SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ८ अट्ठसीई य ९ ॥ ३२८ ॥ एकासीई १० छावत्तरी ११ य छावट्ठि १२ सन्तवन्ना १३ य । पन्ना १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७ ॥ ३२९ ॥ तेत्तीस १८ अट्ठवीसा १९ अट्ठारस २० चेव तह य सत्तरस २१ । एक्कारस २२ दस २३ एक्कारसेव २४ इय गणहरपमाणं ॥ ३३० ॥ 'चुलसी इत्यादि' गाथात्रयं, भगवत आदितीर्थकरस्य चतुरशीतिर्गणधराः, अजितस्वामिनः पञ्चनवतिः, शम्भवनाथस्य द्व्युत्तरं शतं, अभिनन्दनस्य षोडशोत्तरं शतं, सुमतिनाथस्य परिपूर्ण शतं, पद्मप्रभस्य सप्ताधिकं शतं, सुपार्श्वस्य पश्वनवतिः, चन्द्रप्रभस्य त्रिनवतिः, सुविधिस्वामिनोऽष्टाशीतिः, शीतलनाथस्य एकाशीतिः, श्रेयांसस्य षट्सप्ततिः, वासुपूज्यस्य षट्षष्टिः, विमलस्य सप्तपञ्चाशत्, अनन्तजितः पश्वाशत्, धर्मस्य त्रिचत्वारिंशत्, शान्तिनाथस्य षट्त्रिंशत्, कुन्थुनाथस्य पञ्चत्रिंशत्, अरजिनस्य त्रयस्त्रिंशत्, मल्लिस्वामिनोऽष्टाविंशतिः, मुनिसुव्रतस्याष्टादश, नमिनाथस्य सप्तदश, अरिष्ठनेमेरेकादश नेमिनाथस्याष्टादशेति केचिन्मन्यन्ते, पार्श्वनाथस्य दश, वर्धमानस्वामिनश्चैकादशैवेति, एतत् ऋषभादीनां चतुर्विंशतेस्तीर्थकृतां यथाक्रमं गणधराणां - मूलसूत्रकर्तॄणां प्रमाणं १५ ॥ इदानीं 'ि षोडशं द्वारमाह चुलसीइ सहस्सा १ एगलक्ख २ दो ३ तिन्नि ४ तिन्नि लक्खा य । वीसहिया ५ तीसहिया ६ तिन्निय ७ अड्डाइय ८ दु ९ एक्कं १० ॥ ३३१ ॥ चउरासीइ सहस्सा ११ बिसत्तरी १२ अट्टसहि १३ छावट्ठी १४ । चउसट्ठी १५ बासट्ठी १६ सट्ठी १७ पन्नास १८ चालीसा १९ ॥ ३३२ ॥ तीसा २० वीसा २१ अट्ठारसेव २२ सोलस २३ य चउद्दस सहस्सा २४ । एयं साहुपमाणं चवीसाए जिणवराणं ॥ ३३३ ॥ अट्ठावीसं लक्खा अडयालीसं तह सहस्साइं । सव्वेसिंपि जिणाणं जईण माणं विणिहिं ॥ ३३४ ॥ 'चुलसीई 'त्यादि गाथात्रयं, चतुरशीतिसहस्रा मुनीनामाद्यजिनस्य १, एकं लक्षं मुनीनामजितजिनस्य २, एवं मुनितीर्थकृतोः सर्वत्र सम्बन्धः करणीयः, द्वे लक्षे ३, तिस्रो लक्षाः ४, तिस्रो लक्षा विंशत्यधिकाः ५, तिस्रो लक्षात्रिंशदधिकाः ६, तिस्रो लक्षाः ७, द्वे सार्धे लक्षे ८, द्वे लक्षे ९, एकं लक्षं १०, चतुरशीतिसहस्राः ११, द्विसप्ततिसहस्राः १२, अष्टषष्टिसहस्राः १३, षट्षष्टिसहस्राः १४, चतुःषष्टिसहस्राः १५, द्विषष्टिसहस्राः १६, षष्टिसहस्राः १७, पञ्चाशत्सहस्राः १८, चत्वारिंशत्सहस्राः १९, त्रिंशत्सहस्राः २०, विंशतिसहस्राः २१, अष्टादशसहस्राः २२, षोडशसहस्राः २३, चतुर्दशसहस्राः २४, एतत्साधुप्रमाणं क्रमेण चतुर्विंशतेर्जिनवराणां ॥ एतेषां सर्वसङ्ख्यामीलने यद्भवति तदाह - 'अट्ठावीस 'मित्यादि, अष्टाविंशतिर्लक्षाणि अष्टचत्वारिंशच्च तथा सहस्राणि सर्वेषामपि जिनानां सम्बन्धिनां यतीनां मानं - परिमाणं विनिर्दिष्टं विनिश्चितं, एतच्च ये श्रीजिनेन्द्रैर्निजकरकमलेन दीक्षितास्तेषामेवैकत्र पिण्डितानां परिमाणं, न पुनर्गणधरादिभिरपि ये दीक्षितास्तेषामति बहुत्वादिति १६ ॥ इदानीं 'समणी' त्ति सप्तदशं द्वारमाह तिन्निय १ तिन्निय २ तिन्नि य ३ छ ४ पंच ५ चउरो ६ च ७ तिगे ८ क्के ९ का १० । लक्खा उस मोतुं तदुवरि सहस्साणिमा संखा ॥ ३३५ ॥ तीसा २ छत्तीसा ३ तीस ४ तीस ५ वीसा ६ य तीस ७ असीई ८ य । वीसा ९ दसमजिणिंदे लक्खोवरि अज्जिया छक्कं ॥ ३३६ ॥ लक्खो तिन्नि सहस्सा ११ लक्खो १२ लक्खो य अट्ठसय अहिओ १३ । बासट्ठी १४ पुण बासट्ठी १५ सहसा अहिया चउसएहिं ॥ ३३७ ॥ छसयाहिय इगसट्ठी १६ सट्ठी छसपाई १७ सट्ठी १८ पणपन्ना १९ । पन्ने २० गचत्त २१ चत्ता २२ अडतिस २३ छत्तीस सहसा य २४ ॥ ३३८ ॥ चोयालीसं लक्खा छायालसहस्स चउसयसमग्गा । अज्जाछकं एसो अज्जाणं संगहो सव्वो ॥ ३३९ ॥ 'तिन्नि' इत्यादि गाथापञ्चकं, त्रीणि १ त्रीणि २ त्रीणि ३ षट् ४ पश्च ५ चत्वारि ६ चत्वारि ७ त्रीणि ८ एकं ९ एक १० लक्षाण्येतानि, तत्र ऋषभजिनस्य त्रीण्येवार्यिकालक्षाणि, ततो वृषभं - आदिजिनं मुक्त्वा तदुपरि - पूर्वोद्दिष्टलक्षाणामुपरि क्रमेण यावन्त: सहस्राश्चन्ति तावत आह- 'तीसे' त्यादि, त्रिंशत् सहस्रा इति सर्वत्र योज्यम् २, षट्त्रिंशत् ३ त्रिंशत् ४ त्रिंशत् ५ विंशतिः ६ त्रिंशत् ७ अशीतिश्च ८ विंशतिः ९ दशमजिनेन्द्रस्य - शीतलस्य एकलक्षोपरि आर्यिकाषट्कमिति, अयं भावार्थ : – श्री ऋषभदेवस्य आर्यिकालक्षत्रयं जातं, अजितजिनस्यार्यिकालक्षत्रयं त्रिंशत्सहस्रैरधिकं, सम्भवजिनस्यार्यिकालक्षत्रयं षट्त्रिंशत्सहस्रैरधिकं, अभिनन्दनस्य साध्वीलक्षषट्कं त्रिंशत्सहस्रैरधिकं, सुमतिजिनस्यार्यिकालक्षपञ्चकं त्रिंशत्सहस्त्रैरधिकं, पद्मप्रभस्यार्यिकालक्षचतुष्टयं विंशतिसहस्रैरधिकं, सुपार्श्वजिनस्यार्यिकालक्षचतुष्टयं त्रिंशत्सहस्रैरधिकं, चन्द्रप्रभजिनस्य साध्वीलक्षत्रयं अशीतिसहस्रैरधिकं, सुविधिजिनस्यार्यिकालक्षमेकं विंशतिसहस्रैरघिकं, दशमजिनस्य श्रीशीतलस्य आर्यिकाणामेकं लक्षमार्थिकाषट्कं चेति इदानीं श्रेयांसादिजिनसाध्वीमानमाह - श्रेयांसजिनस्य साध्वीनामेकं लक्षं सहस्रत्रयाधिकं, श्रीवासुपूज्यस्य साध्वीनामेकं लक्षं, श्रीविमलजिनस्यार्यिकालक्षं शताष्टाधिकं, श्रीअनन्तजिनस्य द्विषष्टिसहस्राण्याfर्यकाणां श्रीधर्मजिनस्य पुनरार्यिकाणां द्विषष्टिसहस्राणि चतुर्भिः शतैरधिकानि, श्रीशान्तिजिनस्यार्यिकाणामेकषष्टिसहस्राणि षड्भिः शतैरधिकानि, श्रीकुन्थुनाथस्यार्यिकाणां षष्टिसहस्राणि षङ्गिः शतैरधिकानि, श्री अरनाथस्यार्यिकाणां षष्टिसहस्राणि श्रीमल्लिजिन 58
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy