________________
विगइगयाइं च पंचेव ॥ २३२ ॥ एग एगस्सुवरि तिन्नोवरि बीयगं च जं पक्कं । तुप्पेणं तेणं चिय तयं गुलहाणियापभिई ॥ २३३ ॥ चउत्थं जलेण सिद्धा लप्पसिया पंचमं तु पूयलिया। चोप्पडियतावियाए परिपकं तीस मीलिएसु ॥२३४ ॥ आवस्सयचुण्णीए परिभणियं एत्थ वणियं
कहियं । कहियव्वं कुसलाणं पउंजियव्वं तु कारणिए ॥ २३५॥ 'दव्वहये'त्यादि, कलमशालितन्दुलादिमिः हता-भिन्ना निर्वाकृिता सती विकृतिः पुनः क्षीरादिका विकृतिगतमित्युच्यते तेन कारणेन तन्दुलादिहतं क्षीरादिक द्रव्यमेव भवति न तु विकृतिः, अत एव निर्विकृतिकप्रत्याख्यानवतामपि केषाश्चित् त्यक्तमपि किमपि तत् कल्पत एव, तथा पाकभाजनात् सुकुमारिकादौ उद्धृते सति पश्चात् उद्धरितं यत् घृतादि तस्मिन् चुल्लीमस्तकस्थेऽग्निसंयोगात्तप्ते प्रक्षिप्तं यत्कणिकादि द्रव्यं तदिदमुत्कृष्टद्रव्यमेव, कोऽर्थः?-विकृतिगतमेव भवति, न तु विकृतिरित्यन्ये वदन्ति, गीतार्थाभिप्रायस्तु चुल्लीमस्तकादुत्तारिते शीतले च जाते घृतादौ यदि कणिक्कादि प्रक्षिप्यते तदैव तथाविधपाकाभावात् विकृतिगतं, अन्यथा तु परिपकत्वा
माभिरित्थं तावद्व्याख्याता सुधिया तु यथाबोधमन्यथाऽपि व्याख्यया ॥२२५।। इदानीं कस्यां विकृतौ कानि किंनामकानि कियन्ति विकृतिगतानि भवन्तीत्याह-'अह पेया' इत्यादि, अथ-अनन्तरं दुग्धे पञ्चैव चशब्दस्यावधारणार्थत्वाद्विकृतिगतानि भवन्ति, विकृतौ-क्षीरादौ गतानि-स्थितानि विकृतिगतानि-विकृत्याश्रितानि, न विकृतिरित्यर्थः, कानि तानीत्याह-पेया-दुग्धकाजिकमित्यर्थः, तथा दुग्धाट्टी दुग्धावलेहिका दुग्धसाटिका च क्षीरसहिता इति-ौरेय्या-पायसेन सहितानि पूर्वोक्तानि चत्वारि, पञ्चमी च झरेयीत्यर्थः, एतानि क्षीरे पश्च विकृतिगतानीति ।। २२६ ॥ एतेषु स्वयमेव कानिचिद्विवृगोति-अंबिले'त्यादि, अंबिलेन युक्ते दुग्धे दुग्धाटी-किलाटिकेत्यर्थः, अन्ये तु बलहिकामाहुः, तथा द्राक्षामिश्रे दुग्धे राद्धे पयःसाटी, पयो-दुग्धं सटति-गच्छतीति व्युत्पत्तेः, तथा तण्डुलचूर्णकसिद्धे दुग्धे अवलेहिका ॥ २२७ ।। दधिविकृतिगतान्याह-दहिए'त्यादि, दनि-दधिविषये विकृतिगतानि पञ्च, घोलवटकानि-घोलयुक्तवटकानि, तथा घोलो-वस्त्रगालितं दधि, तथा शिखरिणी-करमथितखण्डयुक्तदधिनिष्पन्ना, तथा करम्बको-दधियुक्तकूरनिष्पन्नः, तथा लवणकणयुक्तं दधि च मथितं राजिकाखाटकमित्यर्थः, तच्च संगरिकादिकेऽपतितेऽपि विकृतिगतं भवति, संगरिकापुंस्फलशकलादौ पतिते पुनर्भवत्येव ॥२२८॥ घृतविकृतिगतान्याह-'पक्कघय'मित्यादि, औषधैः पकं घृतं सिद्धार्थकादि, तथा घृतकिट्टिका-घृतमलं, तथा घृतपक्कौषधोपरि तरिकारूपं यत्सर्पिस्तदपि विकृतिगतं, तथा निर्भजनं-पक्कान्नोत्तीर्ण दग्धघृतमित्यर्थः, तथा विस्यन्दनं-दधितरिकाकणिक्कानिष्पन्नद्रव्यविशेषः सपादलक्षदेशप्रसिद्धं, घृतविकृतिगतान्येतानि पञ्चापीत्यर्थः ।। २२९ ॥ तैलविकृतिगतान्याह-तिलमल्ली'त्यादि, तैलमलिका १ तथा तिलकुट्टिः २ तथा दग्धं तैलं-निर्भजनमित्यर्थः, तथा तैलपक्कौषधोपरिभागे यदुद्धरितं, तथा लाक्षादिद्रव्यपकं च तैलं, एतानि तैलविकृतौ पञ्च विकृतिगतानि ॥ २३० ॥ गुडविकृतिगतान्याह-'अद्धे'त्यादि, अर्धकथितेक्षुरसः तथा गुडपानीयं तथा शर्करा तथा खण्डं तथा पाकगुडो येन खज्जकादि लिप्यते, गुडविकृतौ विकृतिगतानि एतानि पञ्चैव ॥ २३१ ॥ पक्काने विकृतिगतान्याह-एग'मित्यादि, एकं विकृति पच्यते, कोऽभिप्रायः ?-प्रक्षिप्तघृतादिके तापके एकेनैव पूपकेन सकले पूरिते द्वितीयपूपकादिस्तत्र क्षिप्तो विकृतिगतमेव भवति, यदवाचि"जेणेगेणं तवओ पूरिजइ पूयगेण तब्बीओ। अखवियनेहो पच्चइ जइ सो नय होइ तबिगई ॥१॥" [येनैकेन तापिका पूर्यते पूपेन तत्राक्षिप्ते स्नेहे द्वितीयः पच्यते यदि स न भवति तद्विकृतिः ॥१॥] द्वितीयं विकृतिगतं, त्रयाणां घाणानामुपरि अप्रक्षिप्तापरघृतं यत्तेनैव 'तुप्पेण'त्ति घृतेन पक, तृतीयं गुडधानिकाप्रभृति ॥२३२॥ तथा "चउत्थ"मित्यादि, चतुर्थ समुत्सारिते सुकुमारिकौदा पश्चादुद्धरितघृतादिखरण्टितायां तापिकायां जलेन सिद्धा लपनश्रीः, पञ्चमं पुनः स्नेह दिग्धतापिकायां परिपक्का पूपिका, एवं च षड़विकृतिसम्बन्धीनि पञ्च पञ्च विकृतिगतानि मिलितानि त्रिंशद्भवन्तीति ॥ २३३ ॥ इह च विकृतिगतानां स्वरूपं नाऽऽचार्येण स्वमनीषिकयाऽभिदधे, किन्तु सिद्धान्ताभिहितमेव, यदाह-'आवस्सयेत्यादि, आवश्यकचूर्णौ परिभणितं 'अत्र' ग्रन्थे 'वर्णितं' सामान्यद्वारेण 'कथितं' विशेषद्वारेणास्माभिः, एतच्च कथयितव्यं 'कुशलानां' बुद्धिमतां प्रयोक्तव्यं च कारणिके-कारणिकविषये ॥२३४॥ अयमभिप्रायः यद्यपि क्षैरेयीप्रमुखाणि साक्षाद्विकृतयो न भवन्ति, किन्तु विकृतिगतान्येव, निर्विकृतिकानामपि कल्पन्ते, तथापि उत्कृष्टानि एतानि द्रव्याणि भक्ष्यमाणान्यवश्यं मनोविकारमानयन्ति शान्तानामपि, न च कृतनिर्विकृतिकानामेतेषु भक्ष्यमाणेषु उत्कृष्टा निर्जराः सम्पद्यन्ते, तस्मादेतानि न गृह्यन्ते इति, यस्तु विविधतपःकरणक्षामकुक्षिरनुष्ठानं स्वाध्यायाध्ययनादिकं कर्तुं न शक्नोति स विकृतिगतान्युत्कृष्टान्यपि द्रव्याणि भुते न कश्चिद्दोषः, कर्मनिर्जराऽपि तस्य महती भवति, यदाहुः-"नवरं इह परिभोगो निव्विइयाणंपि कारणावेक्खो । उक्कोसगदव्वाणं न उ अविसेसेण विन्नेओ॥ १॥ आवन्ननिविगईयस्स असहुणो जुज्जए परीभोगो। इंदियजयबुद्धीए विगईचायम्मि नो जुत्तो ॥२॥ जो पुण विगईचायं काऊणं खाइ निद्धमहुराई । उक्कोसगदव्वाई तुच्छफलो तस्स सो नेओ॥३॥ दीसन्ति य केइ इहं पञ्चक्खाएवि मंदधम्माणो । कारणियं पडिसेवं अकारणेणावि कुणमाणा ॥४॥ तिलमोयगतिलवदि वरिसोलगनालिकेरखंडाइं । अइबलघोलखीरिं घयपप्पुयवंजणाई च ॥ ५॥ घयबुड्डमंडगाई दहिदुद्धकरंबपेयमाईयं । कुल्लुरिचूरिमपमुहं अकारणे केइ भुंजंति ॥ ६॥ न य तंपि इह पमाणं जहुत्तकारीण आगमन्नूणं । जरजम्ममरणभीसणभवन्न
37