________________
विशेषः कहेडक:-पिण्डाईकः, आदिशब्दाजीरकहरितादिपरिप्रहः, मधुपिप्पलिशुण्ठ्यादि, आदिशब्दाद्गुरमरिचाजमोदजीरकहरीतकीविभीतकामलकीकटुभाण्डादिपरिग्रहः, अनेकधा खादिम शेयम् ॥ २१० ॥ साम्प्रतं दशानां विकृतीनां मध्ये का कुत्राऽऽहारेऽवतरतीत्याह'पाणंमी'त्यादि, पानाहारे सरकविकृतिरवतरति, 'खादिमे खादिमाहारे पकानांशको गुडधानादिषु पकगुन्दावयवादिको भणितः, स्वादिमे गुडमधुरूपादिविकृतिरवतरति, शेषा:-क्षीरदधिघृततैलपकामनवनीतमांसरूपाः सप्त विकृतयोऽशनरूपे आहारेऽवतरन्तीति ॥ २११ ॥ प्रत्याख्यानं च तमप्येतैः सुकारणैः विशुद्धं भवतीत्याह
फासिंयं पालियं चेव, सोहिय तीरियं तहा। कित्तियेमार्राहियं चेव, जएज्जा एरिसम्मि उ ॥२१२॥ उचिए काले विहिणा पत्तं जं फासियं तयं भणियं। तह पालियं च असई सम्मं उवओगपतियरियं ॥ २१३॥ गुरुदत्तसेसभोयणसेवणयाए य सोहियं जाण। पुण्णेवि थेवकालावत्थाणा तीरियं होइ ॥ २१४ ॥ भोयणकाले अमुगं पचक्खायंत्ति मुंज कित्तीयं । आराहियं पयारेहिं सम्ममेएहिं निद्ववियं ॥ २१५ ॥ वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी उ । गुरुलाघवं च नेयं धम्मंमि
अओ उ आगारा॥२१६॥ 'फासिय'मित्यादि, स्पृष्टमित्यस्य स्थाने प्राकृते फासियमिति भवति, स्पों वा सजातोऽस्येति इतचि स्पर्शितमिति वा, तब प्रत्याख्यानग्रहणकाले विधिना प्राप्तं, पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं, शोमितं-गुर्वादिप्रदत्तशेषभोजनाऽऽसेवनेन राजितं, तीरितं-पूर्णेऽपि प्रत्याख्यानकालावधौ किश्चिदधिककालावस्थानेन तीरं नीतं, कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यानं कृतं तत्पूर्णमधुना मोक्ष्ये इत्युच्चारणेन शब्दितं, आराधितं चैव-एभिरेव प्रकारैः सम्पूर्ण निष्ठां नीतं, यस्मादेवम्भूतमेवैतदईदाज्ञापालनादप्रमादाच महत्कर्मक्षयकारणं तस्मादीदृशे प्रत्याख्याने यतेत-एवंविध एव यत्नः कर्तव्य इति ॥ २१२ ॥ अथ प्रन्थकारः स्वयमेवैतानि पदानि विवृणोति'उचिए'त्यादि गाथात्रयं, उचिते काले विधिना प्राप्तं यत् स्पृष्टं तद्भणितं, इदमुक्तं भवति-साधुः श्रावको वा प्रत्याख्यानसूत्रार्थ सम्यगवबुध्यमानः सूर्येऽनुद्गते एव स्वसाक्षितया चैत्यस्थापनाचार्यसमक्षं वा स्वयं प्रतिपन्नविवक्षितप्रत्याख्यानः पश्चाच्चारित्रपवित्रगात्रस्य गुरोः समीपे सूत्रोक्तविधिना कृतिकर्मादिविनयं विधाय रागद्वेषादिविकथादिरहितः सर्वत्रोपयुक्तः प्राञ्जलिपुटो लघुतरशब्देन गुरुवचनमनूचरन् यदा प्रत्याख्यानं प्रतिपद्यते तदा स्पृष्टं भवतीति, तथा पालितं चासकृन्निरन्तरमुपयोगेन सम्यग प्रतिजागरितं ॥ २१३ ।। गुरुदत्तशेषभोजनाऽऽसेवनया च शोभितं जानीहि, पूर्णेऽपि प्रत्याख्यानकाले स्तोककालावस्थानात्तीरितं भवतीति ॥२१४॥ भोजनकालेऽमुकं प्रत्याख्यातमिति भणित्वा मुखानस्य कीर्तितं, आराधितं प्रकारैः सम्यगेतैः पूर्वोक्तैर्निष्ठां नीतमिति ॥ २१५॥ प्रत्याख्यानं चापवादरूपाऽऽकारसहितं कर्तव्यं अन्यथा तु भङ्गः स्यात् , स च महते दोषायेति कथयन्नाह-वयभंगे'त्यादि, व्रतभङ्गे-नियमभङ्गे गुरुः-महान् दोषो-दूषणमशुभकर्मबन्धादिरूपं भगवदाज्ञाविराधनात् , तथा स्तोकस्यापि-अल्पस्यापि आस्तां महतः पालना-आराधना गुणकरीतु-कर्मनिर्जरालक्षणोपकारकारिण्येव, विशुद्धपरिणामरूपत्वात् , तथा गुरु च-सारं लघु च-असारं तयोर्भावो गुरुलाघवं तच्च ज्ञातव्यं, केत्याह-धर्मे-चारित्रधर्मे, तथाहि-उपवासे कृतेऽपि सजातासमाधेरौषधादिदानतः समाधिसम्पादने निर्जरागुणो गुरुर्भवति इतरथा पुनरल्प इति विमर्शनीयं, एकान्ताप्रहस्य प्रभूतापकारित्वेनाशुभत्वात् , यत एवमत आकाराः प्रत्याख्याने क्रियन्ते इति ।। २१६ ॥ ननु प्रत्याख्याने विकृतयोऽभिहितास्ताः कियन्त्यो भवन्तीत्याह
दुद्धं देहि नवणीयं धयं तहा तेल्लमेव गुंड मजं । महु मैसं चेव तहा ओगाहिमगं च विगईओ ॥ २१७ ॥ गोमहिसुट्टीपसूणं एलग खीराणि पंच चत्तारि । दहिमाइयाई जम्हा उद्दीणं ताणि नो हुंति ॥ २१८॥ चत्तारि हुंति तेल्ला तिल अयसि कुसुंभ सरिसवाणं च । विगईओ सेसाणं डोलाइणं न विगईओ॥ २१९ ॥ दवगुंडपिंडगुडा दो मज्जं पुण कट्ठपिट्ठनिप्फन्नं । मच्छियकुत्तियभामरभेयं च महुं तिहा होई ॥२२०॥ जलथलखहयरमंसं चम्मं वस सोणियं तिभेयं च । आइल्ल तिणि चलचल ओगाहिमगं च विगईओ ॥ २२१ ॥ खीरदहीवियडाणं चत्तारि उ अंगुलाणि संसह । फाणियतिल्लघयाणं अंगुलमेगं तु संसह ॥ २२२ ॥ महुपुग्गलरसयाणं अद्धङ्गुलयं तु होइ संसह । गुलपुग्गलनवणीए अद्दामलयं तु संसहं ॥ २२३ ॥ विगेई विगइगयोणि य अणंतकायाणि वजर्वत्थूणि । दस तीसं बत्तीसं बाषीसं सुणह वन्नेमि ॥ २२४ ॥ दुद्ध देहि तिलै नर्वणीय
घय गुर्ड महुँ मंस मर्ज पंकं च । पर्ण च चउँ चउँ चउँ दुर्गतिन तिर्ग दुर्ग एगपडिभिन्नं ॥२२५॥ 'दुद्ध'मित्यादि, दुग्धं दधि नवनीतं घृतं तथा तैलमेव गुडश्च मद्यं चेति गुडमधं मधु मांसं चैव तथाऽवगाहिमकं च-अवगाहेन कृतं-घृततैलबोलेन निर्वृत्तमवगाहिमं तदेव अवगाहिमकं च, एता दश विकृतयो, मनसो विकृतिहेतुत्वादिति ॥ २१७ ।। इदानीमेतासां यथाखं भेदानाह-गोमहिसु'इत्यादि, गवां महिषीणामुष्ट्रीणां पशूनां-छागलिकानां एलकानां गडरिकाणामित्यर्थः सम्बधीनि क्षीराणि पञ्च विकृतयः, न शेषाणि मानुषीक्षीरादीनि, एलक इत्यत्र षष्ठीबहुवचनं लुप्तं द्रष्टव्यं, तथा चत्वारि-प्रत्येकं चतुर्भेदानि दयादीनि
25