________________
गोभत्तलंदए चेव । उच्छिट्ठमणुच्छि8 जं किंचिच्छुब्भए सव्वं ॥ ११६ ॥ एमेव य मूलुत्तरदोसा य गुणा य जत्तिया केई । ते तंमी(य) सन्निहिया संसत्तो भण्णए तम्हा ॥११७॥सो दुवि. गप्पो भणिओ जिणेहिँ जियरागदोसमोहेहिं । एगो उ संकिलिट्ठो असंकिलिट्ठो तहा अन्नो ॥ ११८ ॥ पंचासवप्पसत्तो जो खलु तिहिं गारवेहिं पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तो संकिलिट्ठो उ ॥ ११९॥ पासत्थाईएसुं संविग्गेसुं च जत्थ मिलई उ । तहि तारिसओ होई पियधम्मो अहव इयरो उ ॥ १२० ॥ उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ॥ १२१ ॥ उस्सुत्तमणुवइ8 सच्छंदविगप्पियं अणणुवाई । परतत्तिपवत्ती तिंतिणो य इणमो अहाच्छंदो ॥ १२२ ॥ सच्छंदमइविगप्पिय किंची सुहसायविगइपडि
बद्धो । तिहिं गारवेहिं मजइ तं जाणाही अहाछंदं ॥ १२३ ॥ 'पासत्थो'इत्यादि पार्श्वस्थः अवसन्नो भवति कुशीलस्तथैव संसक्तः यथाछन्दोऽपि च एते अवन्दनीया जिनमते, तत्र पार्श्वेतटे ज्ञानादीनां यस्तिष्ठति स पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशा इव पाशास्तेषु तिष्ठतीति पाशस्थः, स च द्विभेदःसर्वतो देशतश्च, तत्र सर्वतो यः केवलवेषधारी सम्यग्ज्ञानदर्शनचारित्रेभ्यः पृथक तिष्ठति, देशतः पुनः पार्श्वस्थः स यः कारणं तथाविधमन्तरेण शय्यातराभ्याहृतं नृपतिपिण्डं नैत्यिकममपिण्डं वा भुले तथा ममैवैतानि कुलान्याभाव्यानि नान्यस्येति यः कुलनिश्रया विहरति तथा गुर्वादीनां योग्यानि स्थापनाकुलानि यः कारणमन्तरेणैव प्रविशति ॥ १०३ ॥ तदेवाह-'सो पासे'त्यादि-व्याख्यातोऽर्थः नवरं प्रतिदिनं तवैतावन्मानं दास्यामि मद्गृहे नित्यमागन्तव्यमिति निमश्रितस्य नित्यं गृहतो नित्यपिण्डः, तत्क्षणोत्तीणौदनादिस्थाल्या अव्यापारिताया या शिखा-उपरितनभागलक्षणा सोऽप्रपिण्डः ॥ १०४-१०५ ॥ अवसन्नमाह-'ओसन्नो'इत्यादि, सामाचारीविष. येऽवसीदति-प्रमाद्यति यः सोऽवसन्नः, सोऽपि द्विविधः-सर्वतो देशतश्च, तत्रावबद्धपीठफलकः स्थापनाभोजी च सर्वावसन्नो ज्ञातव्यः ॥ १०६ ।। तत्रैककाष्ठनिष्पन्नसंस्तारकालाभे बहुभिरपि वंशादिकाष्ठखण्डैर्दवरकादिबन्धान दत्त्वा वर्षासु संस्तारकः क्रियते, स च पक्षसन्ध्यादिषु बन्धानपनीय प्रत्युपेक्षणीय इति जिनाज्ञा, यस्त्वेवं न प्रत्युपेक्षते सोऽवबद्धपीठफलकोऽभिधीयते, अथवा पुनः पुनः शयनादिनिमित्तं नित्यमास्तीर्णसंस्तारक एव एकान्तानास्तीर्णसंस्तारक एव वा य आस्ते स एवमभिधीयते, स्थापनादोषदुष्टप्राभृतिकाभोजी चस्थापितकभोजी । देशावसन्नमाह-'आवे'त्यादि, आवश्यकं प्रतिक्रमणादि, स्वाध्यायः-वाचनादिः आवश्यकं च स्वाध्यायश्चेति समाहारस्तस्मिन् , मुखवस्त्रिकादेः प्रत्युपेक्षणायां भिक्षायां-गोचरचर्यायां ध्यान-धर्मध्यानादिलक्षणे भक्तार्थे--भोजने भोजनमण्डल्यामितियावत् आगमने-बहिर्भागादुपाश्रयप्रवेशलक्षणे निर्गमने-प्रयोजनापेक्षया उपाश्रयावहिर्गमनस्वरूपे स्थाने कायोत्सर्गायुर्दावस्थाने निपीदने-उपवेशने त्वग्वर्तने-शयने इति सर्वत्र सप्तमीनिर्देशो द्रष्टव्यः ॥ १०७ ॥ ततश्चैतेष्वावश्यकादिषु विषये देशावसन्नो भवतीति शेषः, कदेत्याह-'आवे'त्यादि, यदैतान्यावश्यकखाध्यायादीनि स्थानानि सर्वथा न करोत्यथवा हीनाधिकानि करोति प्रतिषिद्धकालकरणादिदोषदुष्टानि वा करोति तदा देशावसन्नो भवतीत्यर्थः, इदमत्र तात्पर्य-यः प्रतिक्रमणाद्यावश्यकं न करोति हीनाधिक्यादिदोषदुष्टं वा करोति स्वाध्यायं न करोति प्रतिषिद्धकालकरणादिदोषदुष्टं वा करोति प्रत्युपेक्षणमपि न करोति दोषदुष्टं वा करोति आलस्यवश्यः सुखलिप्सुर्भिक्षायां न पर्यटति अनुपयुक्तो वा पर्यटति अनेषणीयं वा गृह्णाति, ध्यानं शुभं यथा-"कि मे कई किं च मे किवसेसं, किं सकणिजं न समायरामि" ॥ [ किं मया कृतं किं च मे कृत्यं शेष किं शक्यं न समाचरामि ] इत्यादिलक्षणं पूर्वापररात्रकाले न ध्यायति अशुभं वा ध्यायति भक्तार्थे मण्डल्यां न मुङ्क्ते कदाचिद्वा भुक्ते काकशृगालादिभक्षितं वा करोति मण्डलीसम्बन्धिसंयोजनादिदोषदुष्टं वा भुङ्क्ते, अन्ये त्वाहुः-'अब्भत्त'त्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणं, ततोऽयमर्थः-प्रत्याख्यानं न करोति गुरुणा वा भणितो गुरुसम्मुखं किंचिदनिष्टमुक्त्वा करोति आगमने नैषेधिक्यादिसामाचारी न करोति निर्गमनेऽप्यावश्यकादिसामाचारी न करोति कायोत्सर्ग गमनागमनादिषु न करोति दोषदुष्टं वा करोति निषदनशयनक: सन्दशकभूप्रमार्जनादिसामाचारी न करोति, 'गुरुवयण'त्ति सामाचारीवितथाचरणादिकरणेष्वावश्यकवेलादौ सम्यगालोचय प्रायश्चित्तं प्रतिपद्यस्वेत्यादि गुरुणा भणितः सन् तद्वचनं प्रतिवलति-सम्मुखीभूयानिष्टं किञ्चिजल्पति न तु गुरुवचस्तथैवानुतिष्ठति भणितः स एष देशावसन्नः, उपलक्षणं चेदं, ततः स्खलितेषु मिथ्यादुष्कृतं न दत्ते गुरवे वैयावृत्यं न करोति संवरणादिषु वन्दनकं न दत्ते आदाननिक्षेपणादिषु प्रत्युपेक्षणाप्रमार्जने न करोति इत्याधन्यदपि सामाचारीवितथाचरणं देशपार्श्वस्थतादिकारणमिति ।। १०८॥ अथ शीलमाह-'तिविहो होई'त्यादि, कुत्सितं शीलमस्येति कुशीलः, स त्रिविधो भति-ज्ञानविषये दर्शनविषये चारित्रविषये च, एषोऽवन्दनीयो-वन्दनानहः प्रज्ञप्तो वीतरागैः-अर्हद्भिः ॥१०९॥ तत्र ज्ञानकुशीलदर्भकशीली लक्षणतः प्राह-नाणे इलादि, ज्ञानाचारं-काले विणए' इत्यादिकमष्टप्रकारं यो विराधयति-न सम्यगनुतिष्ठति ए.ज्ञाने-ज्ञान विषये कुशीलो भवति, दर्शनाचारं 'निस्संकिय निकंखिय' इत्यादिकमष्टप्रकारं यो विराधयति स दर्शनेदर्शनविषये कुशीलः, चरणकुशीलः पुनरयं-वक्ष्यमाणलक्षणो भवति ॥११०॥ तमेवाह-'कोउय भूई'त्यादि दारगाहा, कौतुकभूतिकमणी प्राप्रभो निमित्तं आजीविका करमाकुरको चः समुच्चये लक्षणं विद्यामत्रादिकं च य उपजीवति स चरणकुशीलः॥१११॥ एतानि
17