________________
वैयावृत्त्यं ९ सङ्घवैयावृत्त्यं १० चेति, एकैकं त्रयोदशविधं तद्यथा - भक्तदानं १ पानदानं २ आसनप्रदानं ३ उपकरणप्रत्युपेक्षा ४ पादप्रमार्जनं ५ वस्त्रप्रदानं ६ भेषजप्रदानं ७ अध्वनि साहाय्यं ८ दुष्टस्तेनादिभ्यो रक्षणं ९ वसतौ प्रविशतां दण्डकग्रहणं १० कायिकामात्रकसमर्पणं ११ संज्ञामात्रकसमर्पणं १२ लेष्ममात्रकसमर्पणं १३ चेति एतेषु वैयावृत्त्यभेदेषु यथाशक्ति निरन्तरं प्रवृत्तिर्वैयावृत्त्यसमाधिः, १७ अथ तृतीयगाथाव्याख्या - अपूर्वस्य ज्ञानस्य निरन्तरं ग्रहणमपूर्वज्ञानग्रहणं अष्टादशं तीर्थकर नामकर्मबन्धकारणं, १८ एकोनविंशतितमं श्रुतभक्तिः - श्रुतविषयं बहुमानं १९ विंशतितमं प्रवचनप्रभावना यथाशक्ति प्रवचनार्थोपदेशदानादिरूपा, एमिरनन्तरोक्तैः कारणैस्तीर्थकरत्वं लभते जीवः ३१० - ३१२ ॥ एतानि च कानिचित्सूत्रकार एव स्वयं व्याचष्टे
संघो पवयणमित्थं गुरुणो धम्मोवएसयाईया । सुत्तत्थोभयधारी बहुस्सुया होंति विक्खाया ॥ ३१३ ॥ जाईसुयपरियाए पहुच थेरो तिहा जहकमेणं । सट्ठीवरिसो समवायधारओ वीसवरिसोय ॥ ३९४ ॥ भत्ती पूया वन्नप्पयडण वज्जणमवन्नवायस्स । आसायणपरिहारो अरिहंताईण वच्छल्लं ॥ ३१५ ॥ नाणुवओगोऽभिक्खं दंसणसुद्धी य विणयसुद्धी य । आवस्सयजोएसुं सीलवएस निरइयारो ॥ ३१६ ॥ संवेगभावणा झाणसेवणं खणलवाइकालेसु । तवकरणं जइजणसंविभागकरणे जहसमाही ॥ ३१७ ॥ वेयावचं दसहा गुरुमाईणं समाहिजणणं च । किरियादारेण तहा अपुव्वनाणस्स गहणं तु ॥ ३९८ ॥ आगमबहुमाणो थिय तित्थस्स पभावणं जहासत्ती । एहिं कारणेहिं तित्थयरत्तं समज्जिणइ ॥ ३१९ ॥
'संघो' इत्यादिगाथासप्तकं व्याख्यातार्थ चैतत्, नवरं स्थविरबहुश्रुतयोर्गाथानुलोम्याद्व्यतिक्रमनिर्देशः, तथा तृतीयगाथायां भक्तिःआन्तरो बहुमानविशेषः पूजा-यथौचित्येन पुष्पफलाहारवस्त्रादिमिरुपचारः वर्णस्य - श्लाघायाः प्रकटनं - प्रकाशनं वर्जनं परिहरणमवर्णवादस्य—अश्लाघायाः आशातनाया - वक्ष्यमाणायाः परिहारो - वर्जनं एतदईदादीनां सप्तानां वात्सल्यं - वत्सलता । तथा षष्ठगाथायां वैयावृत्त्यं - भक्तदानादिक्रियाद्वारेण गुर्वादीनां समाधिजननं तत् पुनर्दशधा पूर्वोक्तप्रकारेण यद्वा शीलव्रताभ्यामेकमेव कारणं कृत्वा समाधिरिति विभिनमेव तीर्थकरगोत्रबन्धस्थानं विवक्ष्यते, ततो वैयावृत्त्यं दशधा गुर्वादीनां तथा तेषामेव क्रियाद्वारेण समाधिजननं - कार्यकरणद्वारेण स्वस्थतापादनमिति । तथा ऋषभनाथेन वर्धमानस्वामिना च पूर्वभवे एतान्यनन्तरोक्तानि सर्वाण्यपि स्थानान्या सेवितानि, मध्यमेषु पुनरजितस्वामिप्रभृतिषु द्वाविंशतितीर्थकरेषु केनाप्येकं केनापि द्वे केनापि त्रीणि यावत् केनापि सर्वाण्यपि स्थानानि