SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ वर्धमानस्वामिनस्त्रिशला ॥ तथा आदितीर्थकृत ऋषभस्वामिनः पिता नामिः, अजितजिनस्य जितशत्रुः, सम्भवस्वामिनो जितारिः, अमिनन्दनस्य संवरः, सुमतिनाथस्य मेघः, पद्मप्रभस्य धरः, सुपार्श्वस्य प्रतिष्ठः, चन्द्रप्रभस्य महासेनः क्षत्रियो राजा, सुविधिस्वामिनः सुप्रीवः, शीतलस्य दृढरथः, श्रेयांसस्य विष्णुः, वासुपूज्यस्य वसुपूज्यः क्षत्रियः, विमलस्य कृतवर्मा, अनन्तजिनस्य सिंहसेनः, धर्मनाथस्य भान:, शांतिनाथस्य विश्वसेनः, कुन्थुनाथस्य शूरः, अरस्वामिनः सुदर्शनः, मल्लिजिनस्य कुम्भः, मुनिसुव्रतस्य समित्रः. नमिनाथस्य विजयः, अरिष्ठनेमेः समुद्रविजयः, पार्श्वनाथस्य राजा अश्वसेनः, वर्धवानस्वामिनश्च सिद्धार्थः क्षत्रिय इति ॥ इदानीं 'जिणजणणीजणयगईत्ति द्वादशं द्वारमाह अट्ठण्हं जणणीओ तित्थयराणं तु हुंति सिद्धाओ । अट्ठ य सणंकुमारे माहिंदे अट्ठ योद्धव्वा ॥ ३२५ ॥ नागेसुं उसहपिया सेसाणं सत्स हुंति ईसाणे । अट्ठ य सणंकुमारे माहिंदे अट्ट बो द्धव्वा ॥ ३२६ ॥ 'अटण्ह'मित्यादि गाथाद्वयं, अष्टानां तीर्थकृतामृषभादीनां चन्द्रप्रभान्तानां जनन्यो-मातरो भवन्ति सिद्धाः, तदनु सुविध्यादीनां शान्तिनाथर्पयन्तानामष्टौ जनन्यः सनत्कुमारे-तृतीयदेवलोके गताः, तथा कुन्थुप्रभृतीनां श्रीमहावीरान्तानामष्टी जनन्यो माहेन्द्रे-चतुर्थदेवलोके गता बोद्धव्या इति ॥ तथा नागेषु-नागकुमारेषु भवनपतिद्वितीयनिकायवर्तिषु सुरेषु श्रीऋषभनाथपिता-नामिनामा गत इति शेषः, तथा शेषाणामजितनाथप्रभृतीनां चन्द्रप्रभान्तानां सप्त पितरो भवन्ति गता ईशाने-द्वितीयदेवलोके, सैद्धान्तिकास्तु श्रीअजितस्वामिपितुर्जितशत्रोर्मुक्तिगमनमाचक्षते, अनुयोगद्वारादौ तथैव भणनात्, श्रीहेमसूरिः-"राजा बाहुबलिः सूर्ययशाः सोमयशा अपि । अन्येऽप्यनेकशः केऽपि, शिवं केऽपि दिवं ययुः ॥१॥ जितशत्रुः शिवं प्राप, सुमित्रनिदिवं गतः" । इति योगशास्त्रे त्रिषष्टिचरितेऽपि च, तथा सुविधिप्रभृतीनां शान्तिनाथान्तानामष्टौ च पितरः सनत्कुमारे-तृतीयदेवलोके, तथा कुन्थुप्रमुखाणां श्रीमहावीरान्तानामष्टौ पितरो माहेन्द्रे-चतुर्थदेवलोके गता बोद्धव्याः । इदानीं 'उकिटजहन्नेहिं संखा विहरंत तित्थनाहाणं ।' इति त्रयोदशं द्वारं गाथापूर्वार्धन तथा 'जम्मसमएवि संखा उकिट्ठजहनिया तेसिं।' इति चतुर्दशं च द्वारं गाथोत्तरार्धेन विवृणोति__ सत्तरिसयमुक्कोसं जहन्न वीसा य दस य विहरंति । जम्मं पइ उकोसं वीसं दस हुँति उ ज हना ॥ ३२७॥ 'सत्तरी'त्यादि, सप्तत्यधिकं शतमुत्कृष्टत एककालं तीर्थकृतां समयक्षेत्रे विहरति, पञ्चसु भरतेष्वेकैकस्य भावादैरवतेष्वपि पञ्चसु तावतां भावात् , पश्चसु च महाविदेहेषु प्रत्येकं द्वात्रिंशता विजयैः कलितेषु तीर्थकृतां षष्ट्यधिकशतस्य सद्भावादेतत्सङ्ख्यायाः सम्भव इति । तथा जघन्यतो विंशतिस्तीर्थकृत एककालं विहरमाणाः प्राप्यन्ते, तथाहि-जम्बूद्वीपस्य पूर्व विदेहे शीतामहानद्या द्विभागीकृते दक्षिणोत्तरदिग्विभागेनैकैकस्य सद्भावात् द्वौ, अपरविदेहेऽपि शीतोदया महानद्या द्विभागीकृते तथैव द्वौ जिनेन्द्रौ, मिलिताश्चत्वारः, एवमपरद्वीपद्वयसम्बन्धिमहाविदेहचतुष्टयेऽपि चत्वारश्चत्वार इति पञ्च चतुष्का विंशतिः, भरतैरावतयोस्तु एकान्तसुषमादावभाव एव, अन्ये तु सूरयो दशैव नघन्यतो विहरन्तीति मन्यन्ते, पञ्चानां महाविदेहाना पूर्वापरविदेहयोः प्रत्येकमेकैकस्य विहरतः सद्भावेन दशानामेव तीर्थकृतां प्राप्यमाणत्वात् , तथा जन्म प्रति-जन्माश्रित्योत्कृष्टत एककालं विहरमाणजिन(ना)विंशतिस्तीर्थकृतो भवन्ति, यतः सर्वेषामपि तीर्थकृतामर्धरात्रसमय एव जन्म, ततो महाविदेहेषु तीर्थजन्मसमये भरतैरावतक्षेत्रेषु दिवससद्भावेन तीर्थकृदुत्पत्त्यभावादेतावन्त एव प्राप्यन्ते, ननु महाविदेहक्षेत्रवर्तिषु विजयेषु चतुर्योऽधिकानामपि तीर्थकृतामुत्पत्तेः सम्भवात् कथमुत्कृष्टपदे विंशतिरेवेति ?, उच्यते, इह हि मेरौ पण्डकवने चूलिकायाश्चतसृषु पूर्वादिषु दिक्षु प्रत्येकं चतुर्योजनप्रमाणबाहल्याः पञ्चयोजनशतप्रमाणायामा मध्यभागेऽर्धतृतीययोजनशतप्रमाणविष्कम्भा अर्धचन्द्रसंस्थानसंस्थिताः सर्वश्वेतसुवर्णमय्यश्चतस्रोऽमिषेकशिलाः, तत्र चूलिकायाः पूर्वदिग्भाविन्यां पाण्डुकम्बलशिलायां द्वे तीर्थकरामिषेकसिंहासने, तद्यथा-एकमुत्तरत एकं दक्षिणतः, तत्र ये शीताया महानद्या उत्तरतः कच्छादिषु विजयेषु तीर्थकरा उपजायन्ते ते उत्तराहे सिंहासने सुरेन्द्ररमिषिच्यन्ते, ये पुनः शीताया महानद्या दक्षिणतो मङ्गलावतीप्रमुखेषु विजयेषु उत्पद्यन्ते ते दाक्षिणात्ये सिंहासने सुरेन्द्ररमिषिच्यन्ते, तथा चूलिकायाः पश्चिमदिग्भाविन्यां रक्तकम्बलशिलायां वे सिंहासने, तद्यथा-एकमुत्तरतः एकं दक्षिणतः, तत्र शीतोदाया महानद्या उत्तरतो गन्धिलावतीप्रमुखेषु विजयेषु ये तीर्थकरा उत्पद्यन्ते ते उत्तराहे सिंहासने सुरेन्द्ररमिषिच्यन्ते, ये पुनः शीतोदाया महानद्या दक्षिणतः पद्मादिषु विजयेषु तीर्थङ्करा उत्पद्यन्ते ते दक्षिणाये सिंहासने सुरेन्द्ररभिषिच्यन्ते, तथा चूलिकाया दक्षिणदिग्भाविन्यामतिपाण्डुकम्बलशिलायां ये भरतक्षेत्रसमुद्भवास्तीर्थकरास्तेऽमिषिच्यन्ते, उत्तरदिग्भाविन्यां त्वतिरक्तकम्बलशिलायामैरवतक्षेत्रसमुद्भवास्तीर्थकरास्तेऽमिषिच्यन्ते, सिंहासनानि च सर्वरत्नमयानि सर्वाण्यपि प्रत्येक पञ्चधनुःशतायामविष्कम्भान्यर्धतृतीयधनुःशतबाहल्यानीति, ततः समधिकामिषेकसिंहासनाभावादेव विदेहेषु चतुर्योऽधिकानां तीर्थकतामेककालमुत्पत्त्यभाव इति, जघन्यतः पुनर्दशैव एककालमुत्पद्यन्ते, पञ्चसु भरतेषु पञ्चसु चैरवतेषु प्रत्येकमेकैकस्य सद्भावात् , भरते रखतेषु हि जिनजन्मसमये महाविदेहेषु दिनसद्भावानाधिकानामुत्पत्तिरिति १४ ॥ इदानीं 'जिणगणहर'त्ति पञ्चदशमं द्वारमाह चुलसीइ १ पंचनवई २ बिउत्तरं ३ सोलसोत्तरं ४ च सयं ५ । सत्तुत्तर ६ पणनई ७ तेणउई 57
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy