SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ दर्शनातिचारेषु वर्त्तते चारित्रे न वर्त्तते अतिचारान् वा न वर्जयति एवं स्वस्थ स्तिष्ठति पार्श्वस्थः] अनेन प्रन्थेन सर्वथाऽस्य पार्श्वस्थस्य न चारित्राभावोऽवसीयते, किंतु शबलितचारित्रयुक्तताऽपीति । "पंचेव पडिसेहेत्ति” द्वारमधुना, तत्राह वक्खितपराहुँत्ते पमत्ते मा कयाइ वंदिजा। आहारं व करिते नीहोरं वा जइ करेह ॥ १२४ ॥ पसंते आसणत्थे य, उवसंते उवहिए। अणुनवित्तु मेहावी, किइकम्मं पञ्जए ॥ १२५ ॥ आयप्पमाणमित्तो चउदिसिं होइ उग्गहो गुरुणो। अणणुनायस्स सया न कप्पए तत्थ पवि से ॥१२६ ॥ 'वक्खित्ते'त्यादि, व्याक्षिप्तं अनेकभविकलोकसङ्कलायां सभायां देशनाकरणादिना व्यनं १, पराहूतमिति केनापि कारणेन पराखं २, प्रमत्तं क्रोधनिन्द्रादिप्रमादेन मा कदाचिद्वन्देत ३, आहारं वा कुर्वाणं ४ नीहारं उच्चारं वा यदि करोति ५ तदा न वन्देतेति सम्बन्धः ॥ १२४ ॥ इह च धर्मान्तरायानवधारणप्रकोपाहारान्तरायलज्जावशपुरीषानिर्गमनादयो दोषा यथासयेन ज्ञातव्याः, एतद्विपक्षस्त्वत्रानुक्तोऽपि विज्ञेयः, यथा-'पसंते'त्यादि, तत्र प्रशान्तो व्याक्षेपविरहितः आसनस्थो-निषद्यास्थितः उपशान्त:-क्रोधादिप्रमादरहितः उपस्थितः -छन्देनेत्यादिवचनमुच्चारयन, शेषं सुगमम् ॥१२५॥ अथ 'एक्कोवगह'त्ति द्वारं तत्राह-'आयप्पमाणे'त्यादि, आत्मप्रमाणमात्रः-सार्धइस्तत्रयप्रमाणश्चतुर्दिशं भवत्यवग्रहो गुरोः, अननुज्ञातस्य गुरुणा न कल्पते तन्मध्ये प्रवेष्टुं, तत्रावग्रहणमवग्रहः, स च नामस्थापनाद्रव्यक्षेत्रकालभावभेदैः षड्डिधः, नामस्थापने सुगमे, द्रव्यस्य मुक्ताफलादेरवमहणं द्रव्यावग्रहः, यो यत्क्षेत्रमवगृहाति स क्षेत्रावग्रहः स च समन्ततः सक्रोशं योजनमेकस्मिन् क्षेत्रेऽवगृहीते सतीति, कालावग्रहो यो यं कालमवगृहाति, यथा ऋतुबद्धे मासमेकं वर्षासु चतुरो मासानिति, भावावग्रहो द्वेधा-प्रशस्तोऽप्रशस्तश्च, प्रशस्तो ज्ञानादीनामवग्रहः, अप्रशस्तश्च क्रोधादीनां, अथवाऽवग्रहः पंचधा-देविंदराजगहवई' [ देवेन्द्रराजगृहपति ] इत्यादिगाथया वक्ष्यमाणस्वरूपः ॥ १२६॥ अन च क्षेत्रावग्रहेण प्रशस्तभावावग्रहेण चाधिकारः। अथ 'पंचाभिहाण'त्ति द्वारमाह वंदणेचिईकिइकम्मं पूयार्केम्मं च विणयकम्मं च । वंदणयस्स इमाई हवंति नामाई पंचेव ॥ १२७ ॥ सीयले १ खुड्डए २ कण्हे ३, सेवए ४ पालए ५ तहा । पंचेए दिटुंता, किइकम्मे हुंति नायव्वा ॥ १२८॥ इह कर्मशब्दः क्रियावचनः प्रत्येक योज्यते, 'वंदणे'त्यादि, तत्र 'वदि अमिवादनस्तुत्योः' इत्यस्य वन्धते-स्तूयतेऽनेन प्रशस्तमनोवाकायच्यापारनिकरण गुरुरिति वन्दनं तदेव कर्म वन्दनकर्म, तद् द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मिथ्यादृष्टेरनुपयुक्तसम्यग्दृष्टेश्व, भावत उपयुक्तसम्यग्दृष्टेः, तथा चिम् चयने इत्यस्य चयनं-कुशलकर्मण उपचयकरणं चितिः सैव कर्म चितिकर्म, कारणे