________________
रजोहरणमुखवस्त्रिकाचोलपट्टकमात्रया श्रमणो जातो भालतलघटितकरसम्पुटस्तु योन्या निर्गतः एवम्भूत एव च वन्दनकं ददाति तदव्यतिरेकाद्वन्दनकमपि यथाजातमभिधीयते, कृतिकर्म-वन्दनकं द्वादश आवर्ताः -सूत्राभिधानगर्भाः कायव्यापारा यस्मिंस्तद् द्वादशावर्त, इह च प्रथमप्रविष्टस्य 'अहो १ कार्य २ कायसंफासं ३ खमणिजो भे किलामो अप्पकिलंताणं बहुसुभेण भे दिवसो वइकंतो ?, जत्ता भे ४ जवणि ५ जं च भे ६' इति सूत्रगर्भा गुरुचरणकमलन्यस्तहस्तशिरः स्थापनरूपाः षट् आवर्ताः भवन्ति, निष्क्रम्य पुनः प्रविष्टस्याप्येत एव षडिति मिलिता द्वादश 'चउस्सिरं ति चत्वारि शिरांसि - उपचाराच्छिरो ऽवनमनानि यत्र तच्चतुः शिरो वन्दनकं, तत्र प्रथमप्रविष्टस्य 'खामेमि खमासमणो ! देवसियं वइक्कमं' इति भणतः शिष्यस्य एकं शिरः 'अहमवि खामेमि तुमे' इति वदत आचार्यस्य द्वितीयं शिरः पुनरपि निष्क्रम्य प्रविष्टस्य क्षामणाकाले एवमेव शिरोद्वयं ज्ञेयमिति चतुः शिरो वन्दनकं, अन्यत्र पुनरेवं दृश्यते— “संफा सनमणे एगं खामणानमणे सीसस्स बीयं, एवं बीयपवेसेवि दोन्नि” इति [ संस्पर्शनमने एकं क्षामणानमने शिष्यस्य द्वितीयं, एवं द्वितीयप्रवेशेऽपि द्वे ] 'तिगुत्तं'त्ति तिस्रो गुप्तयो यत्र तत् त्रिगुप्तं, मनसा सम्यक् प्रणिहितः वाचाऽस्खलितान्यक्षराण्युश्चारयन् कायेनाऽऽवर्तानविराधयन् वन्दनकं करोति, चशब्दोऽवधारणे, 'दुपवेसं'ति द्वौ प्रवेशौ यस्मिन् तद् द्विप्रवेशं, प्रथमो गुरुमनुज्ञाप्य प्रविशतः द्वितीयः पुनर्निर्गत्य प्रविशत इति, 'एगनिक्खमणं' ति एकं निष्क्रमणं गुरोरवप्रहादावश्यिक्या निर्गच्छतो यत्र तत्तथा इत्यावश्यक पञ्चविंशतिः ॥ ९८ ॥ 'छट्ठाणे 'ति द्वारमधुना -
ईच्छा य अणुण्णवेणा अब्याबाहं च जेंस जवणाँ य । अवराहखामणवि य छट्ठाणा हुंति वंदणए ॥ ९९ ॥
'इच्छा य अणुण्णवणे'त्यादि, इच्छा चानुज्ञापना अव्याबाधं च यात्रा च यापना चापराधक्षामणा अपि च षट् स्थानानि भवन्ति वन्दनके इति गाथासंस्कारः । तत्रेच्छा नामस्थापनद्रव्यक्षेत्रकालभावभेदैः षडिधा, तत्र नामस्थापने क्षुण्णे, द्रव्येच्छा सचित्तावि द्रव्यामिलाषोऽनुपयुक्तस्य वेच्छामीत्येवं भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलाषः, कालेच्छा रजन्यादिकालाभिलाषः, यथा - " रयणीममिसारिआओ चोरा परदारिया य इच्छंति । तालायरा सुभिक्खं बहुधन्ना केइ दुब्भिक्खं ॥ १ ॥” [ रजनीमभिसारिकाः चौराः पारदारिकाचेच्छन्ति । तालाचराः सुमिक्षं बहुधान्याः केचिद् दुर्भिक्षम् ॥ १ ॥] भावे इच्छा प्रशस्तेतरभेदाद्विधा, प्रशस्ता ज्ञानाद्यभिलाषः अप्रशस्ता कामिन्याद्यनुरागामिलाषः, अत्र च प्रशस्तभावेच्छयाऽधिकारः । इदानीमनुज्ञापना, साऽपि नामादिभि: षङ्गेदा, तत्र नामस्थापने सुगमे, द्रव्यानुज्ञापना त्रिधा— लौकिकी लोकोत्तरा कुप्रावचनिकी च, तत्र लौकिकी सचित्ताचित्तमिश्रभेदैविधा अश्वाद्यनुज्ञापना प्रथमा मुक्ताफलवैडूर्याद्यनुज्ञापना द्वितीया विविधाऽऽभरणविभूषितवनिताद्यनुज्ञापना तृतीया, लोकोत्तराऽपि सचित्तादिभेदैस्त्रिविधा - शिष्याद्यनुज्ञा प्रथमा वस्त्राद्यनुशा द्वितीया परिहितवस्त्रादिशिष्याद्यनुज्ञा तृतीया, एवं कुप्रावचनिक्यपि त्रेधाऽवगन्तव्या, क्षेत्रानुज्ञापना यावतः क्षेत्रस्यानुज्ञापनं विधीयते यस्मिन् क्षेत्रेऽनुज्ञा व्याख्यायते क्रियते वा, एवं कालानुज्ञापनापि, भावानुज्ञापना आचाराद्यनुज्ञापना, एषा चात्र प्राह्मा । 'अब्बाबाई' ति न विद्यते व्याबाधा यत्र तदव्याबाधं वन्दनं, सा च व्याबाधा द्रव्यतो भावतश्च, द्रव्यतः खङ्गाद्यभिघातकृता, भावतो मिध्यात्वादिकृता, सा द्विरूपाऽपि न विद्यते यत्रेति, एतच 'बहुसुभेण भे' इत्यादिना कथितं, 'जत्त'त्ति यात्रा द्विविधा - द्रव्यतो भावतश्च, द्रव्यतस्तापसादीनां मिथ्यादृशां स्वक्रियोत्सर्पणं भावतः साधूनामिति । 'जवणाय'त्ति यापनाऽपि द्विधा - द्रव्यतो भावतश्च द्रव्यतः शर्कराद्राक्षादिसदौषधैः कायस्य समाहितत्वं, भावतस्तु इन्द्रियनोइन्द्रियोपशान्तत्वेन शरीरस्य समाहितत्वं । क्षामणाऽपि द्रव्यतो भावतश्च द्रव्यतः कलुषाशयस्म इहलोकापायभीरोः भावतस्तु संविद्मचिंत्तस्य संसारभीरोरिति, एवं षट् स्थानानि वन्दनके भवंति ॥ ९९ ॥ ' छच्च गुण'ति द्वारमधुना, तत्र कश्चित्पृच्छति - को गुणोऽनेन वन्दनकेन दीयमानेन सम्पद्यते यदर्थमीदृशः क्लेशः क्रियते ? तव आह
विर्णओवयार माणस्स भर्जणा पूअणा गुरुजणस्स । तित्थयराण य आँणा सुयधम्मौराहणाकिरियाँ ॥ १०० ॥
'विणओ' इत्यादि, विनयति - विनाशयति सकलक्लेशकारकमष्टप्रकारमपि कर्म यः स विनयः स एवोपचारः - आराधनाप्रकारो गुरोर्विनयोपचारः, तथा मानस्य - अहङ्कारस्य भञ्जना - विनाशः कृतो भवति, जात्यादिमदाध्माता हि न मन्यन्ते देवं न वन्दन्ते गुरून् न श्लाघन्ते परं वन्दनके च दीयमाने एवंविधानर्थनिबन्धनमभिमानो नाशितो भवतीति, अत एव गुरुपूजाऽप्येवं भावतः कृता भवति, तथा सकलकल्याणमूला तीर्थकराणामप्येवमाज्ञा परिपालिता भवति, यतो भगवद्भिर्विनयमूल एव धर्मः प्रत्यपादि, तथा श्रुतधर्माराधना च कृता भवति, यतो वन्दनकपूर्वमेव श्रुतग्रहणं क्रियते, तथा पारम्पर्येण वन्दनकादक्रिया भवति, यतोऽक्रियः सिद्ध एव भवति, स च पारम्पर्येण वन्दनकलक्षणाद्विनयादेव सम्पद्यते, उक्तं च परमर्षिभिः – “तहारूवं णं भंते ! समणं वा माहणं वा बंदमाणस्स वा पज्जुवासमाणस्स वंदना पज्जुवासणा य किंफला पन्नत्ता ?, गोअमा ! सवणफला, से णं सवणे किंफले पश्नत्ते १, गोअमा ! नाणफले, से णं नाणे किंफले ?, गोअमा ! विन्नाणफले, विन्नाणे पञ्चक्खाणफले, पञ्चक्खाणे संजमफले, संजमे अणण्यफले, अणण्हए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया सिद्धिगइगमणफल "त्ति [ तथारूपं भदन्त ! श्रमणं वा माहनं वा वन्दमानस्य पर्युपासीनस्य वा वन्दना पर्युपासना च किंफला प्रज्ञप्ता?, गौतम ! श्रवणफला, तत् श्रवणं किंफलं १, गौतम ! ज्ञानफलं तत् ज्ञानं किंफलं ?, गौतम !
15