SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ न्धत्वपरिणामपरिणतानां बुद्धिपरिकल्पिताः प्रकृष्टा देशा निर्विभागा भागा इत्यर्थः, अत्रापि बहुवचनं प्रदेशानन्तत्वसंभावनार्थ, परमाश्च ते अणवश्च परमाणवो-निर्विभागद्रव्यरूपाः । ननु प्रदेशपरमाण्वोः कः प्रतिविशेषः ?, उभयोरपि निर्विभागरूपत्वात् , उच्यते, स्कन्धप्रतिबद्धा निर्विभागाः प्रदेशाः, ये तु स्कन्धत्वपरिणामरहिता विशकलिता एकाकिन एवास्मिन् लोके वर्तन्ते ते परमाणवः, तदेवमजीवा:जीवव्यतिरिक्ताश्चतुर्दशविधा भवन्ति २२३ ॥ १ ॥ इदानीं 'गुण चउदसगु'त्ति चतुर्विशत्युत्तरद्विशततमं द्वारमाह मिच्छे १ सासण २ मिस्से ३ अविरय ४ देसे ५ पमत्त ६ अपमत्ते ७ । नियहि ८ अनियहि ९ सुहमु १० वसम ११ खीण १२ सजोगि १३ अजोगि १४ गुणा ॥२॥ 'सूचनात् सूत्र'मिति न्यायात् 'पदैकदेशेऽपि पदसमुदायोपचाराद्वा' इहैवं गुणस्थानकनिर्देशो द्रष्टव्यः, तद्यथा-मिथ्यादृष्टिगुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानं अविरतसम्यग्दृष्टिगुणस्थानं देशविरतिगुणस्थानं प्रमत्तसंयतगुणस्थानं अप्रमत्तसंयतगुणस्थानं अपूर्वकरणगुणस्थानं अनिवृत्तिबादरसंपरायगुणस्थानं सूक्ष्मसंपरायगुणस्थानं उपशान्तकषायवीतरागच्छद्मस्थगुणस्थानं क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं सयोगिकेवलिगुणस्थानं अयोगिकेवलिगुणस्थानं इत्येतानि चतुर्दश गुणस्थानानि भवन्ति । तत्र मिथ्याविपर्यस्ता दृष्टिः-अर्हत्प्रणीततत्त्वप्रतिपत्तिर्यस्य भक्षितधत्तरपुरुषस्य सिते पीतप्रतिपत्तिवत् स मिथ्यादृष्टिः, गुणा-ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, तिष्ठन्ति गुणा अस्मिन्निति स्थान-ज्ञानादिगुणानामेव शुद्ध्यशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, गुणानां स्थानं गुणस्थानं, मिथ्यादृष्टेर्गुणस्थानं-सासादनाद्यपेक्षया ज्ञानादिगुणानां शुद्ध्यपकर्षकृतः स्वरूपभेदो मिथ्यादृष्टिगुणस्थानं । ननु यदि मिथ्यादृष्टिरसौ कथं तस्य गुणस्थानसंभवः ?, गुणा हि ज्ञानदर्शनचारित्ररूपाः, तत्कथं ते दृष्टौ ज्ञानादिविपर्यस्तायां भवेयुः ?, उच्यते, इह यद्यपि तत्त्वार्थश्रद्धानलक्षणात्मगुणसर्वघातिप्रबलमिथ्यात्वमोहनीयविपाकोदयवशाद्वस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता भवति तथापि काचिन्मनुष्यपश्वादिप्रतिपत्तिरन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ताऽपि भवति, यथाऽतिबहलघनपटलसमाच्छादितायामपि चन्द्रार्कप्रभायां काचित्प्रभा, तथाहि-समुन्नतनूतनघनाघनघनपटलेन रविरजनिकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्प्रभाविनाशः संपद्यते, प्रतिप्राणिप्रसिद्धदिनरजनिविभागाभावप्रसङ्गात् , उक्तं च-"सुहृवि मेहसमुदए होइ पहा चंदसूराण"मिति, [सष्ठपि मेंघसमुदये भवति प्रभा चन्द्रसूर्ययोः। एवमिहापि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्तापि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसंभवः, यद्येवं ततः कथमसौ मिध्यादृष्टिरेव मनुष्यपश्वादिप्रतिपत्त्यपेक्षया अन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्त्यपेक्षया वा सम्यग्दृष्टित्वादपि ?, नैष दोषः, यतो भगवदहत्प्रणीतं सकलमपि प्रवचनार्थममिरोचयमानोऽपि यदि तद्तमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति सर्वशे प्रत्ययनाशात् , उक्तं च-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनामिहितम् ॥ १॥" किं पुनः शेषो भगवदर्हदभिहितयथावजीवाजीवादिवस्तुतत्त्वप्रतिपत्तिविकलः १, ननु सकलप्रवचनार्थामिरोचनात्तद्गतकतिपयार्थानां चारोचनादेष न्यायतः सम्यग्मिध्याहष्टिरेव भवितुमर्हति, कस्मान्मिध्यादृष्टिः ?, तदसत् , वस्तुतत्त्वापरिज्ञानात् , इह यदा सकलं वस्तु जिनप्रणीततया सम्यक् अद्धत्ते तदानीमसौ सम्यग्दृष्टिः, यदा त्वेकस्मिन्नपि वस्तुनि पर्याये वा मतिदौर्बल्यादिना एकान्तेन सम्यकपरिज्ञानमिथ्यापरिज्ञानाभावतो न सम्यक् श्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः तदा सम्यग्मिध्यादृष्टिः, उक्तं च शतकबृहौँ -"जहा नालिकेरदीववासिस्स खुहाइयस्सवि इत्थ समागयस्स पुरिसस्स ओयणाइए अणेगविहे ढोइए तस्स आहारस्सोवरिं न रुई न य निंदा, जेण तेण सो ओयणाइओ आहारो न कयावि दिवो नावि सुओ, एवं सम्मामिच्छादिहिस्सवि जीवाइपयत्थाणं उवरि न य रुई नावि निंद"त्ति, यदा पुनरेकस्मिन्नपि वस्तुनि पर्याये वा एकान्ततो विप्रतिपत्तिं प्रतिपद्यते तदा मिध्यादृष्टिरेवेत्यदोषः १। तथा आयं-औपशमिकसम्यक्त्वलाभलक्षणं सादयति-अपनयतीति नैरुक्त यशब्दलोपे आसादनं अनन्तानुबंधिकषायवेदनं, सति यस्मिन् परमानन्दसुखफलदो निःश्रेयसतरुबीजभूत औपशमिकसम्यक्त्वलाभो जघन्यतः समयमात्रेण उत्कृष्टतः षड्भिरावलिकामिरपगच्छतीति, सह आसादनेन वर्तत इति सासादनः सम्यग-अविपर्यस्ता दृष्टिः-जिनप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः सासादनश्चासौ सम्यग्दृष्टिश्च सासादनसम्यग्दृष्टिः तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानं, अथवा सह आसातनया-अनन्तानुबन्ध्युदयलक्षणया वर्तत इति सासातनः स चासौ सम्यग्दृष्टिश्च २ तस्य गुणस्थानं सासातनसम्यग्दृष्टिगुणस्थानं, सास्वादनसम्यग्दृष्टिगुणस्थानमिति वा पाठः, तत्र सह सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनः, यथा हि भुक्तक्षीरानविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले क्षीरान्नरसमास्वादयति तथैषोऽपि मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुद्वमन् तद्रसमावादयति ततः स चासौ सम्यग्दृष्टिश्च २ तस्य गुणस्थानं, एतचैवं भवति-इहापारसंसारपारावारान्तर्वर्ती जन्तुर्मिथ्यादर्शनमोहनीयादिप्रत्ययमनन्तपुद्गलपरावर्तान् यावदनेकशारीरिकमानसिकदुःखलक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशतोगुरुतरगिरिसरित्प्रवाहवाझमानोपलघोलनाकल्पेनाध्यवसायविशेषरूपेणानाभोगनिर्वर्तितेन यथाप्रवृत्तिकरणेनाऽऽयुर्वर्जानि ज्ञानावरणादिकर्माणि सर्वाण्यपि पृथक्पल्योपमसङ्ख्येयभागन्यूनैकसागरोपमकोटीकोटीस्थितिकानि करोति, अत्र चान्तरे कर्कशकर्मपटलापहस्तितवीर्य विशेषाणामसमतामतिकठोरतरनिबिडचिरप्ररूढगहनतरुपन्थिव दुर्भेदः कर्मपरिणामजनितो जीवस्य धनरागद्वेषपरिणामरूपोऽभिन्नरूपो प्रन्धिर्भवति, इमं च प्रन्थि यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति, ततो 251
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy