________________
षीप्रत्याख्यानवत्, सूत्रं चेदं - " सूरिए उग्गए नमोकारसहियं पञ्चक्खाइ चउन्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं वोसिरइ” अस्य च सूत्रस्याप्रेतनपौरुष्यादिसूत्राणां च विस्तारवती व्याख्या स्वस्थानादेव ज्ञातव्या, परमाकाराणां स्वरूपपरिज्ञानाय किंचिद्व्याख्यायते - सूर्ये उगते सूर्योद्गमादारभ्येत्यर्थः, 'नमस्कारेण' पथ्वपरमेष्ठिस्तवेन सहितं प्रत्याख्याति 'सर्वे धातवः करोत्यर्थेन व्याप्ता' इति भाष्यकारवचनान्नमस्कारसहितं प्रत्याख्यानं करोति, इदं गुरोर्वचनं शिष्यस्तु प्रत्याख्यामीत्येतदाह, एवं व्युत्सृजतीत्यत्रापि वाच्यं कथं प्रत्याख्याति ?, तत्राह —- चतुर्विधमपि न पुनरेकविधादिकं, आहारं - अभ्यवहार्य व्युत्सृजतीत्युत्तरेण' टङ्कः इदं च चतुर्विधाहारस्यैव भवतीति वृद्धसम्प्रदायः, रात्रिभोजनप्रत्याख्यानत्रततीरणकल्पत्वादस्य, 'अशन' मित्यादिनाऽऽहारचतुर्वि - धकीर्तनं, अत्र नियमभङ्गभयादाकारावाह - 'अन्नत्थऽणाभोगेणं सहसागारेणं' ति अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात् सहसा - काराश्च, एतौ वर्जयित्वेत्यर्थः, तत्राऽनाभोगः - अत्यन्तविस्मृतिः, सहसाकारः - अतिप्रवृत्तियोगानिवर्त्तनं, 'व्युत्सृजति' परिहरति । तथा पौरुष्यां पडाकाराः, तत्र चैवं सूत्रम् - "पोरिसिं पच्चक्खाइ उग्गए सूरे चव्विपि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुत्रयणेणं सव्त्रसमाहिवत्तियागारेणं वोसिरइ" पुरुषः प्रमाणमस्याः सा पौरुषी छाया तत्प्रमितकालोऽपि पौरुषी प्रहर इत्यर्थः, तां प्रत्याख्याति, अत्र च ' कालाध्वनोरत्यंतसंयोगे' इति . ( पा० २-३०५ ) द्वितीया, ततः पौरुपीं यावत्प्रत्याख्यानं करोतीत्यर्थः एवमन्यत्रापि कथं ? - चतुर्विधमप्याहारमशनादिकं व्युत्सृजतीति, अन्यत्रानाभोगाद्याकारेभ्यः, तत्रानाभोगसहसाकारौ पूर्ववद्, अन्यत्र प्रच्छन्नकालात् दिग्मोहात् साधुवचनात् सर्वसमाधिप्रत्ययाकाराच्च, प्रच्छन्नता च कालस्य घनतरघनाघनपटलेन विस्फुरद्रजसा गुरुतरगिरिणा वाऽन्तरितत्वाद् दिवाकरो न दृश्यते, तत्र पौरुषीं पूर्णा ज्ञात्वा भुञ्जानस्यापूर्णायामपि पौरुष्यां न भङ्गः, ज्ञात्वा तु अर्धभुक्तेनापि तथैव स्थातव्यं यावत्पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यं, अपूर्णा पौरुषीति ज्ञा तु भुञ्जानस्य भङ्ग एवेति, दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति तदाऽपूर्णायामपि पौरुष्यां भुञ्जानस्य न भङ्गः, कथमपि मोहापगमे तु पूर्ववदर्धभुक्तेनापि स्थातव्यं अन्यथा तु भङ्ग एवेति तथा साधुवचनम् उद्घाटा पौरुषी इत्यादिकं विभ्रमकारणं तत् श्रुत्वा भुञ्जानस्य न भङ्गः, भुखानेन तु ज्ञाते अन्येन वा केनापि निवेदिते पूर्ववत्तथैव स्थातव्यं, तथा कृतपौरुषी प्रत्याख्यानस्य सहसा सञ्जाततीव्रशूलादिदुःखतया समुत्पन्नयोरार्तरौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिः स एव प्रत्ययः कारणं स एवाकार:- प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः, पौरुष्यामपूर्णायामप्यकस्मात् शूलादिव्यथायां समुत्पन्नायां तदुपशमनायौषधपध्यादिकं भुञ्जानस्य न प्रत्याख्यानभङ्ग इति भावः, वैद्यादिर्वा कृतपौरुषीप्रत्याख्यानोऽन्यस्याऽऽतुरस्य