________________
लवङ्गपूगीफलहरीतकीनागरादि ततश्च सर्वमशनं सर्व पानकं खादिमं च सर्वमप्युत्सृजति-परित्यजति स्वादिदमपि सर्व यन्निरवशेषं तद्विज्ञेयमिति ८॥१९८॥ साकेतमिदानीमाह-केय'मित्यादि-'कित निवासे' इत्यस्य धातोः कित्यते-उष्यते अस्मिन्निति पनि केतो-गृहमच्यते सह तेन वर्तन्ते इति सहस्य स्वभावे सकेताः-गृहस्थास्तेषामिदं तस्येद'(पा०४-३-१२०)मित्यणि साकेतं प्रत्याख्यानं प्रायेण गृहस्थानामेवेदं भवतीति, अथवा केतं-चिह्नमुच्यते सह केतेन-चिह्वेन वर्तते इति सकेत सकेतमेव प्रज्ञादित्वात्स्वार्थेऽणि साकेतमाहुर्मुनयः । १९९। तश्चैवं भवति-श्रावकः कोऽपि पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् पूर्णेऽपि पौरुष्यादौ प्रत्याख्याने यावदद्यापि भोजनसामग्री न भवति तावत्क्षणमपि प्रत्याख्यानरहितो मा भूवमित्यङ्गुष्ठादिकं चिह्नं करोति यावदङ्गुष्ठं मुष्टिं प्रन्थि वा न मुञ्चामि गृहं वा प्रविशामि स्वेदविन्दवो वा न शुष्यन्ति यावदेतावन्तो वा उच्छासा न भवन्ति जलादिमश्चिकायां यावदेते जलबिन्दवो वा न शुष्यन्ति दीपो वा यावन्न निर्वाति तावन्न भुजेऽहमिति, एतदेवाह-'अगुंट्टी' इत्यादि, अशष्ठश्च प्रन्थिश्च मुष्टिश्च गृहं च स्वेदश्च उच्छासश्च स्तिबुकश्च जोइक्खश्वेति समाहारो द्वन्द्वः, जोइक्खशब्दश्च देश्यो दीपे वर्तते, तद्विषये क्रिया सर्वत्र यथोचिता योजनीया, प्रत्याख्यानविचाले कृत्यमिदं, 'अभिग्गहेसुवि य'त्ति केनचित्पौरुष्यादि न कृतं किन्तु केवल एवाभिग्रहः क्रियते यावद् प्रन्ध्यादिकं न छोटयतीत्यादि तत्रापीदं भवतीत्यर्थः, तथा साधोरपीदं भवति, यथाऽद्यापि गुरवो मण्डल्यां नोपविशन्ति अन्यद्वा सागारिकादिकं किञ्चित्कारणमजनि ततः पूर्णेऽपि प्रत्याख्यानावधौ प्रत्याख्यानरहितो मा स्थामित्यङ्गुष्ठादीनि साधुरपि करोतीति ॥ २०० ॥ इदानीमद्धाप्रत्याख्यानमाह
अद्धा कालो तस्स य पमाणमद्धं तुजं भवे तमिह । अद्धापच्चक्खाणं दसमं तं पुण इमं भणियं ॥२०१॥ नवकारपोरिसीए पुरिमड्ढेकासणेगठाणे य । आयंबिलऽभत्तढे चरिमे य अभिग्गेहे विगई ॥ २०२॥ दो चेव नमोकारे आगारा छच पोरसीए उ । सत्तेव य पुरिमढे एकासणगंमि अट्ठेव ॥ २०३ ॥ सत्तेगट्ठाणस्स उ अट्टेव य अंबिलंमि आगारा । पंचेव अन्भसढे छप्पाणे चरिम चत्तारि ॥२०४ ॥ पंच चउरो अभिग्गहि निव्विइए अट्ट नव य आगारा । अप्पाउरणे पंच उ हवंति सेसेसु चत्तारि ॥ २०५ ॥ नवणीओगाहिमगे अद्दवदहिपिसियघयगुडे चेव । नव आ
गारा एर्सि सेसदवाणं च अटेव ॥ २०६ ॥ 'अद्धा कालो' इत्यादि, अद्धाशब्देन कालस्तावदभिधीयते, तस्य च कालस्य मुहूर्तपौरुष्यादिकं प्रमाणमप्युपचारात् अद्धन्ति-अद्धां वदन्तीति शेषः, तुशब्दोऽप्यों भिन्नक्रमे च स च यथास्थानं योजित एव, ततोऽद्धापरिमाणपरिच्छिन्नं यत्प्रत्याख्यानं भवेत्तदि दशमं पूर्वोक्तभाव्यतीतप्रत्याख्यानादीनां चरममित्यर्थः ॥२०१॥ तत्पुनरिदं वक्ष्यमाणं भणितं गणधरैरिति, तदेवाह-नवकारे'त्यादि, अत्र भीमो भीमसेनभीमन्यायेन नमस्कारशब्दात्परतः सहितशब्दो द्रष्टव्यः, ततो नमस्कारश्च, कोऽर्थः ?