________________
पूर्वोक्तानां तीर्थकृतां सर्वसङ्ख्या माह – निस्तीर्णभवसमुद्रान् विंशत्यधिकशतसङ्खयजिनान् सुखसमृद्धान् श्रीचन्द्रमुनिपतिनतान् शाश्वतसुखदायकान्नमत भव्यलोका यूयमिति, अत्र च चतुर्विंशतिः पञ्चभिर्गुणिता विंशत्युत्तरं शतं भवतीति २९६ - ३०३ ॥ इदानीं 'उसभाइजिनिँदाणं आइमगणहर' त्त्यष्टमं द्वारं विवरीतुमाह
सिरिउसभसेण १ पहु सीहसेण २ चारु ३ वज्जनाहक्खा ४ । चमरो ५ पज्जोय ६ वियन्भ ७ दि
हवो ८ वराहो ९ य ॥ ३०४ ॥ पहुनंद १० कोत्युहावि ११ य सुभोम १२ मंदर १३ जसा १४ अरिट्ठो १५ य । चक्काउह १६ संबा १७ कुंभ १८ भिसय १९ मल्ली २० य सुंभो २१ य ॥ ३०५ ॥ वरदत्त २२ अज्जदिन्ना २३ तहिंदभूई २४ गणहरा पढमा । सिस्सा रिसहाईणं हरंतु पावाई पणयाणं ॥ ३०६ ॥
'सिरी'त्यादि गाथात्रयं, श्रीऋषभसेनप्रभुसिंहसेनचारुवज्रनाभाख्याः चमरः प्रद्योतविदर्भदत्तप्रभवः वराहश्च प्रभुनन्दकौस्तुभावपि सुभौममन्दरयशसः अरिष्टश्च चक्रायुधशम्बौ कुम्भः भिषजो मलिश्च सुम्भश्च वरदत्त आर्यदत्तः तथा इन्द्रभूतिश्च, एते प्रथमगणधराः शिष्या वृषभादीनां जिनानां हरन्तु दुरितानि प्रणतानाम् ३०४- ३०६ ॥ इदानीं 'प वित्तिणि'त्ति नवमं द्वारमाह
भी १ फग्गु २ सामा ३ अजिया ४ तह कासवी ५ रई ६ सोमा ७ । सुमणा ८ वारुणि ९ सुजसा १० धारिणी ११ धरिणी १२ घरा १३ पउमा १४ ॥ ३०७ ॥ अज्जा सिवा १५ सुहा १६ दामणी १७ रक्खी १८ य बंधुमइनामा १९ । पुप्फबई २० अनिला २१ जक्खदिन्न २२ तह पुष्कचूला २३ य ॥ ३०८ ॥ चंदण २४ सहिया उ पवत्तिणीओं चउवीसजिणवरिंदाणं । दुरियाई हरंतु सया सत्ताणं भत्तिजुत्ताणं ॥ ३०९ ॥
'बं भी 'त्यादि गाथात्रयं, तत्र ब्राह्मी फल्गुः- श्यामा अजिता तथा काश्यपी रतिः सोमा सुमना वारुणी सुयशा धारिणी धरिणी धरा पद्मा इति प्रथमगाथायां चतुर्दश प्रवर्तिनीनामानि । आर्या शिवा शुभा दामिनी च रक्षी च बन्धुमतीनामा पुष्पवती अनिला यक्षदत्ता तथा पुष्पचूला, 'चः समुच्चये सर्वत्र चन्दनासहिता तु एताः प्रवर्तिन्यश्चतुर्विंशतेर्जिनेन्द्राणां दुरितानि हरन्तु सदा सत्वानां भक्तियुक्तानां ३०७-३०९ ॥ इदानीं 'अरिहंतज्जणठाण'त्ति दशमं द्वारं विवरीतुमाह
अरिहंत १ सिंद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सी ७ य । वच्छल्लया य एसिं अभिक्खनाणोवओगो ८ य ॥ ३१० ॥ दंसण ९ विणए १० आवस्सए य ११ सीलव्वए १२-१३ निरइयारो । खणलव १४ तव १५ चियाए १६ वेयावचे समाही १७ य ॥ ३११ ॥ अप्पुव्वनाणगहणे १८ सुयभत्ती १९ पवयणे पभावण्या २० । एएहिं कारणेहिं तित्थरत्तं लहइ जीवो ॥३१२॥ 