________________
मार्जिकाऽमिलाषवदुभयोरपि स्त्रीपुरुषयोरमिलाषः समुदेति स नगरमहादाहसमानो नपुंसकवेदः, तथा यदुदये सनिमित्तमनिमिचं वा हसति तत् हास्यमोहनीयं, यदुदयाद्वाह्याभ्यन्तरेषु वस्तुषु प्रीतिरुपजायते तद्रतिमोहनीयं, एतेष्वेव यदुदयादप्रीतिरुपजायते तदरतिमोहनीयं, यदुदयात्सनिमित्तमनिमित्तं वा तथारूपस्वसंकल्पतो बिभेति तद्भयमोहनीयं, यदुदयात्प्रियविप्रयोगादौ स्वोरस्ताडमाक्रन्दति परिदेवते भूपीठे च लुठति दीर्घ निःश्वसिति तच्छोकमोहनीयं, यदुदयवशात्पुनः पुरीषादिबीभत्सपदार्थेषु जुगुप्सावान् भवति तज्जुगुप्सामोहनीयं, तथा यदुदयाजिनप्रणीततत्त्वार्थानामश्रद्धानं विपरीतश्रद्धानं वा तन्मिथ्यात्वं, यदुदयात्पुनर्जिनप्रणीतं तत्त्वं न सम्यक् अद्धत्ते नापि निन्दति तन्मिश्र, सम्यग्मिध्यात्वमित्यर्थः, यदुयवशात्पुनर्जिनप्रणीतं तत्त्वं सम्यक् श्रद्धत्ते तत्सम्यक्त्वमिति । तथा नारकस्य सतो वेद्यमानमायुष्कं नारकायुष्कं तिरश्चां तिर्यगायुष्कं मनुष्याणां नरायुष्कं देवानां सुरायुष्कमिति । तथा यदुदयवशादुत्तमजातिकुलतपोरूपैश्वर्यश्रुतसत्काराभ्युत्थानासनप्रदाना खलिप्रग्रहादिसंभवस्तदुच्चैर्गोत्रं, यदुदयवशात्पुनर्ज्ञानादिसंपन्नोऽपि निन्दा लभते हीनजात्यादिसंभवं च तन्नीचैर्गोत्रं । अन्तरायभेदाश्च नामोत्कीर्तनावसरे सूत्रकृतैव व्याख्याता इति । तथा गम्यते-तथाविधकर्मसचिवै वैः प्राप्यत इति गतिः-नारकत्वादिपर्यायपरिणतिः तद्विपाकवेद्या कर्मप्रकृतिरप्युपचाराद्गतिः सैव नाम गतिनाम, एवमन्यत्रापि द्रष्टव्यं, ततश्च नरकविषये गतिनाम नरकगतिनाम, नारकशब्दव्यपदेश्यपर्यायनिबन्धनं नरकगतिनामेति तात्पर्य, एवं तिर्यग्मनुष्यदेवगतिनामापि वाच्यमिति । तथा एकेन्द्रियादीनां एकेन्द्रियत्वादिरूपसमानपरिणामलक्षणमेकेन्द्रियादिव्यपदेशभाग यत्सामान्यं सा जातिः, इदमत्र तात्पर्य-द्रव्यरूपमिन्द्रियं अङ्गोपाङ्गनामेन्द्रियपर्याप्तिनामसामर्थ्यात् सिद्धं, भावरूपं तु स्पर्शनादीन्द्रियावरणक्षयोपशमसामर्थ्यात्, 'क्षायोपशमिकानीन्द्रियाणी ति वचनात् , यत्पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिबन्धनं तथारूपसमानपरिणतिलक्षणं सामान्यं तदनन्यसाध्यत्वाजातिनामनिबन्धनमिति, उक्तं च-"अव्यमिचारिणा सादृश्येनैकीकृतोऽर्थोऽसौ जाति"रिति, तन्निमित्तं जातिनाम, तत्र एकस्य स्पर्शनेन्द्रियज्ञानस्यावरणक्षयोपशमात्तदेकविज्ञानभाज एकेन्द्रियाः, एवं यस्य यावन्तीन्द्रियाणि तस्य तान्याश्रित्यानेनामिलापेन तावन्नेयं यावत्पश्चानां स्पर्शनरसनघ्राणचक्षुःश्रोत्रज्ञानानामावरणक्षयोपशमात् पञ्चविज्ञानभाजः पञ्चेन्द्रियाः, तेषामेकेन्द्रियाणां जातिनाम एकेन्द्रियजाविनाम एवं यावत् पञ्चेन्द्रियजातिनाम । शीर्यत इति शरीरं-प्रतिक्षणं प्रागवस्थातश्चयापचयाभ्यां विनश्यतीत्यर्थः, तत्र यस्य कर्मण उद्यादौदारिकवर्गणापुद्रलान् गृहीत्वा औदारिकशरीरत्वेन परिणमयति तदौदारिकशरीरनाम, एवं वैक्रियाहारकतैजसकार्मणशरीरनामस्खपि वाच्यं, यावद् यस्य कर्मण उदयात्कार्मणवर्गणापुद्गलान् गृहीत्वा कार्मणशरीरत्वेन परिणमयति तत्कार्मणशरीरनाम, इदं च सत्यपि समानवर्गणापुद्गलमयत्वे स्वकार्यभूतात्कार्मणशरीरादन्यदेव, इयं हि कार्मणशरीरस्य कारणभूता नामकर्मण उत्तरप्रकृतिः, कार्मणशरीरं तु