-नमस्कारसहितं च पौरुषी च नमस्कारपौरुष्यौ तस्मिन् , नमस्कारविषये पौरुषीविषये चेत्यर्थः, पूर्वार्ध च एकासनं च एकस्थानं चेति समाहारे सप्तम्येकवचने पूर्वार्धविषये एकासनविषये एकस्थानकविषये चरमे-चरमविषये च, तथा आचाम्लं च अभक्तार्थश्च आचाम्लाभक्ताओं तत्र आचाम्लविषये उपवासविषये, तथा भवचरमे दिवसचरमे वेति, तथा अभिग्रहे-अभिग्रहविषये, तथा 'विगइ'त्ति विकृतिविषये, सप्तम्येकवचनं लुप्तमत्र द्रष्टव्यमिति, दशभेदमिदमद्धाप्रत्याख्यानं ॥२०२।। नन्वेकासनादिप्रत्याख्यानं कथमद्धाप्रत्याख्यानं ?, न ह्यत्र कालनियमः श्रूयते, सत्यं, अद्धाप्रत्याख्यानपूर्वाणि प्रायेणैकासनादीनि क्रियन्ते इत्यद्धाप्रत्याख्यानत्वेन भण्यन्ते इति, प्रत्याख्यानं चापवादरूपाकारसहितं कर्तव्यं, अन्यथा तु भङ्ग एव स्यात् , ततस्ते यावन्तो नमस्कारसहितादिपु भवन्ति तावत उपदर्शयन्नाह-दो चेवे'त्यादि गाथात्रयं, द्वावेव नमस्कारे-नमस्कारसहिते 'आकारौं' विधीयमानप्रत्याख्यानापवादरूपौ, षट् च पौरुष्यां, तुः पुनरर्थः, सप्तैव च पूर्वार्धे एकाशनेऽष्टैव ॥२०३॥ सप्त एकस्थानस्य प्रत्याख्यानस्य, तुः समुच्चयार्थः, अष्टैव चाऽऽचाम्ले आकाराः पञ्चैव चाभक्तार्थे-उपवासे, षट् पानकप्रत्याख्याने, चरमे प्रत्याख्याने-दिवसचरमभवचरमरूपभेदद्वयस्वरूपे चत्वार आकाराः ॥ २०४॥ पञ्च वा चत्वारो वा अभिग्रहे-अमिग्रहप्रत्याख्याने, निर्विकृतिकेऽष्टौ नवं वा आकाराः, 'पंच चउरो अभिग्गहे'त्ति यदुक्तं तत्स्वयमेव विवृणोति-'अप्पाउरणे'त्यादि, अप्रावरणे-अप्रावरणामिप्रहे प्रत्याख्याने पञ्चैव, तुशब्दस्यावधारणार्थत्वाद्भवन्ति शेषेष्वभिग्रहेपु-देशावकाशिकादिषु दण्डकप्रमार्जनादिषु च चत्वार आकारा इति गाथात्रयाक्षरार्थः ॥ २०५॥ भावार्थस्तु निवेद्यते-नमस्कारसहिते प्रत्याख्याने भङ्गपरिहारार्थमनाभोगसहसाकारलक्षणौ द्वावाकारौ ज्ञेयौ, ननु कालस्यानुच्यमानत्वात् सङ्केतप्रत्याख्यानमेवेदं प्रतिभाति तत्कथमद्धाप्रत्याख्यानमभिधीयते ?, सत्यं, सहितशब्देन मुहूर्तस्य विशेषितत्वाददोषः, अथ मुहूर्तशब्दोऽप्यत्र न श्रूयते तत्कथं तस्य विशेष्यत्वं ?, न खलु गगनारविन्देऽसत्येमन्दामोदसुन्दरमिदमित्यादीनि विशेषणानि तस्य सहृदयैर्विधीयन्ते, अत्र ब्रूमः-अद्धाप्रत्याख्यानमध्ये तावदस्य पाठात् पौरुषीप्रत्याख्यानस्य च वक्ष्यमाणत्वानिश्चितं तदर्वाग् मुहूर्च एवावशिष्यते ततस्तस्य विशेष्यत्वं नानुपपन्नं, अथ मुहूर्तद्वयादिकमपि कस्मान्न लभ्यते ? यदेकमेव मुहूर्त विशेष्यत इति, उच्यते, अल्पाकारत्वादस्य, पौरुष्यां हि षडाकाराः अस्मिंश्च प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते, स च नमस्कारसहितः पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात् , सत्यपि च नमस्कारपाठे मुहूर्ताभ्यन्तरे प्रत्याख्यानभङ्गात् , ततः सिद्धमेतत् मुहूर्त्तमानकालनमस्कारसहितं प्रत्याख्यानमिति, अथ प्रथम एव मुहूर्ते इति कुतो लभ्यते ?, उच्यते, सूत्रे 'सूरे उग्गए' इति वचनप्रामाण्यात् , पौरु
दर्शयन्नाह
पूर्वार्धे एकाने, चरमे
ही नवं
31