'अरिहंते'त्यादि गाथादशकं, अत्र प्रथमगाथायां अष्टौ कारणान्युक्तानि द्वितीयगाथायां नव तृतीयगाथयां त्रीणि, तत्र प्रथमगाथाव्याख्या— अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामईन्तीत्यर्हन्त : - तीर्थकराः १ अपगतसकलकर्माशाः परमसुखिन एकान्तकृतकृत्याः सिद्धाः २ प्रवचनं - द्वादशाङ्गं तदुपयोगानन्यत्वात्सङ्घो वा प्रवचनं ३ गृणन्ति यथावस्थितं शास्त्रार्थमिति गुरवो - धर्मोपदेशादिदातारः ४ स्थविरा जातिश्रुतपर्यायभेदभिन्नाः, तत्र जातिस्थविरा: षष्टिवर्ष प्रमाणाः श्रुतस्थविरा: समवायाङ्गधारिणः पर्यायस्थविरा विंशतिवर्षव्रतपर्यायाः ५ बहु - प्रभूतं श्रुतं येषां ते बहुश्रुताः, तच्च बहुश्रुतत्वमापेक्षिकं प्रतिपत्तव्यं श्रुतं च त्रिधा - सूत्रतोऽर्थत उभयतश्च तत्र सूत्रधरेभ्योऽर्थधराः प्रधानाः तेभ्योऽप्युभयधराः प्रधाना इति ६ विचित्रमनशना दिभेदभिन्नं तपो विद्यते येषां ते तपखिनः - सामान्यसाधवः ७ अर्हन्तश्च सिद्धाश्च प्रवचनं च गुरवश्च स्थविराश्च बहुश्रुताश्च तपस्विनश्च अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपखिनः, सूत्रे च 'बहुस्सुए' इत्यत्र एकार: प्राकृतत्वादलाक्षणिकः, तेषु, 'एसिं'ति प्राकृतत्वात्सप्तम्यर्थे षष्ठी, तत एतेषु सप्तसु स्थानेषु वत्सलभावो वत्सलता - अनुरागः यथावस्थितगुणोत्कीर्तनं तदनुरूपोपचार लक्षणा तीर्थकरनामकर्मबन्धकारणमिति शेषः, तथा अभीक्ष्णं-अनवरतं ज्ञानोपयोगो-ज्ञाने व्याप्रियमाणता, इदमष्टमं कारणं ८ । अथ द्वितीयगाथाव्याख्या - दर्शनं - सम्यक्त्वं विनयो - ज्ञानादिविनयः, स च प्रागेवोक्तो वक्ष्यमाणो वा, दर्शनं च विनयश्च दर्शनविनथं समाहारद्वन्द्वः तस्मिन् ९-१० आवश्यकं - अवश्यकर्तव्यं प्रतिक्रमणादि तस्मिन् ११ शीलानि च व्रतानि च शीलव्रतं, अत्रापि समाहारद्वन्द्वः तस्मिन्, तत्र शीलानि - उत्तरगुणाः व्रतानि - मूलगुणाः तेषु निरतीचारः सन् तीर्थकरनामकर्म बनातीति क्रियायोगः, १२-१३ एतावता पश्च कारणान्युक्तानि, तथा क्षणलवे तपसि त्यागे वैयावृत्त्ये च समाधिस्तीर्थकरनामकर्मबन्धकारणं, तत्र क्षणलवग्रहणमशेषकाल बिशेषोपलक्षणं, क्षणलवादिषु कालविशेषेषु निरन्तरं संवेगभावनातो ध्यानासेवनतश्च समाधिः क्षणलवसमाधिः १४ तथा तपसि - बाह्याभ्यन्तरभेदभिन्ने यथाशक्ति निरन्तरं प्रवृत्तिस्तपः समाधिः १५ त्यागो द्विधा - द्रव्यत्यागो भावत्यागश्च द्रव्यत्यागो नाम आहारोपधिशय्यादीनामप्रायोग्याणां परित्यागः प्रायोग्याणां च यतिजनेभ्यो दानं, भावत्यागः क्रोधादीनां विवेको ज्ञानादीनां च यतिजनेभ्यो वितरणं, एतस्मिन् द्विविधेऽपि त्यागे सूत्रानतिक्रमेण यथाशक्ति निरन्तरं प्रवृत्तिस्त्यागसमाधिः १६ वैयावृत्त्यं दशविधं, तद्यथा - आचार्यवैयावृत्त्यं १ उपाध्याय वैयावृत्त्यं २ स्थविरवैयावृत्त्यं ३ तपस्विवैयावृत्त्यं ४ ग्लानवैयावृत्त्यं ५ शैक्षकवैयावृत्त्यं ६ साधर्मिकवैयावृत्त्यं ७ कुलवैयावृत्त्यं ८ गण
55