________________
शमिक इत्येको भङ्गः औदयिक औपशमिकः क्षायिकः पारिणामिक इति द्वितीयः औदयिकः औपशमिकः क्षायोपशमिकः पारिणामिक इति तृतीयः औदयिकः क्षायिकः क्षायोपशमिकः पारिणामिक इति चतुर्थः औपशमिकः क्षायिकः क्षायोपशमिकः पारिणामिक इति पञ्चमः, षड्विंशतितमस्तु भङ्गः पंचकसंयोगे जायमानः सुप्रतीत एव, एते च षड्विंशतिर्भङ्गा. भङ्गरचनामात्रमधिकृत्य दर्शिता वेदितव्याः, संभविनः पुनरेतेषु मध्ये परमार्थतः षडेव, तद्यथा-एको द्विकसंयोगे ९ द्वौ त्रिकसंयोगे ५-६ द्वौ चतुष्कसंयोगे ३-४ एकः पञ्चकसंयोगे ॥ ९४ ॥ एते चावान्तरभेदतः पंचदश भवन्त्यतस्तान् सूत्रकृदाह-'ओदई'त्यादिगाथाद्वयं, औदयिकक्षायोपशमिकपा रिणामिक वैर्निष्पन्नस्य सान्निपातिकस्य नारकतिर्यमरसुरस्वरूपगतिचतुष्कविषयतया चिन्त्यमानस्य चत्वारो भेदा भवन्ति, इदमुक्तं भवति-औदयिकः क्षायोपशमिकः पारिणामिक इत्ययं त्रिकसंयोगनिष्पन्नो भङ्गो गतिभेदाचतुर्धा मिद्यते, तद्यथा-निरयगतावौदायिक नैरयिकत्वं क्षायोपशमिकमिन्द्रियादि पारिणामिकं जीवत्वादि, तिर्यग्गतावौदयिक तिर्यग्योनित्वं क्षायोपशमिकमिन्द्रियादि पारिणामिकं जीवत्वादि, एवं नरसुरगत्योरपि भावना कार्या, तथा एतैरेवौदयिकादिभित्रिभिः क्षायिकसहितैर्निष्पन्नस्य सान्निपातिकस्य भावस्य चत्वारो भेदा भवन्ति, अयमर्थः-अमीषामेव त्रयाणां भावानां मध्ये यदा क्षायिको भावश्चतुर्थः प्रक्षिप्यते तदा चतुष्कसंयोगो भवति, एवं चामिलपनीयः-औदयिकः क्षायिकः क्षायोपशमिकः पारिणामिकः, एषोऽपि गतिभेदाच्चतुर्धा, तद्यथा-औदयिकी नरकगतिः क्षायिक सम्यक्त्वं क्षायोपशमिकमिन्द्रियादि पारिणामिक जीवत्वादि, एवं तिर्यग्नरसुरगतिष्वपि भावनीयं, प्रकारान्तरेण चतुःसंयोगे एव चतुर्भेदानाह-तभावे-अनन्तरप्रक्षिप्तमायिकभावाभावे औपशमिकभावयुक्तैरौदयिकादिभिरेव चत्वारो भेदा भवन्ति, एतदुक्तं भवति यदा क्षायिकभावस्थाने औपशमिको भावः प्रक्षिप्यते तदापि चतुष्कसंयोगो भवति, एवं चामिलाप:-औदायिक औपशमिकः क्षायोपशमिकः पारिणामिकः, एषोऽपि गतिभेदात्प्रागिव चतुर्धा भावनीयः, नवरमौपशमिकं सम्यक्त्वमवगन्तव्यं, तथा एककः-एकसङ्ख्यः सान्निपातिको भेद उपशमश्रेणिसिद्धकेवलिषु भवति, तत्र औदयिक औपशमिकः क्षायिकः क्षायोपशमिकः पारिणामिक इत्येवंरूप एकः पञ्चकसंयोगो यः क्षायिकः सम्यग्दृष्टिः सनुपशमणि प्रतिपद्यते तस्य संभवति, तथाहि-औदयिकं मनुष्यत्वादि औपशमिकं चारित्रं क्षायिकं सम्यक्त्वं क्षायोपशमिकमिन्द्रियादि पारिणामिक जीवत्वादि, सिद्धेषु पुनरेको द्विकसंयोगलक्षणः सान्निपातिकभेदः, तद्यथा-क्षायिकः पारिणामिक इति, तत्र क्षायिकं सम्यक्त्वकेवलज्ञानादि पारिणामिक जीवत्वं, केवलिनां त्वेकनिकसंयोगलक्षणः सान्निपातिकभेदः, तद्यथा-औदयिकः क्षायिकः पारिणामिकः, तत्रौदयिकं मनुष्यत्वादि क्षायिक केवलज्ञानादि पारिणामिके जीवत्वभव्यत्वे, एवमनेन गत्यादिषु संयोगषट्कचिन्तनप्रकारेणाविरुद्धाः परस्परविरोधाभावेन संभविनः पञ्चदश सान्निपातिकभेदाः षटकभावविकल्पा भवन्ति, विंशतिसङ्ख्याः पुनर्भङ्गा असंभविनः संयोगोत्थानमात्रतयैव संभवंति न पुनर्जीवेषु कदाचिदपि प्राप्यन्ते इति ॥ ९५॥ ९६ ॥ अथैत एव संभविनः षड् भङ्गा येषु जीवेषु संभवन्ति तानाह-'दगे'त्यादि, दशसु द्विकसंयोगेषु मध्ये क्षायिकपारिणामिकभावद्वयनिष्पन्नो नवमो द्विकसंयोगः सिद्धानां संभवति, शेषास्तु नव प्ररूपणामात्रं, अन्येषां तु जीवानामौदयिकी गतिः क्षायोपशमिकानीन्द्रियाणि पारिणामिकं तु जीवत्वमित्येतद्भावत्रयं जघन्यतोऽपि लभ्यत इति, तथा केवलिनां संसारिणां च त्रिकर्सयोगः, तत्र दशसु त्रिकसंयोगेषु मध्ये केवलिनां औदयिकक्षायिकपारिणामिकमावत्रयनिष्पन्नः पञ्चमो भङ्गः संभवति, औपशमिकस्य मोहनीयाश्रितत्वेन तत्क्षयवतां केवलिनामसंभवात् , क्षायोपशमिकस्यापि इन्द्रियाद्यभावतोऽसंभवाद् 'अतीन्द्रियाः केवलिन' इति वचनात्, संसारिणां तु चतुर्गतिकजीवानामौदयिकक्षायोपशमिकपारिणामिकभावत्रयनिष्पन्नः षष्ठत्रिकसंयोगः संभवति, शेषास्त्वष्टौ प्ररूपणामात्रं, काप्यसंभवादिति, तथा पञ्चसु चतुष्कसंयोगेषु मध्ये चतुर्योगयुगं-चतुःसंयोगभङ्गद्वयं चतसृष्वपि गतिषु संभवति, तथाहिऔपशमिकसम्यग्दृष्टेरौदयिकौपशमिकक्षायोपशमिकपारिणामिकभावचतुष्टयनिष्पन्नस्तृतीयो भङ्गः, क्षायिकसम्यग्दृष्टस्तु औदायिकः क्षायिकः क्षायोपशमिकः- पारिणामिक इत्येवंरूपश्चतुर्थों भङ्गश्चतसृष्वपि गतिषु प्राप्यत इति, तथा मनुष्याणां पञ्चकयोगः-पूर्वोक्तभावपञ्चकसंयोगः संभवति, केवलं क्षायिकसम्यग्दृष्टयः सन्तो ये उपशमणि प्रतिपद्यन्ते तेषामेव न पुनरन्येषां, समुदितभावपञ्चकस्य तेषामेव भावादिति ॥ ९७ ॥ उक्ता जीवानधिकृत्य सर्वेऽपि भावाः, इदानी को भावः कस्मिन् कर्मणि भवतीत्येतन्निरूपयितुमाह'मोहस्सेवे'त्यादि, अष्टानां कर्मणां मध्ये मोहनीयस्यैवोपशमो-विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य विष्कम्भणं नान्येषां, उपशम. स्त्विह सर्वोपशमो विवक्षितो न देशोपशमः, तस्य सर्वेषामपि कर्मणां संभवात , तथा उदयावलिकाप्रविष्टस्यांशस्य क्षयेणानुदयावलिकाप्रविष्टस्योपशमेन-विपाकोदयनिरोधलक्षणेन निर्वृत्तः क्षायोपशमिकः, स चतुर्णामेव घातिकर्मणां-ज्ञानावरणदर्शनावरणमोहनीयान्तरायरूपाणां भवति न शेषकर्मणां, चतुर्णामपि च केवलज्ञानावरणकेवलदर्शनावरणरहितानां, तयोर्विपाकोदयविष्कम्भाभावतः क्षयोपशमासंभवात् , उदयक्षयपरिणामा अष्टानामपि कर्मणां भवन्ति, तत्र उदयो-विपाकानुभवनं, तस्य सर्वेषामपि संसारिजीवानामष्टानामपि कर्मणां दर्शनात् , क्षयः-आत्यन्तिकोच्छेदः, स च मोहनीयस्य सूक्ष्मसंपरायगुणस्थानकस्य चरमसमये, शेषाणां तु त्रयाणां घातिकर्मणां क्षीणकषायगुणस्थानकस्य, अघातिकर्मणामयोगिकेवलिनः, तथा परिणमनं परिणामः-जीवप्रदेशैः सह संलुलिततया मिश्रीभवनं यद्वा तत्तद्द्रव्यक्षेत्रकालाध्यवसायापेक्षया तथातथासंक्रमादिरूपतया यत्परिणमनं स परिणामः, एष चात्र तात्पर्यार्थः-मोहनीयस्य औपशमिकक्षा
249