________________
यिकक्षायोपशमिकौदयिकपारिणामिकलक्षणाः पञ्चापि भावाः संभवन्ति, ज्ञानावरणदर्शनावरणान्तरायाणामौपशमिकवर्जाः शेषाश्चत्वारः, नामगोत्रवेदनीयायुषां क्षायिकौदयिकपारिणामिकलक्षणात्रय इति ॥ ९८ ॥ अथ गुणस्थानकेषु भावपञ्चकं चिन्तयन्नाह
सम्माइचउसु तिग चउ भावा चउ पणुवसामगुवसंते । चउ खीणऽपुवे तिन्नि सेसगुणठाणगेगजिए॥ ९९॥ 'सम्माईत्यादि, सम्यग्दृष्ट्यादिषु चतुर्यु-अविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतलक्षणेषु गुणस्थानकेषु त्रयश्चत्वारो वा भावाः प्राप्यन्त इति शेषः, तत्र झायोपशमिकसम्यग्दृष्टेश्चतुर्वपि गुणस्थानकेषु त्रयो भावा लभ्यन्ते, तद्यथा-यथासंभवमौदयिकी गतिः क्षायोपशमिकमिन्द्रियसम्यक्त्वादि पारिणामिकं जीवत्वमिति, क्षायिकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेश्च चत्वारो भावा लभ्यन्ते, त्रयस्तावत्पूर्वोक्ता एव चतुर्थस्तु क्षायिकसम्यग्दृष्टेः क्षायिकसम्यक्त्वलक्षणः औपशमिकसम्यग्दृष्टेस्त्वौपशमिकसम्यक्त्वलक्षण इति, तथा चत्वारः पञ्च वा भावा द्वयोरप्युपशमकोपशान्तयोर्भवन्ति, किमुक्तं भवति ?-अनिवृत्तिबादरसूक्ष्मसंपरायलक्षणगुणस्थानकद्वयवर्ती जन्तुरुपशमकः उपशान्तमोहगुणस्थानकवर्ती चोपशान्तः, तत्रानिवृत्तिबादरसूक्ष्मसंपराययोश्चत्वारः पूर्ववदेव, उपशान्तमोहे तु चतुर्थ औपशमिकसम्यक्त्वचारित्ररूपः, पञ्चमः पुनस्रयाणामपि दर्शनसप्तकक्षये उपशमश्रेणिं प्रतिपद्यमानानां, तथाहि-क्षायिकसम्यक्त्वस्य औपशमिकचारि त्रस्य च सद्भावादिति, तथा चत्वारो भावाः क्षीणापूर्वयोः-क्षीणमोहगुणस्थानके अपूर्वकरणगुणस्थामके च, तत्र त्रयः पूर्ववदेव चतुर्थस्तु क्षीणमोहे क्षायिकसम्यक्त्वचारित्ररूपः, अपूर्वकरणे तु क्षायिकसम्यक्त्वरूप औपशमिकसम्यक्त्वरूपो वेति, 'तिन्नि सेसगुणठाणगे'ति त्रयः-त्रिसङ्ख्या भावा भवन्ति, केष्वित्याह-विभक्तेर्लोपात् शेषगुणस्थानकेषु-मिथ्यादृष्टिसासादनसम्यग्मिध्यादृष्टिसयोगिकेवल्ययोगि. केवलिलक्षणेषु, तत्र मिथ्यादृष्ट्यादीनां त्रयाणामौदयिकक्षायोपशमिकपारिणामिकलक्षणालयः सयोग्ययोगिकेवलिनोस्त्वौदयिकक्षायिकपारिणामिकरूपा इति । नन्वमी त्रिप्रभृतयो भावा गुणस्थानकेषु चिन्त्यमानाः किं सर्वजीवाधारतया चिन्त्यन्ते ! आहोश्चिदेकजीवाधारतयेत्याह-'एगजिए'त्ति एकजीवे-एकजीवाधारतयेत्थं भावचिन्ता मन्तव्या, नानाजीवापेक्षया तु संभविनः सर्वेऽपि भावा भवन्तीति २२१ ॥ ९९ ॥ इदानीं 'जीवचउदसगो'त्ति द्वाविंशत्युत्तरद्विशततमं द्वारमाह
इह सुहुमबायरेगिदियवितिचउ असन्नि सन्नि पंचिंदी । पजत्तापजत्ता कमेण चउदस जियहाणा