स्पृष्टानीति । एतच तीर्थकरनामकर्ममनुष्यगतावेव वर्तमानः पुरुषः स्त्री नपुंसको वा तीर्थकरभवात् पृष्ठतस्तृतीयभवं प्राप्य बद्धुमारभते । आह-तीर्थकरनामकर्मणो जघन्यत उत्कर्षतश्च बन्धस्थितिरन्तःसागरोपमकोटाकोटीप्रमाणा ततः कथमुक्तं तीर्थकरभवात्प्राक् तृतीयभवे बद्ध्यत इति, नैष दोष:, द्विविधो हि बन्धो-निकाचनारूपोऽनिकाचनारूपश्च तत्र अनिकाचनारूपस्तृतीयभवात्प्राक्तरामपि भवति, जघन्यतोऽप्यन्तः सागरोपमकोकोटीप्रमाणत्वात्, निकाचनारूपस्तु तीर्थकरभवात्प्राक्तृतीयभव एव "तश्व कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भयवओ तइयभवोसक्कइत्ताणं ॥ १ ॥ [ तश्च कथं वेद्यते ? अग्लान्या धर्मदेशनादिभिः बध्यते तत्तु भगवतस्तृतीयभवमवष्वष्क्य ॥ १॥ ]ति वचनप्रामाण्यात्, तत्र निकाचितमवन्ध्यफलं, इतरत्तु उभयथापि, निकाचनारूपश्च बन्धस्तृतीयभवादारभ्य तावत्प्रवर्तते यावत्तीर्थकरभवे अपूर्वकरणस्य सङ्ख्येया भागाः, तत ऊर्द्ध व्यवच्छेदः, केवलज्ञानोत्पत्तौ च अष्टमहाप्रातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे सति सदेवमनुजासुरायां परिषदि ग्लानि परिहारेण धर्मदेशनया - श्रुतचारित्ररूपधर्मप्ररूपणलक्षणया चतुस्त्रिंशता देहसौगन्ध्यादि मिरतिशयैः पञ्चत्रिंशता बुद्धवचनातिशेषैश्च तद्वेद्यत इति ३१३ - ३१९ ॥ अथ 'जिणजणणीजणयनाम' स्त्येकादशं द्वारमाह
मरुदेवी १ विजय २ सेणा ३ सिद्धत्था ४ मंगला ५ सुसीमा ६ य । पुहवी ७ लक्खण ८ रामा ९ नंदा १० विण्ह ११ जया १२ सामा १३ ॥ ३२० ॥ सुजसा १४ सुव्वय १५ अइरा १६ सिरी १७ देवी १८ पभावई य १९ । पउमावई १२० वप्पा २१ सिव २२ वम्मा २३ तिसला २४ इय ॥ ३२९ ॥ नाभी १ जियसत्तू या २, जियारि ३ संवरे ४ इय । मेहे ५ घरे ६ पइट्ठे ७ य, महसेणे य खत्तिए ८ ॥ ३२२ ॥ सुग्गीवे ९ दढरहे १० विण्डू ११, वसुपुज्जे १२ य खत्तिए । कयवम्मा १३ सीहसेणे १४ य, भाणू १५ विस्ससेणे इय १६ ॥ ३२३ ॥ सूरे १७ सुदंसणे १८ कुंभे १९, सुमित्त २० विजए २१ समुद्दविजए २२ य । राया य अस्ससेणे २३ सिद्धत्थे २४ ऽविय खत्तिए
॥ ३२४ ॥
'मरुदेवी 'त्यादिगाथापश्ञ्चकं, भगवत ऋषभस्वामिनो माता मरुदेवी, अजितस्वामिनो विजया, सम्भवनाथस्य सेना, अभिनन्दनस्य सिद्धार्था, सुमतिनाथस्य मङ्गला, पद्मप्रभस्य सुसीमा, सुपार्श्वस्य पृथिवी, चन्द्रप्रभस्य लक्षणा, सुविधिस्वामिनो रामा, शीतलस्य नन्दा, श्रेयांसस्य विष्णुः, वासुपूज्यस्य जया, विमलस्य श्वामा, अनन्तजिनस्य सुयशाः, धर्मनाथस्य सुव्रता, शान्तिनाथस्य अचिरा, कुन्धुनाथस्य श्रीः, अरस्वामिनो देवी, मल्लिजिनस्य प्रभावती, मुनिसुव्रतस्य पद्मावती, नमिनाथस्य वप्रा, अरिष्ठनेमेः शिवा, पार्श्वनाथस्य वामा,
56