________________
विज्ञानफलं, विज्ञानं प्रत्याख्यानफलं प्रत्याख्यानं संयमफलं संयमोऽनाश्रवफलः अनाश्रवः तपः फलः तपो व्यवदानफलं व्यवदानमक्रियाफलं अक्रिया सिद्धिगतिगमनफला] इत्यादि, तत्र 'अणण्हए' इति अनाश्रवो नवकर्मानादानमित्यर्थः, 'वोदाण'त्ति व्यवदानंविशुद्धिः पूर्वक्षपणमित्यर्थः ॥ १०० ॥ 'छच्चेव हवंति गुरुवयण'त्ति द्वारं, तत्राह
छंदे ऽणुजाणांमि तहन्ति तुन्भंपि वैहए एवं । अहमवि खामेमि तुमे वयणाई वंदणऽरिहस्स ॥ १०१ ॥
'छंदेणे'त्यादि, इह हि शिष्येण गुरोः वन्दनकं दातुकामेन 'इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निस्सीहियाए' इत्युक्ते गुरुर्यदि व्याक्षेपबाधायुक्तस्तदा भणति - प्रतीक्षस्वेति, तच्च बाधादिकारणं यदि कथनयोग्यं भवति तदा कथयति अन्यथा तु नेति चूर्णिकारमतं, वृत्तिकारस्य तु मतं त्रिविधेनेति भणति, मनसा वचसा कायेन निषिद्धोऽसीत्यर्थः, ततः शिष्यः सङ्क्षेपवन्दनं करोति, व्याक्षेपादिरहितद्गुरुस्तदा वन्दनकमनुज्ञातुकामश्छन्देनेति वदति, छन्देन - अभिप्रायेण ममाप्यभिप्रेतमेतदित्यर्थः, ततः शिष्येण 'अणुजाणह मे मिउग्गह' मित्युक्ते गुरुराह-अनुजानामीति अनुज्ञातस्त्वं प्रविश ममावग्रहमित्यर्थः, ततः शिष्येण 'निस्सीहीत्यादि दिवसो वइकंतो' इति पर्यन्ते सूत्रे भणिते गुरुराह - तथेति यथा भवान् ब्रवीति, अस्माकं शुभेन दिवसो व्यतिक्रान्त इत्यर्थः, ततः शिष्येण 'जत्ता भे' इत्युक्ते गुरुर्वदति - युष्माकमपि वर्तते ? इति मम तावत् संयमतपोनियमादिलक्षणा यात्रा उत्सर्पति, भवतामप्युत्सर्पतीत्यर्थः, ततः पुनरपि विनेयेन 'जवणिज्जं च भे' इत्युक्ते गुरुर्भणति - 'एव' मिति इन्द्रियनोइन्द्रियोपशमादिना प्रकारेणाबाधितं वर्तते मम शरीरमित्यर्थः, ततो भूयोऽपि शिष्येण 'खामेमि खमासमणो ! देवसियं वइक्कम' मित्युक्ते गुरुर्वक्ति-अहमपि क्षमयामि स्वामिति, दैवसिकं व्यतिक्रमं प्रमादोद्भवमहमपि त्वां क्षमयामीत्यर्थः एवं वचनानि - आलापकाः षट् वन्दनार्हस्य – वन्दनकयोग्यस्य भवन्तीति ॥ १०१ ॥ अथ 'अहिगारिणो य पंच उत्ति द्वारं, तत्राह - आयरियं उवज्झाए पवत्तिं थेरे
तहेव रायणिए । एएसिं किइकम्मं कायव्वं निज्जरट्ठाए ॥१०२॥
