________________
चागमिकन्यायेन गुणसम्भवाद्भुर्वाज्ञया पुनर्भुजनस्यापि न भङ्गः, 'वोसिरइ' व्युत्सृजत्यनेकाशनमशनाद्याहारं च परिहरति । तथा एकस्थाने सप्ताssकारा भवन्ति, तस्येदं सूत्रं - 'एक्कासणं एगट्ठाणं पञ्चक्खाइ' इत्याधेकाशनवदाकुभ्वनप्रसारणाऽऽकारवर्ज, एकं - अद्वितीयं स्थानं–अङ्गविन्यासरूपं यत्र तदेकस्थानप्रत्याख्यानं, तद् यथा भोजनकालेऽङ्गोपाङ्गं स्थापितं तस्मिंस्तथास्थित एव भोक्तव्यं, मुखस्य हस्तस्य चाशक्यपरिहारत्वाश्ञ्चलनमप्रतिषिद्धमिति । अथाऽऽचाम्ले अष्टावाकारास्तत्र सूत्रं - " आयंबिलं पच्चक्खाइ अन्नत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिहिसंसट्टेणं उक्खित्तविवेगेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्त्रसमाहिवत्तियागारेणं वोसिरइ” अस्यार्थः–आचामः–अवश्रामणं अम्लं - चतुर्थो रसः ताभ्यां निर्वृत्तमित्यण्, एतच्च त्रिविधं उपाधिभेदात्, तद्यथा - ओदनं कुल्माषान् सक्थंश्च अधिकृत्य भवति, तत्प्रत्याख्याति, आचामाम्लं प्रत्याख्यानं करोतीत्यर्थः, आद्यावन्त्या चाकारास्त्रयः पूर्ववत्, 'लेवालेवेणं' ति लेपो - भोजनभाजनस्य विकृत्या तीमनादिना वाऽऽचामाम्लप्रत्याख्यातुर कल्पनीयेन लिप्तता - खरण्टनं विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलेपोऽलिप्तता, ततश्च लेपश्च अलेपश्च लेपालेपं तस्मादन्यत्र, भाजने विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः, 'उक्खित्तविवेगेणं'ति शुष्कौदनादिभक्ते पतितपूर्वस्याऽऽचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्य उत्क्षिप्तस्य - उद्धृतस्य विवेकोनिःशेषतया त्यागः उत्क्षिप्तविवेकस्तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि न भङ्ग इत्यर्थः, यत्तत्क्षेप्तुं शक्यते तस्य भोजने भङ्ग एव, 'गिहत्थसंसद्वेणं' ति गृहस्थस्य - भक्तदायकस्य संबन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टं तस्मादन्यत्र, विकृत्यादिसंसृष्टभाजनेन हि दीयमानं भक्तमकल्पनीयद्रव्यमिश्रं भवति तद् भुञ्जानस्यापि न भङ्ग इत्यर्थः, यद्यकल्प्यद्रव्यरसो बहु न ज्ञायत इति, 'वोसिरइ' अनाचामाम्लं व्युत्सृजति । तथा अभक्तार्थे पञ्चाकाराः, तत्रेदं सूत्रं - 'सूरे उग्गए अभत्तङ्कं पश्ञ्चक्खाइ चउबिहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्व समाहिवत्तियागारेणं बोसिरई” अस्यार्थः—‘सूरे उग्गए’ सूर्योद्गमादारभ्य, अनेन भोजनानन्तरं प्रत्याख्यानस्य निषेध इति ब्रूते, भक्तेन - भोजनेनार्थः - प्रयोजनं भक्तार्थ: भक्तार्थोऽभक्तार्थः अथवा न विद्यते भक्तार्थो यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थः, उपवास इत्यर्थः, आकाराः पूर्ववत्, नवरं पारिष्ठापनिकाकारे विशेषो-यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिकं कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याख्याति पानकं च नास्ति तदा न कल्पते पानके तूद्धरिते कल्पत एव, 'वोसिरइ' भक्तार्थमशनादिवस्तु व्युत्सृजति । तथा पानकप्रत्याख्याने षडाकाराः, तत्र पौरुषी पूर्वार्धएकासनएकस्थानाचामाम्लाभक्तार्थप्रत्याख्यानेषु उत्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं उक्तं, यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति पानमाश्रित्य षढाकाराः, तथा च सूत्रं - "पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरइ” इहाप्यन्यन्त्रेत्यनुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वेन व्याख्यातत्वात् 'लेवाडेण वे 'ति लेपकृताद्वा - पिच्छलत्वेन भाजनादीनामुपळेपकारकात् खर्जूरद्राक्षादिपानकादन्यत्र तन्मुक्त्वेत्यर्थः, त्रिविधाहारं व्युत्सृजतीति सम्बन्धः, वाशब्दोऽत्रालेपकृतपानकापेक्षयाऽवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव वारिणा लेपकारिणाऽप्युपवासादेर्न भङ्ग इति हृदयं, एवमलेपकृताद्वा पिच्छलात्-सोवीरादेः अच्छात्निर्मलाद्वा प्रासुकाद्वा वर्णान्तरिताद्वा अपिच्छलात् उष्णोदकादेर्बहलाद्-गडुलात्तिलतण्डुलयवधावनादेः ससिक्थाद्वा-भक्तपुलाकोपेतादवश्रावणादेः असिक्थाद्व-सिक्थवर्जितात्पानकाऽऽहारादिति । तथा चरमो - दिवसस्य भवस्य च पाश्चात्यो भागः तत्र क्रियमाणं प्रत्याख्यानमपि दिवसचरिमं भवचरिमं चेति कथ्यते, तत्रेदं सूत्रं — " दिवसचरिमं पश्ञ्चक्खाइ चउव्विपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिबत्तियागारेण वोसिरई" एवं भवचरिममपि, आकाराः पूर्वमेव व्याख्याताः, ननु दिवस'चरिमं प्रत्याख्यानं निष्प्रयोजनं, एकासनादिप्रत्याख्यानेनैव गतार्थत्वादिति, नैतदेवं, एकाशनादिकं सष्टाकारं एतच चतुराकारं अत आकाराणां सङ्क्षेपकरणात् सफलमेवेति, अत एव एकाशनादिकं दैवसिकमेव भवति, रात्रिभोजनस्य प्रतिमिस्त्रिविधं त्रिविधेन यावज्जीवं प्रत्याख्यातत्वादिति, गृहस्थापेक्षया पुनरिदं आ आदित्योद्गमाद् ज्ञेयं, दिवसस्याहोरात्रपर्यायतयाऽपि दर्शनात् यथा पध्वमिर्दिनैर्वयमत्रागताः, प
मिरहोरात्रैरित्यर्थः, तत्र यैर्यावज्जीवमपि रात्रिभोजननियमश्चक्रे तेषामपीदं सार्थकमेवानुवादकत्वेन स्मारकत्वात् भवचरिमं तु द्वयाकारमपि भवति, यदा जानाति महत्तरसर्वसमा घिप्रत्ययरूपाभ्यामाकाराभ्यां न मम प्रयोजनं तदाऽनाभोगसहसाकारौ भवतः, भनाभोगतः सहसाकारतो वाऽङ्गुल्यादेर्मुखे प्रक्षेपसम्भवात्, अत एवेदमनाकारमपि भण्यते, एतस्याकारद्वयस्यापि परिहार्यत्वादिति । तथा पश्च चत्वारो बाऽमिप्रहप्रत्याख्याने, तत्र दृण्डकप्रमार्जनादिरूपेऽभिप्रहे चत्वार आकारा भवन्ति, यथा – “अन्नत्थऽणाभोगेणं सहसागारेणं महत्तत्तरागारेणं सब्वसमाहिवत्तियागारेणं वोसिरइ” एतद्व्याख्या पूर्ववत्, यदा त्वप्रावरणाभिप्रहं गृह्णाति तदा 'चोलपट्टागारेणं' ति पश्चम भकारो भवति, चोलपट्टकाकारादन्यत्र, सागारिकदर्शने चोलपट्टके गृहयमाणेऽपि न भङ्ग इत्यर्थः । तथा निर्विकृतिके अष्टौ नक वा आकारा भवन्ति, यथा - " निब्विगइयं पञ्चक्खाइ अन्नत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिइत्थसंसद्वेणं उक्खित्तविवेगेणं पञ्चमक्खिणं पारिद्वावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ” तत्र मनसो बिकृतिहेतुत्वाद्विगतिहेतुत्वाद्वा विकृतयो बिगतयो वा निर्गता विकृतयो विगतयो वा यत्र तन्निर्विकृतिकं निर्विगतिकं वा प्रत्याख्याति आकाराः पूर्ववद्व्याख्येयाः, नवरं 'पडुञ्च्चमक्खिणं' ति प्रतीत्य- सर्वथा रूक्षं मण्डकादिकमपेक्ष्य प्रक्षितं - स्नेहितमीषत्सौकुमार्योत्पादनात् क्षणकृतविशिष्टस्वाद्द्रुतायाम्याभावात् श्रक्षितमिव यद्वर्तते तत्प्रतीत्यनक्षितं श्रक्षिताभासमित्यर्थः, इह चायं विधिः - यद्यङ्गुल्या घृतादि गृहीत्वा
33