॥ १३००॥ इह-जगति प्रवचने वा अनेन क्रमेण चतुर्दश जीवस्थानानि भवन्ति, तिष्ठन्ति जीवास्तत्तत्कर्मपारतच्यादेविति स्थानानि-सूक्ष्मपर्यापैकेन्द्रियत्वादयोऽवान्तरविशेषाः जीवानां स्थानानि जीवस्थानानि, केन क्रमेणेत्याह-सूक्ष्मबादरभेदाद् द्विविधा एकेन्द्रियाः तथा द्वीन्द्रियात्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चासंज्ञिसंज्ञिभेदतो द्विधा मिलिताश्च सप्त, एते च सूक्ष्मैकेन्द्रियादयः प्रत्येक द्विविधाः-पर्याप्ता अपर्याप्ताश्चेति, तथा विशेषश्चात्र-अपर्याप्तका द्विधा-लब्ध्या करणेन च, तत्र ये अपर्याप्तका एव सन्तो म्रियन्ते न पुनः स्खयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः स्वयोग्यकरणानि-शरीरेन्द्रियादीनि न तावत् निर्वर्तयन्ति अथ चावश्य पुरस्तान्निवर्तयिष्यन्ति ते करणापर्याप्तकाः, इह चैवमागमः-लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव नियन्ते नार्वाक, यस्मादागामिकभवायुर्बद्धा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्या पर्याप्तानामेव बध्यत इति २२२ ॥ १३००॥ इदानीं 'अजीव चउदसगो'त्ति त्रयोविंशत्युत्तरद्विशततमं द्वारमाह
धम्मा १ ऽधम्मा २ऽऽगासा ३ तियतियभेया तहेव अद्धा य १०। खंधा ११ देस १२ पएसा १३
परमाणु १४ अजीव चउदसहा ॥१॥ इह अजीवा द्विविधाः-रूपिणोऽरूपिणश्च, रूपमेषामस्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणं, तद्व्यतिरेकेण तस्यासंभवात् अथवा रूपं नाम स्पर्शरूपादिसंमूर्च्छनात्मिको मूर्तिः तदेषामस्तीति रूपिणः-पुद्गलाः, तेषामेव रूपादिमत्त्वात् , रूपव्यतिरेकिणोऽरूपिणो -धर्मास्तिकायादयः, तत्र रूपिणश्चतुर्धा अरूपणिश्च दशधा, बहुवक्तव्यत्वाच्च प्रथममरूपिण आह-धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायाः-पूर्वोक्तस्वरूपास्त्रयोऽपि प्रत्येकं त्रिभेदाः, तद्यथा-धर्मास्तिकायद्रव्यं धर्मास्तिकायदेशाः धर्मास्तिकायप्रदेशाः, तत्र धर्मास्तिकायद्रव्यरूपं सकलदेशप्रदेशात्मकाविभागधर्मानुगतसमानपरिणामवत् अवयविद्रव्यं धर्मास्तिकायद्रव्यं, तथा तस्यैव धर्मास्तिकायद्रव्यस्य देशा:-बुद्धिपरिकल्पिता द्वयादिप्रदेशात्मका विभागा धर्मास्तिकायदेशाः, तथा धर्मास्तिकायस्य प्रकृष्टा देशा-निर्विभागा भागा धर्मास्तिकायप्रदेशाः, ते चासङ्ख्येया लोकाकाशप्रदेशप्रमाणत्वात्तेषां, एवमधर्मास्तिकायाकाशास्तिकाययोरपि प्रत्येकं त्रिभेदता वाच्या, नवरमाकाशास्तिकायप्रदेशा अनन्ता द्रष्टव्याः, अलोकस्यानन्तत्वात् , दशमश्च अद्धाकालः, अस्य च वर्तमानसमयरूपस्यैव परमार्थसत्त्वाद्देशकल्पनाविरहः । तथा स्कन्धा देशाः प्रदेशाः परमाणवश्चेति चतुर्विधा रूप्यजीवाः, तत्र स्कन्दन्ति-शुष्यन्ति धीयन्ते च-पुष्यन्ति विचटनेन संघातेन चेति स्कन्धाः-अनन्तानन्तपरमाणुप्रचयरूपा मांसचक्षुह्याः कुम्भस्तम्भादयः तदग्राह्या अचित्तमहास्कन्धादयोऽपि, पृषोदरादित्वाच रूपनिष्पत्तिः, अत्र बहुवचनं पुद्गलस्कन्धानामानन्त्यख्यापनार्थ, देशाः-स्कन्धानामेव स्कन्धत्वपरिणाममजहतां बुद्धिपरिकल्पिता द्यादिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रादेशिकेषु तथाविधेषु स्कन्धेषु देशानन्तत्वसंभावनार्थ, प्रदेशास्तु स्कन्धानां-स्क
250