिनस्य षष्टिः शतानां, षट् सहस्राणीत्यर्थः, श्रीशीतलजिनस्य अष्टपञ्चाशच्छतानां, पञ्च सहस्रा अष्टशताधिका इत्यर्थः, श्रीश्रेयांसस्य पञ्चाशत् शतानां, पञ्च सहस्राणीत्यर्थः, श्रीवासुपूज्यस्य सप्तचत्वारिंशच्छतानि, चत्वारः सहस्राः सप्तशताधिका इत्यर्थः, 'अहवा बायाल'त्ति अथवा मतान्तरेण श्रीवासुपूज्यस्य द्विचत्वारिंशच्छतानि, चत्वारः सहस्राः शतद्वयाधिका इत्यर्थः, श्रीविमलजिनस्य द्वात्रिंशच्छतानि, त्रीणि सहस्राणि शतद्वयाधिकानीत्यर्थः, श्रीअनन्तजिनस्य द्वात्रिंशच्छतानि, श्रीधर्मजिनस्य अष्टाविंशतिशतानि, सहस्रद्वयमष्टशताधिकमित्यर्थः, श्रीशान्तिनाथस्य शतानां चतुर्विशतिः, द्वे सहस्र शतचतुष्टयाधिके इत्यर्थः, श्रीकुन्थुजिनस्य द्वे सहस्रे, श्रीअरनाथस्य षोडश शतानि, षट्शताधिकं सहस्रमित्यर्थः, श्रीमल्लिजिनस्य चतुर्दशश. तानि, शतचतुष्टयाधिकं सहस्रमित्यर्थः, श्रीमुनिसुव्रतस्य द्वादश शतानि, सहस्रमेकं शतद्वयाधिकमित्यर्थः, श्रीनमिजिनस्य दश शतानि सह समित्यर्थः, श्रीनेमिजिनस्य अष्टौ शतानि, श्रीपार्श्वजिनस्य षट् शतानि, श्रीवीरजिनस्य चत्वारि शतानि भवन्ति इति वादिमुनीनां-वाद: समरेषु सुरासुरैरप्यजेयानां यतीनां प्रमाणं क्रमेण चतुर्विशतेर्जिनवराणामिति ॥ १९ ॥ इदानीं 'अवहित्ति विंशतितमं द्वारमाह
ओहिनाणिमुणीणं नउई १ चउनवइ २ छण्णवइसयाणि ३ । अट्ठानवइसयाई ४ एकारस ५ दस ६ नवसहस्सा ७॥ ३४८ ॥ असीई ८ चुलसी ९बहत्तरी १० सही ११ चउप्पण १२ अट्ठच
59