________________
तामपि युज्यते ॥ १० ॥ यतः -- कोटिशो विषयाः प्राप्ताः, संपदश्च सहस्रशः । राज्यं च शतशो जीवैर्न च धर्मः कदाचन ॥ ११ ॥ इत्थं मातुर्वचः श्रुत्वा, संविद्मा जनकं निजम् । तेऽनुज्ञाप्याईतीं दीक्षां, जगृहु: स्थविरान्तिके ॥ १२ ॥ सञ्जातास्ते च गीतार्था, वन्दितुं निजमातुलम् । अवन्त्यां च गताः सायं तद्बाह्यायामवस्थिताः ॥ १३ ॥ अथ गन्ता पुरीमध्ये, श्रावकः कोऽपि तद्द्विरा । श्रीशीतलमुनीन्द्राय, तत्स्वरूपं न्यवेदयत् ॥ १४ ॥ इतश्च - शुभेनाध्यवसायेन, तेन तेन महात्मनाम् । तेषां निशि समुत्पन्नं, चतुर्णामपि केवलम् ॥ १५ ॥ ततश्च कृतकृत्यत्वाद्यावत्तत्रैव ते स्थिताः । प्रभाते नागमंस्तावदुक्कः श्रीशीतलोऽजनि ॥ १६ ॥ यामादूर्ध्व स्वयं तेषामन्तिकेऽसौ गतस्ततः । अनादरपरांस्तांश्च, वीक्ष्य संस्थाप्य दण्डकम् ॥ १७ ॥ ऐर्यापथ प्रतिक्रम्य, समालोच्यैवमभ्यधात् । कुतोऽहं भवतो वन्दे, तेऽप्यूचुस्ते यतो मतम् ? ॥ १८॥ अहो दुष्टा अमी शैक्षा, निर्लज्जा इत्यवेत्य सः । क्रोधाध्मातो ददौ तेषां चतुर्णामपि वन्दनम् ॥ १९ ॥ कषायकण्डकारूढं, तमूचुस्ते त्वया पुरा । द्रव्यतो वन्दनं दत्तमिदानीं देहि भावतः ॥ २० ॥ किमेतदपि जानन्ति, भवन्त इति सोऽनवीत् । तेऽपि तं प्रत्यवोचन्त, जानीमो नितरामिदम् ॥ २१ ॥ आचार्यः कथमित्याह, तेऽप्याहुर्ज्ञानतः स च । ब्रवीति कीदृशात् तेच, ब्रुवन्त्यप्रतिपातितः ।। २२ ।। पापेनाशातिता एते मया केवलिनो हहा । इत्थं निन्दन्निवृत्तोऽसौ कण्डकस्थानतस्ततः ॥ २३ ॥ क्रमातेषु चतुर्थाय ददतस्तस्य वन्दनम् । केवलज्ञानमुत्पन्नमपूर्वकरणादिना ॥ २४ ॥ द्रव्यतो वन्दनं पूर्व, कषायोपेतचेतसः । जज्ञे पश्चाच तत् तस्य, शान्तस्वान्तस्य भावतः ॥ २५ ॥ इदानीं चितिकर्मणि तादृशमेव क्षुल्लकोदाहरणमुच्यते
तथाहि—गच्छे गरीयसि क्वापि, गुणसुन्दरसूरिभिः । दिवं यियासुभिर्वृद्धैः, शुभलक्षणलक्षितः ॥ १ ॥ स्वपवे क्षुल्लकः कोऽपि, स्थापितः सङ्घसम्मतः । तस्य च त्रतिनः सर्वे, कुर्वन्त्याज्ञा महर्निशम् ॥ २ ॥ ( युग्मम् ) गीतार्थस्य विराभ्यर्णे, नानाप्रन्थान् पठत्यसौ । अन्यदा मोहनीयेन, मोहितो मुनिमण्डले ॥ ३ ॥ मिक्षाकृते गते साधुमेकमादाय सत्वरम् । शरीरचिन्ताव्याजेन, व्रतं मोक्कुमना बहिः ॥ ४ ॥ गतस्तिरोहिते वृक्षैः, साधावुद्धावितस्ततः । एकस्मिन् वनखण्डे च फलपुष्पाकुलद्रुमे ॥ ५ ॥ विश्रान्तोऽसौ शमीवृक्षं, नीरसं बद्धपीठकम् । पथिकैः पूज्यमानं च, विलोक्येति व्यचिन्तयत् ॥ ६ ॥ चतुर्भिः कलापकं । अर्च्यते यदसौ लोकैर्बकुलादिषु सत्स्वपि । चिरन्तनैः कृतस्यास्य, तत्पीठस्य विजृम्भितम् ॥ ७ ॥ तन्नीरसः शमीवृक्षो, यादृशस्तादृशोऽस्म्यहम् । गीतार्थेषु कुलीनेषु, सत्स्वप्यन्येषु साधुषु ॥ ८ ॥ यन्निःशेषजनेभ्योऽहं लभे पूजामनेकधा । सर्वे गुर्वासनादीनां तन्माहात्म्यं विजृम्भते ॥ ९ ॥ ततस्तारुण्यमत्तेन, मयेदं धिग् विधित्सितम् । विचिन्त्येति निवृत्तोऽसौ, निजां वसतिमागतः ॥ १० ॥ बहिर्गतानामस्माकमाकस्मिकमजायत । शूलं वेला ततो लग्ना, साध्वादीनित्युवाच सः ॥ ११॥ प्रशमामृतमनोऽसौ गीतार्थेभ्यो रहस्यदः । सम्यक् सकलमालोच्य, प्रायश्चित्तं प्रपन्नवान् ॥ १२ ॥ द्रव्यतश्चितिकर्माभूत्, पुरा रागाढ्यचेतसः । प्रशान्तस्य पुनस्तस्य, भावतस्तदजायत ॥ १३ ॥ इदानीं कृतिकर्मणि कृष्णोदाहरणं
T
यथा— सुराष्ट्रमण्डले श्रीमद्वारमत्यामभूत्पुरि । निःसीमविक्रमावासो, वासुदेवो महीपतिः ॥ १ ॥ तस्य शालापतिर्भको, वीरको नाम सेवकः । वासुदेवमनालोक्य, यो न भुङ्क्ते कदाचन ॥ २ ॥ वासुदेवो न वर्षासु, कुरुते राजपाटिकाम् । बहवो हि विपद्यन्ते, जीवास्तस्यां तदा किल || ३ || अन्तरन्तःपुरं किन्तु, कृष्णः क्रीडति संततम् । अप्राप्नुवन् प्रवेशं च द्वाःस्थतो द्वारि वीरकः ॥ ४ ॥ गोमयालेपिकां कृत्वा, पुष्पैरभ्यर्च्य चाब्रजत् । नित्यं नाभुङ्क्त न श्मश्रुनखशुद्धिं व्यधापयत् ॥ ५ ॥ निवृत्तास्वथ वर्षासु, विधातुं राजपाटिकाम् । निर्गच्छन्तं नृपाः सर्वे, श्रीकान्तमुपतस्थिरे ॥ ६ ॥ मुदिते वीरकेऽथैत्य, प्रणते वेत्रिणं हरिः । पप्रच्छ किमयं जज्ञे, कृशो विच्छायविग्रहः ? ॥ ७ ॥ देवपादेष्वदृष्टेषु, नाकार्षीद्भोजनादिकम् । तेनायमीदृशो जात, इति वेत्री व्यजिज्ञपत् ॥ ८ ॥ तुष्टः प्रसादात् कृष्णोऽथ समभाषिष्ट वीरकम् । अवारितप्रवेशं च तं सर्वत्राप्यचीकरत् ॥ ९ ॥ इतश्च कृष्णोऽपि किल निःशेषाः, विवाहसमये निजाः । प्रणन्तुमागताः पादानिति पृच्छति पुत्रिकाः ॥ १० ॥ स्वामिन्यः किमु दास्यो वा, वत्सा ! यूयं भविष्यथ ? । वाश्व प्राहुर्भविष्यामः, स्वामिन्यस्त्वत्प्रसादतः ॥ ११ ॥ कृष्णोऽप्युवाच यद्येवं, वत्सानां सम्मतं तदा । सन्निधौ नेमिनाथस्य गृह्णीत व्रतमुत्तमम् ॥ १२ ॥ समस्तास्तास्ततस्तेन, कृतनिष्क्रमणोत्सवाः । ( प्रन्थानं १००० ) प्रव्रज्यां प्रत्यपद्यन्त, श्रीमन्नेमिजिनान्तिके ॥ १३ ॥ अन्येद्युरेकया राज्ञ्या, शिक्षिता निजपुत्रिका । अहं दासी भविष्यामीत्येवं वाच्यस्त्वया पिता ॥ १४ ॥ ततो विहितशृङ्गारा, जनन्या प्रेषिता सती । पृष्टा कृष्णेन पुत्री सा, ददौ शिक्षितमुत्तरम् ॥ १५ ॥ संसारे मा भ्रमन्त्वन्या, अप्यसाचिव मे सुताः । शिक्षये कथमेतां तत्, कृष्ण एवं व्यचिन्तयत् ॥ १६ ॥ लब्धोपायच पप्रच्छ, वीरकं स रहस्यदः । अरे पूर्व त्वया किश्वित् कर्म निर्मितमद्भुतम् ? ॥ १७ ॥ पुरतो निजनाथस्य, नर्मनिर्मितिहेतवे । अमन्दानन्दसन्दोहः, सोऽप्येवमवदत्ततः ॥ १८ ॥ शरीरचिन्तां कुर्वाणो, बदरीशिखरस्थितम् । सरटं लेष्टुनाऽऽहत्य, भूमौ पातितवानहम् ॥ १९ ॥ चक्रेोत्खातं वहन्नीरं, वर्षासु शकटाध्वना । धारितं वामपादेन, प्रतिश्रोतश्च तद्गतम् ॥ २० ॥ पायनीघटिकामध्ये, प्रविष्टो मक्षिकागणः । कुर्वन् गुमगुमारावं, कराभ्यामस्मि रुद्धवान् ॥ २१ ॥ हरिर्नृपसहस्राणामपरेद्युः सदस्यदः । अब्रवीद्वीरकस्यास्य शृणुतान्वयकर्मणी ॥ २२ ॥ येन रक्तस्फटौ नागो, निवसन्। बदरीवने । पातितो क्षितिशस्त्रेण, क्षत्रियः सैष वेमवान् ॥ २३ ॥ येन चक्रोत्क्षता गङ्गा, वहन्ती कलुषोदकम् । धारिता वामपादेन, क्षत्रियः सैष वेमवान् ॥ २४ ॥ येन घोषवती सेना, वसन्ती कलशीपुरे । धारिता वामहस्तेन, क्षत्रियः सैष वेमवान् ॥ २५ ॥ निर्व्याजक्षत्रियोऽप्येष जात उत्तरकर्मणा । तन्तुवायस्तदेवस्य, दास्यामि तनयां निजाम् ॥ २६ ॥ तेनाथ वीरकोऽभाणि, ददामि तव पुत्रिकाम् । सोऽप्यनिच्छन्नयोग्य
20