________________
मण्डकादि प्रक्षितं तदा कल्पते निर्विकृतिकस्य धारया तु न कल्पत इति, व्युत्सृजति-विकृतीः परिहरति, इह च यासु विकृतिषु उत्क्षिप्तविवेकः संभवति तासु नवाकाराः, अन्यासु द्रवरूपासु अष्टौ, ननु निर्विकृतिक एवाकारा अभिहिताः विकृतिपरिहारप्रत्याख्याने तु कुत आकारा अवगम्यन्ते ?, उच्यते, निर्विकृतिकग्रहणे कृते सति विकृतिपरिमाणप्रत्याख्यानस्यापि सङ्ग्रहो भवति, यतस्तत्रापि त एव तथैवाकारा भवन्ति, यथा एकासनकस्य पौरुष्याः पूर्वार्धस्य च सूत्रे आकारा अभिदधिरे परं व्यासनकस्य सार्धपौरुष्या अपरार्धस्य च प्रत्याख्यानस्य त एव भवन्तीति, प्रत्याख्यानं च सूत्रानभिहितमपि भवति, अप्रमादवृद्धेः सर्वत्र सम्भवादित्यदोषः ॥ ननु निर्विकृतिके विकृतिपरिमाणे वा प्रत्याख्याने काष्टौ क वा नव आकारा भवन्तीत्याह-नवणीओ' इत्यादि, नवनीते-म्रक्षणकेऽवगाहिमके च-पक्वान्नेऽद्रवदधिपिशितघृतगुडे चैव, अद्रवग्रहणं सर्वत्र सम्बन्धनीयं, नव आकाराः 'एसिंति अमीषां विकृतिविशेषाणां भवन्ति, शेषाणां तु द्रवरूपाणामष्टैवाकाराः, अयमभिप्रायः-यत्रोरिक्षप्तविवेकोऽद्रवरूपाणां नवनीतगुडादीनां कर्तुं शक्यते तत्र नवाकाराः, द्रवरूपाणां तु विकृतीनामुद्धर्तुमशक्यानां अष्टावाकारा इति ॥ २०६ ।। इदानीमशनपानादीनां प्रत्याख्येयद्रव्याणां स्वरूपमुच्यते-तत्र 'अश् भोजने' इत्यस्य कृत्यल्युटो बहुलमन्यत्रापी'(पा० ३-३-११३ )ति वचनादश्यते इति कर्मणि ल्युडन्तस्याशनमिति. भवति, 'पा पाने' इत्यस्य पीयत इति तथैव पानमिति भवति, 'खाह भक्षणे' इत्यस्य खादनं खादस्तेन निर्वृत्तं 'भावादिम' (पा. ४-४-२०) इति वक्तव्यादिमपि खादिममिति भवति 'स्वद स्वाद वर्द आस्वादने' इत्यस्य स्वदनं स्वादस्तेन निवृत्तमिति पूर्ववदिमपि स्वादिममिति भवति, समयभाषया तु निरुक्तेनैषां व्युत्पत्तिः क्रियते-यथा आशु क्षुधां शमयतीत्यशनं, तथा प्राणानां-इन्द्रियादिलक्षणानां यदुपग्रहे-उपकारे वर्तते तत्पानं, तथा खमित्याकाशं तच्च मुखविवरमेव तस्मिन्मातीति खादिम, तथा स्वादयति रसादीन गुणान् गुडादिद्रव्यं कर्तृसंयमगुणान् वा यतस्ततः स्वादिम, हेतुत्वेन तदेवाऽऽस्वादयतीत्यर्थः, अथवा सादयति-विनाशयति स्वकीयगुणान् माधुर्यादीन् स्वाधमानमिति स्वादिम, न चैतन्निरुक्तं कल्पनामात्रं स्वकीयमिति ज्ञेयं, भ्रमन् रौतीति भ्रमरः हिनस्तीति सिंह इत्यादीनां निरुक्तशब्दानां व्याकरणेषु 'पृषोदरा दीनि यथोपदिष्ट मिति सूत्रेषु प्रसिद्धत्वादिति, न चेदमत्र वक्तव्यमेवंविधव्युत्पत्तौ भेदचतुष्टयी न युज्यते, तथाहि यथौदनादिकमश्यते तथाऽऽरनालादिकमपि पीयतेऽश्यते इति तथा खर्जूरादिकमपि खाद्यतेऽश्यते इति तथा गुडादिकमपि खाद्यते, कोऽर्थः ? अश्यत इति, ततः परमार्थत एकाथिका एवैते शब्दा इति भेदकल्पनमयुक्तं, एवं समयभणितनिरुक्तविधिनाऽप्येकार्थत्वमेवैषामिति, अत्र ब्रूमः, अस्त्येतत् परं बालतथाविधज्ञानविकलादीनां सुखावबोधाय विवक्षितद्रव्याणां सुखपरिहाराय च भेदकल्पनाऽपि नायुक्तेति, लोकेऽपि भक्ष्यत्वे तुल्येऽपि भेदो दृश्यते, तथा च वक्तारो भवन्ति-कूरखण्डमण्डकानेतान् भोजयत, एतान् पानीयं द्राक्षापानीयादिपानकं च पाययत, एतान् बालान् गुडधानाखजूरनालिकेरादिकां सुखादिकां खादयत, एतान् दुर्ललितान् ताम्बूलं च पञ्चसुगन्धं स्वादयत इत्यादि, तथाऽत्रापि भेदकल्पना न्यायवती ॥ तत्र अशनमाह
असणं ओयण सत्थुगमुग्गजगाराइ खजगविही य । खीराइ सूरणाई मंडगपभिई य विन्नेयं ॥ २०७॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउकाओ सव्वो कक्कडगजलाइयं च तहा ॥ २०८॥ भत्तोसं दंताई खजरगनालिकेरदक्खाई। ककडिअंबगफणसाइ बहविहं खाइम नेयं ॥ २०९ ॥ दंतवणं तंबोलं चित्तं तुलसीकुहेडगाईयं । महुपिप्पलिसुंठाई अणेगहा साइमं नेयं ॥ २१०॥ पाणंमि सरयविगई खाइम पकनअंसओ भणिओ । साइमि गुलमहुविगई
सेसाओ सत्त असणंमि ॥ २११॥ 'असण'मित्यादि, आदिशब्दः स्वगतानेकभेदसूचकः सर्वत्र सम्बध्यते, तत ओदनादि सक्त्वादि मुगादि जगार्यादि, जगारीशब्देन समयभाषया रब्बा भण्यते, तथा खाद्यकविधिश्व खाद्यकमण्डिकामोदकसुकुमारिकाघृतपूरलपनश्रीवर्गच्युताप्रभृतिपक्कानविधिः, तथा क्षीरादि, आदिशब्दारधिघृततक्रतीमनरसालादिपरिप्रहः, तथा सूरणादि, आदिशब्दादाकादिसकलवनस्पतिविकारज्यवनपरिप्रहः, मण्डकप्रभृति च, मण्डकाः प्रभृतिर्यस्य ठोठिकाकुल्लरिकाचूरीयकइङ्गरिकाप्रमुखवस्तुजातस्य तन्मण्डकप्रभृति विज्ञेयं-ज्ञातव्यमशनमिति ॥२०७॥ सम्पति पानमाह-पान'मित्यादि, सोवीरं-काजि यवोदकादि-यवधावनमादिशब्दाद्गोधूमषष्टिकादितण्डुलकोद्रवधावनादिपरिप्रहः, तथा 'चित्र' नानाप्रकारं सुरादिकं चैव, आदिशब्दात्सरकादिपरिप्रहः, तथाऽप्कायः 'सर्वः' सरःसरित्कूपादिस्थानसम्बन्धी, तथा कर्कटकजलादिकं च, कर्कटकानि-चिर्भटकानि तन्मध्यवर्ति.जलं २ तदादिर्यस्य तत्कर्कटकजलादिकं, आदिशब्दात् खर्जूरद्राक्षादिचिश्चिणिकापानकेक्षुरसादिप्रहः, एतत्सर्व पानं ।। २०८ ॥ सम्प्रति खादिममाह-भत्तोस'मित्यादि, भक्तं च तद्भोजनमोषं च-दाझं भक्तोषं, रूढितः परिभ्रष्टचनकगोधूमादि, 'दन्त्यादि' दन्तेभ्यो हितं दन्त्य-गुन्दादि, आदिशब्दाचारकुलिकाखण्डेक्षुशर्करादिपरिप्रहः, यद्वा दन्तादि देशविशेषप्रसिद्धं गुडसंस्कृतदन्तपचनादि, तथा खजूरनालिकेरद्राक्षादिः, आदिशब्दादक्षोटकबदामादिपरिग्रहः, तथा कर्कटिकाम्रपनसादि, आदिशब्दात्कदल्यादिफळपटलपरिप्रहः, बहुविधं खादिमं ज्ञेयम् ।। २०९॥ स्वादिममाह-दंतवण'मित्यादि, दन्ताः पूयन्ते-पवित्राः क्रियन्ते येन काष्ठखण्डेन तहन्तपावनं, ताम्बूलं-नागवल्लीपत्रपूगफलजातिफलादिरूपं, चित्रं-अनेकविधं, तुलसीकुहेडकादि, तुळसी-पत्रिका
34