'आयरिये 'त्यादि, अधिकारिणो-वन्दनकस्य योग्याः पञ्च - आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां पञ्चानां कृतिकर्म - वन्दनकं कर्तव्यं निर्जरार्थ, तत्राऽऽचर्यते - सेव्यते कल्याणकामैरित्याचार्य:- सूत्रार्थोभयवेत्ता प्रशस्तसमस्तलक्षणलक्षितक्षेत्रो गाम्भीर्यस्यैर्यधैर्यादिगुणगणमणिभूषितच, उप-समीपे समागत्याधीयते - पठ्यते यस्मादसावुपाध्यायः, तथा चैतत्स्वरूपम् – “सम्मत्तनाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजोगो सुत्तं वाएउवज्झाओ ॥ १ ॥” इति । [ सम्यक्त्वज्ञान संयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः ॥ १ ॥ ] यथोचितं प्रशस्तयोगेषु साधून प्रवर्तयतीति प्रवर्तकः, यदुक्तम् — “तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहं च नियत्तेइ गणतत्तिल्लो पवत्तीओ ॥ १ ॥” [ तपः संयमयोगेषु यो योग्यस्तत्र तं प्रवर्तयति । असमर्थ च निवर्त्तयति गणतप्तिपरः प्रवर्त्तकः ॥ १ ॥ ] तथा सीदतः साधून ज्ञानादिषु ऐहिकामुष्मिकापायदर्शनतः स्थिरीकरोतीति स्थविरः, उक्तं च"थिरकरणा पुण थेरो पवत्तिवावारिए अत्थेसुं । जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥ १ ॥” [ स्थिरकरणात् पुनः स्थविरः प्रवर्त्तकव्यापारितेष्वर्थेषु । यो यत्र सीदति यतिः विद्यमानबलस्तं स्थिरं करोति ॥ १ ॥ ] रत्नाधिकः - पर्यायज्येष्ठः, एतेषां कृतिकर्म विधेयं ॥ १०२ ॥ अथ 'इयरे पंचेव'त्ति द्वारं, तत्राऽऽह —
पासत्थो १ ओसन्नो २ होइ कुसीलो ३ तहेव संसत्तो ४ । अहछंदोवि अ एए अवंदणिजा जिणमयंमि ॥ १०३ ॥ सो पासत्थो दुविहो सव्वे देसे य होइ नायव्वो । सव्वंभि नाणदंसणचरणाणं जो उ पासंमि ॥ १०४ ॥ देसंमि य पासत्थो सेज्जायरऽभिहडरायपिण्डं च । नीयं च अग्गपिण्डं भुंजई निक्कारणे चेव ॥ १०५ ॥ ओसन्नोवि य दुविहो सव्वे देसे य तत्थ सव्वंमि । अवबद्धपीढफलगो ठवियगभोई य नायव्वो ॥ १०६ ॥ आवस्सयसज्झाए पडिलेहणभिक्खझाणभत्तट्ठे । आगमणे निग्गमणे ठाणे य निसीयणतुयट्टे ॥ १०७ ॥ आवस्सयाइयाई न करेइ अहवा विहीणमहियाई । गुरुवयणवला य तहा भणिओ देसावसन्नोति ॥ १०८ ॥ तिविहो होइ कुसीलो नाणे तह दंसणे चरिते य । एसो अवंदणिजो पन्नत्तो वीयरागेहिं ॥ १०९ ॥ नाणे नाणायारं जो उ बिराइ कालमाईयं । दंसण दंसणयारं चरणकुसीलो इमो होइ ॥ ११० ॥ को भूकम्मे परिणापसिणे निमित्तमाजीवी । कक्ककरुयाइ लक्खणं उवजीवह विज्जमंताई ॥ १११ ॥ सोहग्गाइनिमित्तं परेसि ण्हवणाइ कोउयं भणियं । जरियाइभूइदाणं भूईकम्मं विणिहिं ॥ ११२ ॥ सुविणगविज्जाकहियं आईखणघंटियाइकहणं वा । जं सासह अन्नेसिं परिणापसिणं हवइ एयं ॥ ११३ ॥ तीयाइभावकहणं होइ निमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे तवगण सुत्ताइ सत्तविहं ॥ ११४ ॥ कक्ककुरुया य माया नियडीए डंभांति जं भणियं । लक्खणाइ लक्खण विज्जामंताइया पयडा ॥ ११५ ॥ संसन्तो उ इयाणिं सो पुण
16