समाधिनिमित्तं यदाऽपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्धभुक्ते वातुरस्य समाधौ मरणे वोत्पन्ने सति तथैव भोजनत्यागः, सार्धपौरुषीप्रत्याख्यानं पौरुषीवद्वाच्यं तस्य तदन्तर्गतत्वादिति, पूर्वार्धप्रत्याख्याने त्वेवं सप्ताऽऽकाराः - ' सूरे उग्गए पुरिमडुं पञ्चक्खाइ चउव्विपि आहारं असणं पाणं खाइमं साइमं अन्नस्थऽणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वो सिरइ. "अस्यार्थः 'पूर्वस्य पुरिम' इति ( सि० हे० प्रा० ८-२-१३५) प्राकृतवचनेन पुरिममिति, एवमन्यत्रापि, ततः पूर्वं च तत् अर्ध च पूर्वार्ध - दिनस्याssद्यप्रहरद्वयं प्रत्याख्याति - पूर्वार्धप्रत्याख्यानं करोति, तत्र षडाऽऽकाराः पूर्ववत्, 'महत्तरागारे 'ति महत्तरं - प्रत्याख्यानपालनवशालभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरेण साधयितुमशक्यं ग्लानचैत्यसङ्घादिप्रयोजनं तदेवाकार:- प्रत्याख्यानापवादो महत्तराकारः तस्मादन्यत्रेति योगः, यश्चात्रैव महत्तराऽऽकारस्याभिधानं न नमस्कारसहितादौ तत्र कालस्याल्पत्वं अन्यत्र तु महस्वं कारणमिति वृद्धा व्याचक्षते, अपार्धप्रत्याख्यानमपि प्रहरत्रयलक्षणं पूर्वार्धप्रत्याख्यानवद्भणनीयं ॥ अथैकाशनप्रत्याख्याने यथा अष्टाऽऽकारांस्तथा कथ्यन्ते, तत्रेदं सूत्रम् — “ एकासणं पच्चक्खाइ तिविहंपि आहारं असणं खाइमं साइमं अन्नत्थऽणाभागेणं सहसागारेणं सागारियागारेणं आउंटणपसारेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ.” एकं सकृत् अशनं- भोजनं एकं वा आसनं-पुताचलनतो यत्र प्रत्याख्याने तदेकाशनमेकासनं वा, प्राकृते द्वयोरपि एकासणमिति रूपं, तत् प्रत्याख्याति एकासनप्रत्याख्यानं करोतीतियावत्, अत्र द्वावायौ अन्त्यावाकारौ च पूर्ववत्, 'सागारियागारेणं' ति सह आगारेण-गृहेण वर्तत इति सागारः स एव सागारिको गृहस्थः स एवाऽऽकारः - प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र, गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनाद्युपघातसम्भवात्, यत उक्तं - "छक्कायदयावंतोऽवि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुछिए पिंडगहणे य ॥ १ ॥ [षट्रायदयावानपि संयतो दुर्लभां करोति बोधिं । आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥ १ ॥] ततश्च भुजानस्य यदि सागारिकः कश्चिदायाति स च यदि चलस्तदा क्षणं प्रतीक्षते स्थिरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि नैकासनभङ्गः, गृहस्थस्यापि येन दृष्टं भोजनं न जीर्यति तत् प्रमुखः सागारिको ज्ञातव्यः, 'आउंटणपसारणे
'ति आकुभ्वनं - जङ्घादेः सङ्कोचनं प्रसारणं च तस्यैव जङ्घादेराकुचितस्य ऋजूकरणं आकुभ्वने प्रसारणे वाऽसहिष्णुतया क्रियमाणे किविदासनं चलति ततोऽन्यत्र प्रत्याख्यानं 'गुरुअन्भुट्ठाणेणं'ति गुरुरभ्युत्थानार्हस्याचार्यस्य प्राघूर्णकस्य वाऽभ्युत्थानं तमाश्रित्यासनत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्र, गुरुणामभ्युत्थानाईत्वादवश्यं भुञ्जानेनाप्युत्थानं कर्तव्यमिति न तत्र प्रत्याख्यानभङ्गः 'पारिठावणियागारेणं'ति परिस्थापनं - सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकं, तदेवाकारस्तस्मादन्यत्र तत्र हि त्यज्यमाने बहुदोषसम्भवाश्रीयमाणे
32