पुनरेतदुदयसभ वित्वादेतत्कार्य निःशेषकर्मणां प्ररोहभूमिराधारो वा संसार्यात्मनां च गत्यन्तरसंक्रमणे साधकतमं कारणमित्यन्यदेव स्वकार्यात्कार्मणशरीरात्कारणभूतं प्रस्तुतं कार्मणशरीरनामकर्मेति । तथा अङ्गानि-शिरउरउदरपृष्ठबाहरुसंज्ञितान्यष्टौ तवयवभूतानि त्वकल्यादीन्युपाङ्गानि शेषाणि तु तत्प्रत्यवयवभूतान्यलिपर्वरेखादीन्यङ्गोपाङ्गानि, अङ्गानि च उपाङ्गानि च अङ्गोपाङ्गानि चेति द्वन्द्वे एकपदशेषे अङ्गोपाङ्गानि, तानि च यस्य कर्मण उदयाद् येषु त्रिषु शरीरेषु भवन्ति तत् त्रिविधं अङ्गोपाङ्गनाम, तत्र यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागेन परिणतिर्भवति तदौदारिकशरीराङ्गोपाङ्गनाम, एवं वैक्रियाहारकाङ्गोपाङ्गनानोरपि वाच्यं, तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वान्नास्त्यङ्गोपाङ्गसंभव इति । तथा बध्यतेऽनेनेति बन्धनं-औदारिकादिपुद्गलानां गृहीवानां गृह्यमाणानां च परस्परसंश्लेषकारि, तच्च शरीरपञ्चकभेदात् पञ्चधा, तत्र पूर्वगृहीतैरौदारिकपुरलैः सह गृह्यमाणानौदारिकपुरलानुदितेन येन कर्मणा बनात्यात्मापरस्परसंसक्तान् करोति तदादारिकबन्धननाम, दारुपाषाणादीनां जतुरालाप्रभृतिश्लेषद्रव्यवत्, एवं वैक्रियादिबन्धनचतुष्केऽपि वाच्यं, अथवा औदारिकौदारिकबन्धननामभेदादि पञ्चदशधा, तच्च प्रागेव व्याख्यातं, यदि त्विदं शरीरपुद्गलानामन्योऽन्यसंश्लेषकारि बन्धननाम न स्यात् तत्तेषां शरीरपरिणत्या संहितानाभप्यसंबद्धत्वात्पवनापहृतकुण्डस्थितसंहतास्तिमितसक्तूनामिव एकत्र स्थैर्य न स्यादिति । तथा संघात्यन्ते-पिण्डीक्रियन्ते औदारिकादिपुद्गला येम तत्संघातनं, तदपि च शरीरपञ्चभेदत्वात्पञ्चधा, तत्र यस्य कर्मण उदयादौदारिकशरीरत्वपरिणतान् पुद्गलानात्मा संघातयति-पिण्डयत्यन्योऽन्यसंनिधानेन व्यवस्थापयति तदौदारिकसंघातनाम, इत्येवं वैक्रियादिशरीरचतुष्टयेऽपि वाच्यं, यदि च पुद्गलसंहतिमात्रनिमित्तं संघातनाम न स्यात्तदा बन्धोऽपि न भवेत्, 'नासंहतस्य बंधन मिति न्यायात् । तथा संहन्यमानशरीरपुद्गलानां लोहपट्टादिवत् उपकारि संहननं-अस्थिरचनाविशेषः, तत्पुनरौदारिकशरीर एव नान्येषु, अस्थ्यादिरहितत्वात्तेषां, तब षोढा-वऋषभनाराचादि, तत्र वगं-कीलिका ऋषभः-परिवेष्टनपट्टः नाराच:-उभयतो मर्कटबन्धः, ततश्च द्वयोरस्भोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्था परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाकारं वनामकमस्थि भवति यत्र तद्वऋषभनाराचं प्रथम, वजवर्ज ऋषभनाराचं द्वितीयं, ऋषभवर्ज वमनाराचमित्यन्ये, वऋषभवर्ज नाराचं तृतीयं, एकतो मर्कटबन्धं द्वितीयपार्श्वे कीलिकाविद्धमर्धनाराचं चतुर्थ, ऋषभनाराचवर्ज कीलिकाविद्धास्थिद्वयसंचितं कीलिकाख्यं पञ्चम, यत्र पुनः परस्परं पर्यन्तमात्रसंस्पर्शलक्षणां सेवां अतानिआगतान्यस्थीनि भवन्ति नित्यमेव च स्नेहाभ्यङ्गादिरूपां परिशीलनामाकाङ्कति तत्सेवात षष्ठं संहननमिति । तथा संस्थानं-अवयवरचनात्मिका शरीराकृतिः, तदपि षोढा-समचतुरस्रादि, तत्र समाः-शरीरलक्षणशास्त्रोक्तप्रमाणलक्षणाविसंवा(प्रन्थाग्रं १५०००)दिन्यश्चतस्रोऽस्रयः-चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यस्य तत्समचतुरस्रं, समासान्तोऽत्प्रत्ययः, न्यग्रोधवत्परिमण्डलं न्यग्रोधपरिमण्डलं,
242