________________
दधिनवनीतघृतानि, आह- कथं चत्वार्येव भवन्ति ? पश्च कथं क्षीरवन्न भवन्ति ?, तत्राह — यस्मादुष्ट्रीणां दुग्धे तानि न भवन्ति, सरढस्यैव भावादिति ।। २१८ ॥ ' चत्तारी' त्यादि, उत्तरत्र स्थितस्य चस्यात्र सम्बन्धात्तैलानि च चत्वारि भवन्ति विकृतय इति सण्टङ्कः, केषां सम्बन्धीनि ?, तत्राह - तिलअतसीकुसुम्भसर्षपाणां, शेषाणां डोलादीनां मधुकफलादीनां आदिशब्दानालिकेरएरण्डशिंशपादीनां सम्बन्धीनि तैलानि न विकृतयः अत्र च तेल्ला इति प्राकृतत्वात्पुंसा निर्देशः ॥ २१९ ॥ 'दवे' त्यादि, गुडे द्वौ भेदौ - द्रवगुडः पिण्डगुडश्च, तौ द्वावपि विकृती, तथा मद्ये द्वौ भेदौ एकं काष्ठैः - इक्षुतालादिभिर्निष्पन्नं अपरं पिष्टैः - षष्टिकाकोद्रवादितण्डुलैर्निष्पन्नं, तौ द्वावपि विकृती, तथा मधु त्रिभेदं - मक्षिकाकृतं कुत्तिकाकृतं भ्रमरकृतं चेति त्रिधा - त्रिप्रकारमपि विकृतिर्भवति ॥ २२० ॥ 'जले 'त्यादि, मांसं त्रिभेदं, जलचराणां - मत्स्यादीनां सम्बन्धि स्थलचराणां भजमहिषशूकरशशकहरिणादीनां सम्बन्धि खचराणां लावकचटिकादीनां सम्बन्धि, अथवा अन्यथा मांसत्रैविध्यं चर्म वसा शोणितं चेति एतच त्रिविधमपि विकृतिर्भवति, अवगाहिमकं पुनर्घृतेन वा तैलेन वा भृतायां तापिकायां चलचलेतिशब्दं कुर्वाणं सुकुमारिकादि यदा पच्यते तदैको घाणः पुनस्तेनैव घृततैलेन द्वितीयः पुनस्तेनैव तृतीयो विकृतिर्भवति, यदि पुनस्तेनैव घृतेन तैलेन वा चतुर्थो घाणः पच्यते तदाऽसौ विकृतिर्न भवति, अयोगवाहिनां निर्विकृतिक प्रत्याख्यानेऽपि कल्पते, अथ तापिका एकेनैव पूपकेन खज्जकेन वा सकलाऽपि भृता तदा तत्रैव द्वितीयः पूपकादिः क्षिप्तो न विकृतिर्भवति, निर्विकृतिकानामपि कल्पत एव सः, परं यदि सम्यग् ज्ञायतेऽयं चतुर्थोऽयं द्वितीयो घाणः प्रथमक्षिप्तघृतादिना पक इति यदा पुनर्द्वितीयादिघाणेषु ताषिकायामपरं घृतादि प्रक्षिप्तं चतुर्थादिर्वा भयं घाण इति सम्यग् न ज्ञातं तदा न कल्पत एवेति ॥ २२९ ॥ गृहस्थसंसृष्टस्याकारस्य विशेषतः स्वरूपममिधीयते—गृहस्थैरोदनादिर्दध्यादिना स्वप्रयोजनाय संसृष्टः - संश्लेषित इति गृहस्थसंसृष्टः, तत्राऽऽह — ' खीरदही' त्यादि, क्षीरदधिविकटानां चत्वार्यकुलानि संसृष्टं न विकृतिर्भवति, अयमभिप्रायः - कूरः क्षीरमिश्रितः कृतः, तत्र कूरस्योपरि यदि चत्वार्यङ्गुलानि क्षीरं चटितं भवति तदा न विकृतिर्भवति, निर्विकृतिकानां कल्पते, यदा तु पश्चमाकुलारम्भो भवति तदा विकृतिरेव, न कल्पते निर्विकृतिकानामित्यर्थः, एवं दनो विकटस्य च वक्तव्यं, तथा फाणितेन - द्रवगुडेन मिश्रिते कूरठोठिकादौ यद्येकमङ्गुलमुपरि चटितं भवति तदा न विकृतिः, एवं तैलघृतयोरपि वक्तव्यम् ॥ २२२ ॥ 'महुपुग्गले'त्यादि, मधूनि च पुद्गलानि - मांसानि च तेषां रसैः संसृष्टम्-अङ्गुलस्यार्ध संसृष्टं भवति, अङ्गुलार्धात्परतों विकृतिरेवेति, गुलपुद्गलनवनीते - एतद्विषये एतैः संसृष्टमितियावत् आर्द्रामलकं तु, तुशब्दस्यावधारणार्थत्वादार्द्रामलकमेव न विकृतिर्भवति, आर्द्रामलकं तु शणवृक्षसम्बन्धी मुकुरः, अयमर्थः - गुडमांसनवनीतखण्डे - रार्द्रामलकप्रमाणैर्बहुभिरपि संसृष्टमोदनादिकं न विकृतिर्भवति, एतदीयेनैकेनापि स्थूलखण्डेन संसृष्टं विकृतिरेवेति ॥ २२३ ॥ इदानीं प्रत्याख्यानविषयाण्येव विशेषवस्तूनि कथयन्नाह - ' विगई'त्यादि, विकृतीर्विकृतिगतानि चानन्तकायानि वर्जनीयवस्तूनि हे भव्यजनाः ! शृणुत वर्णयाम्यहं भवतामिति, तानि च कियद्भेदानि भवन्तीति यथासत्येनाह-दश त्रिंशत् द्वात्रिंशत् द्वाविंशतिरितिसङ्गपानि, कोऽर्थः ? – विकृतिर्दशभेदा विकृतिगतानि त्रिंशत्सङ्ख्यानि अनन्तकायानि द्वात्रिंशत् वर्ज्यवस्तूनि द्वाविंशर्ति वर्णयामीति ॥ २२४ ॥ अत्र च शृणुतेति यदुक्तं तत्रायमभिप्रायः - शृण्वतामुपस्थितानामेव भव्यानां सूरिभिर्धर्मः कथनीयः, नानुपस्थितानां, यदवाचि - " अणुवट्ठियस्स धम्मं मा हु कहिजाहि सुडुवि पियस्स । विच्छायं होइ मुहं विज्झायग्गिं धम्मंतस्स” ॥ १ ॥ इति [ अनुपस्थिता धर्म मा चीकथः सुष्वपि प्रियाय । विच्छायं भवति मुखं विष्यातमत्रिं धमतः ॥ १ ॥ ] वर्णयामीत्यस्यायमभिप्रायः - परोपकारनिरतैः सूरिभिः कथ्यमान एव जीवादितत्त्वे भव्यानां विवेकः समुल्लसति यदाहु: - "सुब्बा जाणइ कल्लाणं, सुचा जाणइ पावगं । उभयंपि जाणई सुच्चा, जं छेयं तं समायरे ॥ १ ॥” इति [ श्रुत्वा जानाति विरतिं श्रुत्वा जानाति पापं । विरत्यविरती अपि जानाति श्रुत्वा यत् श्रेयः तत्समाचर ॥ १ ॥] तत्र विकृतीस्तावदाह - 'दुद्धे'त्यादि, दुग्धदधितैलनवनीतघृतगुडमधुमां समद्यपकं च तत्र दुग्धं पञ्चभेदं गोमहिषीकरभीछगलिकागडुरिकासम्बन्धित्वेन, दधि चतुर्भेदं - गोमहिषीछगलिकागडुरिकासम्बन्धित्वेन, उष्ट्रीदुग्धेन दधि न भवतीति, तैलमपि चतुर्भेदं-तिलअतसीकुसुम्भसर्षपसम्बन्धित्वेन, नवनीतमपि चतुर्भेदं—-गोमहिषीछगलि कागडुरिकादधिसम्भवित्वेन, घृतमपि चतुर्भेदं– गवादिसम्बन्धित्वेन, एवं गुडो द्विभेदः - द्रवगुडपिण्डगुडभेदेन, मधु त्रिभेदं - मक्षिकाकुत्तिका भ्रमरीजनितत्वेन, मांसं त्रिभेदं जलचरस्थलचरखचरजीवसम्बन्धित्वेन, चर्मवसाशोणितभेदेन वेति, मद्यं द्विभेदं - काष्ठपिष्टनिष्पन्नत्वेन, पकमेकभेदं, घृतेन तैलेन वा भृतायां तापिकायां चलचलेतिशब्देन पच्यमानस्य कणिक्कादेरेकत्वादिति ॥ २२५ ॥ विकृतिगतानि साम्प्रतमाह
दव्वहया विगइयं विगई पुण तेण तं हयं दव्वं । उद्धरिए तत्तंमि य उक्किदवं इमं अन्ने ॥ २२६॥ अह पेया दुद्धेही दुद्धवलेही यदुद्धसॉडी य । पंच य विगइगयाई दुर्द्धमि य खीरिसेहियाई ॥ २२७॥ अंबिलजुमि दुद्धे दुद्धट्ठी दक्खमीसरर्द्धमि । पयसाडी तह तंडुलचुण्णयसिद्धमि अवलेही ॥२२८॥ दहिए विग गयाई घोलवडां घोल सिहरिणि करंबो । लवणकणदहियमहियं संगरिगामि अप्प - डिए ॥ २२९ ॥ पक्कर्घयं घयकिंट्टी पक्कोसहि उवरि तरिय सपिं च । नित्र्भंजणवीसंदणगाईं घयविगविगइगया || २३०|| तेल्लमली तिल्लकुट्टी दद्धं तेल्लं तहोसहोव्वरियं । लक्खाइदव्वपक्कं तेल तेल्लंमि पंचेव ॥ २३१ ॥ अडकडिइक्खुरंसो गुलपणीयं च सक्कैरा खंड । पायगुलं च गुलविगई
36