कार्योपचारात् कुशलकर्मोपचयकरणं रजोहरणाद्युपधिसंहतिः, तदपि द्वेधा-द्रव्यतो भावतच, द्रव्यतस्तापसादिलिङ्गग्रहणकर्म अनुपयुक्तसम्यग्दृष्टिरजोहरणायुपधिक्रिया च, भावतस्तु उपयुक्तसम्यग्दृष्टिरजोहरणादिकर्म, तथा करणं कृतिः-अवनामादिक्रिया सैव कर्म कृतिकर्म, तब द्वेधा-द्रष्यतो भावतश्च, द्रव्यतो निह्रवादीनामवनामादिकरणमनुपयुक्तसम्यग्दृष्टीनां वा, भावत उपयुक्तसम्यग्दृष्टीनां, तथा पूजनं पूजा-प्रशस्तमनोवाकायचेष्टा सैव कर्म पूजाकर्म, तदपि द्वेधा-द्रव्यतो भावतश्च, द्रव्यतो निहवादीनामनुपयुक्तसम्यग्दृशां वा भावत उपयुक्तसम्यग्दृष्टीना, तथा विनयनं विनयः, विनीयते विनाश्यते वाष्टप्रकारं कर्मानेनेति विनयः स एव कर्म विनयकर्म, तदपि द्वेधा-द्रव्यतो भावतश्च, द्रव्यतो निहवादीनामनुपयुक्तसम्यग्दृष्टीनां वा, भावत उपयुक्तसम्यग्दृष्टीनामिति । वन्दनकस्य इमानि भवन्ति पञ्चैव नामानीति ॥ १२७॥ 'पंचेव आहरण'त्ति द्वारं-'सीयले'त्यादि । शीतलको नृपतिः परित्यक्तराज्यसमृद्धिर्गृहीतसर्वशदीक्षोऽक्षुण्णेन तदीयगुणगणेन प्रमोदमानमानसैनिजगुरुमिर्विश्राणितश्रमणानन्ददायिसूरिपदो द्रव्यभावभेदमिन्ने वन्दनके उदाहरणं, तथा द्रव्यभावस्वरूपे चितिकर्मणि स्थविरैनिजगुरुमिगुरुपदस्थापितक्षुल्लक उदाहरणं, तथा तथाभूत एव कृतिकर्मणि प्रणमदनेकमहाप्रचण्डमण्डलेश्वरमण्डलीमौलिमण्डनमुकुटकोटिनिविष्टविशिष्टमाणिक्यमालातलसमुच्छलदनवरतस्फुरदरुणकिरणपुजपिश्चरितचरणकमलः शालापतिवीरककलितः कृष्णो दृष्टान्तः, तथा पूजाकर्मणि द्रव्यभावभेदमिन्ने सेवकद्वयमुदाहरणं, तथा विनयकर्मणि द्विविध एव पालकशाम्बावुदाहरणं, पश्चैते दृष्टान्ताः कृतिकर्मणिसामान्यतो वन्दनके भवन्ति ज्ञातव्याः॥ १२८ ॥ उदाहरणानि चैतानि सङ्केपतः कथ्यन्ते, तत्र भावतः शीतलकोदाहरणं यथा अवनीवनिताभालतिलके श्रीपुरे पुरे । प्रतापाक्रान्तदिक्चक्रः, मापालः शीतलोऽजनि ॥१॥ सर्वज्ञशासनक्षीरनीरधौ सद्गतिस्तुतः । शुद्धपक्षद्वयो राजहंसः क्रीडति यः सदा ॥२॥ तस्याभूगिनी भाग्यसौभाग्यैकनिकेतनम् । सद्धर्मकर्म निर्माणपरा शृङ्गारमञ्जरी ॥३॥ सा च विक्रमसिंहस्य, राज्ञी जाता जगत्पते । सलक्षणं क्रमात्पुत्रचतुष्टयमजीजनत् ॥ ४॥ शीतलश्च महीपालश्वारुवैराग्यरजितः । श्रीधर्मघोषसूरीनामन्तिके अवमत्रहीत् ॥ ५॥ तं च विज्ञातसिद्धान्ततत्त्वं गीतार्थशेखरम् । गुरवस्तद्गुणेस्तुष्टाः, स्वपदेऽथ न्यवीविशन् ॥ ६॥ अन्येधुर्निजपुत्राणां, कलाकौशलशालिनाम् । शृङ्गारमञ्जरी राशी, रहस्येवमवोचत ॥७॥ वत्सा ! यौष्माक एवैकः, श्लाघ्यो जगति मातुलः । येन साम्राज्यमुत्सृज्य, जगृहे व्रतमुत्तमम् ॥ ८॥ यश्च निःशेषशास्राब्धिपारदृश्वा मुनीश्वरः । निस्सङ्गं विहरन्नित्यं, प्रबोधयति देहिनः ॥ ९॥ पचेलिमं यथाऽाहि, संसारस्यामुना फलम् । तथा वत्सास्तदादातुं, भव 19
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy