SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ पदानि स्वयमेव व्याचष्टे- 'सोहग्गाइ निमित्तं' इत्यादि, सौभाग्यं - जनमान्यताऽपत्यादिनिमित्तं परेषां - योषिदादीनां त्रिकचतुष्कचत्वरादिषु विविधौषधीमिश्रितजलस्नानमूलिकाबन्धनादि यत् क्रियते तत्कौतुकं भणितं, यद्वा कौतुकं नाम आश्चर्यम्, यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन नाशिकया वा निष्काशयति तथा मुखादग्निं निःसारयतीत्यादि तत्कुर्वन्नसौ चरणकुशीलो भवतीति द्रष्टव्यं, एवमुत्तरत्राऽपि, ज्वरितादीनामभिमन्त्रितरक्षाप्रदानं शय्यादीनां चतुर्दिशं भूतिकर्म विनिर्दिष्टम् ॥ ११२ ॥ 'सुविणगे'त्यादि, केनापि स्वामिमतं वस्तु पृष्टमपृष्टं वा स्वप्ने विद्यया जपितया कथितं 'आइंखण'त्ति कर्णपिशाचिकया घण्टिकादिभिर्वा मन्त्राभिषिक्ताभिः कथितं यत्कथ्यते अन्येषां प्रश्नाप्रश्नं भवत्येतत् ॥ ११३ ॥ ' तीयाई'त्यादि, अतीतवर्तमानभविष्यत्कालत्रयवर्तिलाभालाभादिभावकथनं भवति निमित्तं इदं तु वक्ष्यमाणमाजीव्यत इत्याजीवं जात्यादिसप्तविधं यथा कञ्चन भिल्लमालादिजातीयमीश्वरं दृष्ट्वा प्राह – अहमपि मिल्लमालादिजातीयः, स चैकजातिसम्बन्धात्तस्य मिक्षादानादिकां प्रतिपत्तिं करोति इति जात्युपजीवी, एवं वयं भवन्तचैककुलशिल्पकर्मतपोगणवर्तिन इत्यादिवचनविरचनया कुलाद्याजीवी, आहारादिगृद्ध्यैव तपः सूत्राभ्यासप्रकटनं कुर्वाणश्च तपःसूत्राजीवी, तत्र कुलं—उप्रादिकं पितृसमुत्थं वा शिल्पं - विज्ञानमाचार्यशिक्षाकृतं कर्म - स्वयंशिक्षितं "साचार्यकं शिल्पम् अनाचार्यकं कर्मेति वचनात्, तपोऽनशनादिकं, गणो मलगणादिः, 'गुण' इति च पाठोऽशुद्ध इव लक्ष्यते निशीथादिभिर्व्यभिचारात्, सूत्र- कालिकादि, आदिशब्दः स्वगतानेकभेदसंसूचकः ।। ११४ ॥ कल्ककुरुका पुनः काऽभिधीयत इत्याह- 'कक्क कुरुके 'ति माया, अत्रैव तात्पर्यमाह - निकृत्याशाठ्येन परेषां दम्भनं–वश्वचनमिति यदुक्तं भवति, अन्ये तु कल्ककुरुकाशब्दार्थमित्थमाचक्षते - यथा कल्को नाम प्रसूत्यादिषु रोगेषु क्षारपातनं भथवाऽऽत्मनः शरीरस्य देशतः सर्वतो वा लोधादिभिरुद्वर्तनं, तथा कुरुका देशतः सर्वतो वा शरीरस्य प्रक्षालनमिति स्त्रीलक्षणादीनि आदिशब्दात् पुरुषलक्षणादिपरिप्रहस्तेषां कथनं, यथा – “अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गवौ यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥" इत्यादिसामुद्रिकलक्षणकथनं, विद्यामन्त्रादयः प्रकटाः, तत्र देव्यधिष्ठायिका विद्याः देवाधिष्ठायकस्तु मन्त्रः ससाधना वा विद्या निःसाधनस्तु मत्र इति, आदिशब्दान्मूलकर्मचूर्णादिपरिग्रहः, तत्र मूलकर्म पुरुषद्वेषिण्याः सत्या अपुरुषद्वेषिणीकरणं अपुरुषद्वेषिण्याः सत्याः पुरुषद्वेषिणीकरणं गर्भोत्पादनं गर्भपातनमित्यादि चूर्णयोगादयस्तु प्रकटाः, उपलक्षणमात्रं चैतत्, अतः शेषमपि शरीरविभूषादिकं चरणमालिन्यजनकं कुर्वाणश्चरणकुशील इत्यर्थः ॥ ११५ ॥ इदानीं संसक्तमाह - 'संसत्तो उ' इत्यादि, गुणैदेषैिश्च संसज्यते - मिश्रीभवतीति संसक्तः, तुशब्दोऽप्यर्थः, ततो यथा पार्श्वस्थावसन्नकुशीला वन्दनका न भवन्ति तथा संसक्तोऽपीत्यर्थः, स पुनरित्थं ज्ञातव्यो यथा गवादीनां खादनकलिन्दके उच्छिष्टमनुच्छिष्टं वा भक्तखलकर्पासादिकं क्षिप्तं सत् सर्वं प्राप्यते ॥ ११६ ॥ 'एमेवेत्यादि, एवमेव - कलिन्दकक्षिप्तभक्तखलादिवत् प्राणातिपातनिवृत्त्यादिस्वरूपमूलगुणाः पिण्डविशुद्ध्यादिस्वरूपोत्तरगुणाश्च बहवो दोषाश्च तद्व्यतिरिक्तास्ते सर्वेऽपि तस्मिन् सन्निहिताः प्राप्यन्ते संसक्तो भण्यते तस्मात् ॥ ११७ ॥ ' सो दुविगप्पो' इत्यादि, संसक्तो द्विविकल्पो भणितो जिनैर्जितरागदोषमोहैः एकश्च संङिष्टोऽसंविष्टस्तथा अन्यः ॥ ११८ ॥ तत्र संक्लिष्टमाह - 'पंचासवे' त्यादि, पञ्चाश्रवाः - प्राणातिपातादयस्तेषु प्रवृत्तो यः खलु त्रिषु गौरवेषु - ऋद्धिगौरवादिषु प्रतिबद्धः 'इत्थी गिहिसं कि लिट्ठो' त्ति स्त्रीसंक्लिष्टो गृहिसंक्लिष्टश्च तत्र स्त्रीप्रतिषेवी स्त्रीसंडिष्टः गृहिसम्बन्धिनां द्विपदचतुष्पदधनधान्यादीनां तु तप्तिकरणप्रवृत्तो गृहिसंष्टिष्टः, स संसक्तः संक्लिष्टः ॥ ११९ ॥ असंक्लिष्टमाह - 'पासत्थाइ' इत्यादि, पार्श्वस्थादिषु मिलितस्तद्रूपतां भजते, संविग्नेषु मिलितः संविनमिवात्मानं दर्शयति, तत्र तत्र तादृशो भवतीत्यर्थः, स च प्रियधर्मोऽथवा इतरस्तु - अप्रियधर्मो भवतीति ॥ १२० ॥ इदानीं यथाछन्दमाह–‘उस्सुत्त’मित्यादि, सूत्रादूर्द्धमुत्तीर्णं परिभ्रष्टमित्यर्थः उत्सूत्रं तदाचरन् -स्वयं सेवमानः उत्सूत्रमेव च यः परेभ्यः प्रज्ञापयन् वर्तते एष यथाछन्दः, एतस्यैव पर्यायमाह – “ इच्छा छंद" इति एकार्थं नामेति ॥ १२१ ॥ अत्र च किमिदमुत्सूत्रमिति परिप्रक्षे सत्याह—‘उस्सुत्त’मित्यादि, उत्सूत्रं यज्जिनादिभिरनुपदिष्टं स्वच्छन्देन - स्वाभिप्रायेण विकल्पितं - उत्प्रेक्षितं अत एव सिद्धान्ताननुपातिस्वकीयबुद्धिरचितत्वेन जैनागमानुयायि न भवतीत्यर्थः, यथाछन्दस्यैव गुणान्तरमाह —— परतप्तिषु - गृहस्थप्रयोजनेषु करणकारणानुमतिमिः प्रवृत्तः परतप्तिप्रवृत्तः, तथा तिंतिणो नाम यः स्वल्पेऽपि केनचित्साधुनाऽपराद्धे पुनः पुनरनवरतं झषन्नास्ते एष यथाच्छन्दः ॥ १२२ ॥ तथा - 'सच्छंदे 'त्यादि, स्वच्छन्दा-आगमनिरपेक्षा याऽसौ मतिस्तया विकल्प्य किच्चिदालम्बनमध्ययनादिकं ततः सुखमास्वादयतीति सुखात्वादः स चासौ विकृतिप्रतिबद्धश्च स तथा अपुष्टालम्बनं किंचिद्विकल्प्य यः सुखलिप्सुर्विकृतिप्रतिबद्धो भवतीत्यर्थः, तथा त्रिमिगौरवैः - ऋद्धिरससातलक्षणैयों माद्यति तं जानीहि यथाछन्दमिति ॥ १२३ ॥ अत्र च पार्श्वस्थं सर्वथैवाचारित्रिणं केचिन्मन्यन्ते तच्च न युक्तियुक्तं प्रतिभासते सहृदयानां यतो यद्येकान्तेनैव पार्श्वस्थोऽचारित्री भवेत् तर्हि सर्वतो देशतश्च इति विकल्पद्वयकल्पनमसङ्गतं भवेत्, चारित्राभावस्योभयत्रापि तुल्यत्वात्, तस्मादेव भेदद्वयकल्पनाद् ज्ञायते सातिचारचारित्रसत्तापि पार्श्वस्थस्य, न चेदं स्वमनीषिकयोच्यते, यतो निशीथचूर्णावप्येवं दृश्यते – “पासत्थो अच्छइ सुत्तपोरिसिं अत्थपोरिसिं च नो करेइ, दंसणाइयारेसु वट्ट, चारितेन बट्ट, अइयारे वा न वज्जेइ, एवं सत्यो अच्छइ पासत्थो" त्ति [ पार्श्वस्यस्तिष्ठति सूत्रपौरुष अर्थपौरुषीं च न करोति, 18
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy